________________
२११
[कर्णिकासमन्विता उपदेशमाला । गाथा-१००] वादपदेषु वर्तमानमिति गम्यते, गुरुं परिभवन्ति मन्दभाग्यतया दुर्बुद्धयो धर्माचार्यमवमन्यन्ते । क इव दत्त इव, केन धर्मविमर्शकेन धर्ममयकुत्सितविमर्शेन 'वयं निरपवादधर्माणः सुविहिताः, अयं तु सातिचारत्वान्न तथा,' इत्येवंविधकुविकल्पेन दुःशिक्षितं दुरभ्यस्तं दुर्गतिहेतुत्वाद्दुष्टचेष्टितं, तदपि सुविहितंमन्यस्याऽपि गुरुपरिभवनमास्तां निरुपाधिदुर्विनीततयेत्यपिशब्दार्थः ॥१९॥
दत्तकथानकं 'कारणनीयावासी'त्यादिगाथायां सङ्गमस्थविराचार्यकथानकान्तरुपरिष्टात् वक्ष्यते । 5 दुविनीतदृष्टान्तमुक्त्वा विनेयस्य गुरुप्रतिबन्धदाढ्यं दृष्टान्तेनाह
आयरियभत्तिरागो, कस्स सुनक्खत्तमहरिसीसरिसो।
अवि जीवियं ववसियं, न चेव गुरुपरिभवो सहिओ ॥१०॥ आचार्यभक्तिरागो गुरुगोचरान्तरस्नेहः कस्य सुनक्षत्रमहर्षिसदृशः न कस्यचिदन्यस्य, तेनैव हि जीवितमपि व्यवसितं विशेषेणावसानं नीतं, नैव गुरुपरिभवः आचार्यतिरस्कारः, सोढः क्षान्तः चशब्दात् 10 प्रतिपक्षस्तिरस्कृतश्चेति ॥१००॥ सुनक्षत्राख्यानकं चैवम्
[सुनक्षत्रमहर्षिकथानकम् ॥] श्रीवीरो विहरन्नु| श्रावस्त्यां कर्हिचित्पुरि । भगवान् भविनां भाग्यवासरः समवासरत् ॥१॥ धर्माख्यां पर्षदि श्रुत्वोत्थितायां षष्ठपारणः । आदाय भिक्षामक्षाममतिः प्रत्यागतो जिनम् ॥२॥ गौतमोऽपृच्छदश्रावि श्रावस्त्यामटता मया । गोशालो यज्जिनंमन्यस्तत्तथ्यं नाथ ! नाऽथवा ॥३॥ युग्मम् || 15 अथो कथोपसर्गेषु यथोक्ता तस्य मङ्खलेः । तथैव गौतमस्याग्रे जगौ तां जगतांगुरुः ॥४॥ तथाष्टाङ्गनिमित्तज्ञस्तेजोलेश्यातिदुस्सहः । जने जिनोऽहमस्मीति व्याहरन् विजहार सः ॥५॥ स मङ्खो मङ्खलेः सूनुराजीवकव्रतोऽधुना । दीक्षापर्यायतो वत्स ! चतुर्विंशतिवत्सरः ॥६॥ अजिनोऽपि जिनोपज्ञज्ञानेनैव जिनीभवन् । अस्ति हालाहलाख्यायाः कुम्भकार्याः किलापणे ॥७॥ युग्मम् ॥ तां जगाद जगद्गोप्ता यथाग्रे गौतमं कथाम् । व्यस्तारि सा तथा तथ्या मिथोऽनुकथनाज्जनैः ॥८॥ 20 श्रुत्वा जनादनिष्टं तत् जिनाऽऽदिष्टं स मङ्कसूः । ह्रीणश्चुकोप गोपायन्निदं चरितमात्मनः ॥९॥ जिनस्य शिष्यमानन्दस्थविरं षष्ठपारणम् । दृष्ट्वा चरन्तमाचष्ट क्रोधनः स तपोधनम् ॥१०॥ आनन्दं विब्रुवन्नुच्चैः सोद्यमः सोद्यमां तथा । दृश्यतां स्वगुरुर्गच्छन्नस्मत्तेजसि भस्मताम् ॥११॥ तस्मै निवेदयैवेदमनुत्वामागतोऽस्म्यहम् । मा भैषीस्तस्य शिष्येषु त्वमेको मित्र ! मुच्यसे ॥१२॥ जिनास्थानमथाऽऽनन्दो गत्वाऽऽनन्दोज्झितो जिनम् । विज्ञस्तदुक्तं विज्ञप्याऽपृच्छत् तच्छक्तिसम्पदम् ॥१३॥ 25 जिनोऽवोचत् परं देग्धं विदग्धं वत्स ! तत्तपः । जिनतेजस्यनन्ते तु शक्तिस्तस्य विलीयते ॥१४॥
१. तं अन्य KH तमन्य - P, B । २. दुरपाधि - P। ३. कं तदुपरि - KH, K, C, D, A| ४. आनन्दविब्रु - C, D, K, AI आनन्दविक्रम...LI ५. दुर्ग - CI
टि. 1. आत्मानं सुविहितं मन्यते इति सुविहितंमन्यः, तस्य । 2. भाग्यवासरः-भाग्यं उद्घटनाय वासरः सदृशः ।