________________
२१०
[कर्णिकासमन्विता उपदेशमाला । गाथा-९६-९९] एवं गुरुवचनकारिणां गुणमाह
जो गिण्हइ गुरुवयणं, भण्णंतं भावओ विसुद्धमणो ।
ओसहमिव पिज्जंतं, तं तस्स सुहावहं होइ ॥१६॥
यो गृह्णाति गुरुवचनं गुरुणोच्यमानं भावतोऽन्तःकरणेन विशुद्धमना निर्विकल्पचित्तः, औषधमिव 5 पीयमानं तद् गुरुवचनं गृहीतं तस्य सुखावहं भवति, कर्माशयामयोच्छेदकत्वादिति ॥९६॥
एवंविधान् गुर्वादेशवर्तिनः सुशिष्यान् स्तौति
अणुवत्तगा विणीया, बहुक्खमा निच्चभत्तिमंता य ।
गुरुकुलवासी अमुई, धन्ना सीसा इय सुसीला ॥९७॥ --
अनुवर्त्तका अनुकूलवृत्तयो विनीता गुरोः प्रतिपत्तिकारिणः सर्वकृत्यकारिणश्च, बहुक्षमा नीरोषतया 10 सर्वंसहा नित्यभक्तिमन्तो गुरोः सदान्तःकरणप्रतिबन्धभाजो गुरुकुलवासिनः स्वगुधिष्ठितगच्छवासिनः,
अमोचकाः संदेशदेशापरित्यागिनः स्वगुरुपादानामादेशभीरुतया नासन्नदेशत्यागेन दूरवर्तिनः यद्वा अमोचकाः श्रुतवाचनादिकार्येण गुरुमुपसम्पद्य तत्कार्यपर्याप्त्या कृतकृत्यतया भूयः स्वगुरुकुलं गता अपि, तस्योपसम्पद्गुरोर्मनसा प्रतिबन्धापरित्यागेन न पक्षपातं मुञ्चन्तीति अमोचकाः । धन्याः शिष्या इति सुशीलाः,
भाग्यभाजो विनेया एवं शुभस्वभावाः स्वपरयोः समाधिजनकत्वादिति ॥९७॥ 15 सुशिष्याणामेवान्वय-व्यतिरेकाभ्यां फलमाह
जीवंतस्स इह जसो, कित्ती य मयस्स परभवे धम्मो ।
सगुणस्स य निग्गुणस्स उ, अयसोऽकित्ती अहम्मो य ॥१८॥ सगुणस्य जीवतः प्राणान् धारयतः, इह लोके यशः अहो पुण्यवानयमिति श्लाघारूपः शृङ्गारः । कीर्तिश्च तथारूपैव मृतस्य संशब्दना । परभवे लोकान्तरे धर्मश्च सुदेवगत्यादिः, कार्यकारणोपचाराद्धर्मफलं 20 भवतीति । व्यतिरेकमाह-निर्गुणस्यानुवर्तकादिगुणदोषशून्यस्य पुनर्जीवतोऽयशो मृतस्याऽकीर्तिरधर्मश्च परलोके दुर्गतिहेतुर्भवतीति ॥९८॥
अथ स्वयमुत्सर्गनिष्ठतया दुर्विदग्धः, सुविहितंमन्योऽपि कारणादपवादसेविनमपि गुरुं न मीमांसेत, किं तु निर्विकल्पं सेवेतेत्याह
वुड्डावासे वि ठियं, अहव गिलाणं गुरुं परिहवंति ।
दत्तो व्व धम्मवीमंसएण दुस्सिक्खियं तं पि ॥१९॥ इह वृद्धः-क्षीणजवाबलः, तस्य आ मर्यादया ऋतुबद्धवर्षाकालयोर्मासचतुर्मासाभ्यधिकं वसनं वृद्धावासः, तस्मिन्नपि स्थितम् आस्तामनियतविहारिणम्, अथवेति पक्षान्तरद्योतक:-ग्लानं रोगासहिष्णुमप
१. कराश्च - C। २. सेविन: C । ३. दानामुपदेशभी - D, LI टि. 1. आशयः-वासना । 2. सदेशः - समीपः ।