________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ९३-९५]
२०९
तक्ष्णोति त्वचमुल्लिखति य इति वर्त्तते, तदनेन शारीरिकं रागद्वेषयोः कारणमुक्तम्, अधुना मानसमाह - संस्तौति श्लाघते, यो वा निन्दति गर्हते, महर्षयः सुसाधवस्तत्र चन्दनावलेपकादौ । समभावास्तुल्यचित्ताः, न चन्दनावलेपकस्तावकयोस्तोषवन्तः नाऽपि वासीतक्षकनिन्दकयो रोषभाज इति ॥९२॥
एवंविधगुणप्रकर्षस्य गुरूपदेश एव हेतुरिति गुरुवचनग्राहिण उपबृंहयन्निदमाह–
सहगिरिसुसीसाणं भद्दं गुरुवयण सद्दहंताणं ।
वयरो किर दाही वा-यण त्ति न विकोवियं वयणं ॥ ९३ ॥
अस्या भावार्थो वज्रस्वामिचरिते प्रागेवोक्तः । सिंहगिरिसुशिष्यानां भद्रमस्त्विति गम्यं, कीदृशानां ? प्राकृतत्वादनुस्वारलोपे, गुरुवचनं श्रद्दधतां भावसारं परिगृह्णतां, तथाहि तैर्वज्रः किल दास्यति वाचना - मित्याचार्यसम्बन्धि न विकोपितं वचनं, न विचारितं वाक्यम् अपि तु निर्विकल्पं तथेति प्रतिगृहीतमिति
किञ्च
॥९३॥
मिणु गोणसंगुलीहिं, गणेहि वा दंतचक्कलाई से ।
इच्छं ति भाणिऊणं, कज्जं तु त एव जाणंति ॥९४॥
कारणविऊ कयाई, सेयं कायं वयंति आयरिया ।
तं तह सद्दहियव्वं, भविअव्वं कारणेण तहिं ॥ ९५ ॥
5
मिनु गोनसमङ्गुलीभिर्मिमीष्व विषधरभेदं करशाखाभिरिति, यदि गुरवो ब्रूयुः यद्वा गणय परिसङ्ख्याहि दन्तचक्राणि दशनमण्डलानि से त्ति अस्य गोनसस्येति ब्रूयुः, तत्र शिष्येण इच्छामीति भणित्वा 15 गुरुवाक्यं वाचा प्रतिपद्य कार्यं तु तदेव क्रिययाऽपि, तदेव सम्पाद्यं नान्यथा विनयवैतथ्यप्रसक्तेः, तुशब्दस्य विशेषार्थत्वादादेशाऽनन्तरं कालविलम्बे प्रतिपृच्छ्य कार्यम् । किमित्येवं ? यतो जानन्ति गुरवो निरपाय - सापायं सर्वं ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च विदन्तीति साध्यवहारं पाठान्तरं वा " इच्छंति भाणियव्वं कज्जं तु त एव जाणंति" इच्छामीति शिष्येण भणितव्यं न गुरुवचनप्रतिघातः कार्यः । किमित्येवं ? यतः कार्यं तु तथाविधे भणने प्रयोजनं पुनस्त एव गुरव एव जानन्ति विशिष्टतरज्ञानत्वात्, तुशब्दादिहापि तदेवेति ॥९४॥ 20 तथाहि—
10
टि. 1. स्तावक : - स्तोता । 2. अध्यवहारेण सहितम् इत्यर्थः ।
कारणविदो हेतुयुक्तिज्ञाः, कदाचित्कस्मिंश्चित् प्रस्तावे श्वेतं काकं वदेयुराचार्याः, धवलं वायसं ब्रूयुर्गुरवः । तद्वचनं तथा श्रद्धातव्यं भावसारं तथेति प्रतिपत्तव्यं, किमितीत्याह ? भवितव्यं कारणेन [ तत्र ] 25 वाक्ये न खलु निष्प्रयोजना गुरूणां गिरः प्रवर्त्तन्त इति । कारणं त्विह अपुनर्बन्धकान् जीवान् कृतग्रन्थिभेदतया अष्टाविंशतिसत्कर्मणश्च जीवानधिकृत्य श्वेतपाक्षिकत्वादिलक्षणमागमप्रसिद्धं वेदितव्यम् ॥९५॥
१. जिसिम्मवट्टो पुग्गलपरिअट्टो चेव होइ संसारो ते सुक्कपक्खिआ खलु सेसा पुण किण्हपक्खम्मि । अत्राऽयं पाठः 'C' आदर्श
दृष्टः ।