________________
5
15
20
२०८
[ कणिकासमन्विता उपदेशमाला । गाथा - ८९-९२] तत्र गन्धोदकैः पुष्पैः सुगन्धैर्ववृषुः सुराः । लोकोत्तरं तदालोकि ज्ञानालोकेन सूरिभिः ॥१७॥ वधूवर्गैः सह प्रातर्भद्रा श्रुत्वेति तद्गुरोः । सर्वं लौकिकमन्तेष्ठिविधि चक्रे शुचाकुला ॥१८॥ समं स्नुषाभिः सा भद्रा व्रतं वैराग्यतोऽग्रहीत् । वधूरापन्नसत्त्वैका गृहस्वामित्वमातनोत् ॥१९॥ तत्पुत्रः स्वपितुः कालक्षेत्रे देवकुलं व्यधात् । महाकालाख्यया लोकैस्तदात्तमधुना पुनः ॥२०॥ इति अवन्तीसुकुमारकथानकम् ॥
25
युक्तं चैतदित्याह
अवक्षिप्तशरीरगृहा दूरक्षिप्तदेहगेहाः देहस्य गेहत्वमेव द्रढयति - कथम् ? अन्यो जीवः, शरीरमन्यदिति 10 भावनया धर्मस्य कारणे धर्मनिमित्तमाश्रित्य सुविहिताः साधवः, शरीरमपि त्यजन्ति धनकनकस्य का
वार्त्तेत्यर्थः ॥८९॥
-
उच्छूढसरीरघरा, अन्नो जीवो सरीरमन्नं ति ।
धम्मस्स कारणे सुविहिया सरीरं पि छडुंति ॥८९॥
कथमवन्तीसुकुमारस्तत्कालमेव तद्विमानमासादितवान् इत्यत आहएगदिवसं पि जीवो, पव्वज्जमुवागओ अनन्नमणो ।
जइ वि न पावइ मोक्खं, अवस्स वेमाणिओ होई ॥९०॥
किं बहुकालापेक्षया एकमपि दिवसं जीवः उपलक्षणत्वादेकमुहूर्तमपि वा प्रव्रज्यामुपागतो भागवतं व्रतं प्रतिपन्नः, अनन्यमना निश्चलचित्तः सन् मोक्षं प्राप्नोति धृतिसंहननकालादिसामग्रीविरहाद् यद्यपि न प्राप्नोति न लभते मोक्षं तथाऽप्यवश्यं नियमेन वैमानिको विमानपतिर्देवो भवति चरणसहायस्य सम्यग् - दर्शनस्याणीयसोऽपि महोदयफलत्वादिति ॥९०॥
धर्मार्थं देहत्यागकारिणां बाहुल्यदर्शनार्थमिहैव दृष्टान्तान्तरमाहसीसावेढेगी सिरम्मि, वेढिए निग्गयाणि अच्छीणि ।
मेयज्जस्स भगवओं, न य सो मणसा वि परिकुविओ ॥९१॥
आवेष्टनमावेष्टः शीर्षस्य शिरस आवेष्टः शीर्षावेष्टस्तेन करणभूतेन शिरसि वेष्टिते निर्गते अक्षिणी मेतार्यस्य भगवतो न च - नैबाऽसौ मनसापि परिकुपितस्तत्कारिणि, वाक्कायाभ्यां तु का वार्त्तेति सङ्क्षेपार्थः, विस्ताराऽर्थस्तु 'सुड्डु वि जई जयन्तो' इत्यादि गाथायामुपरिष्टाद् वक्ष्यते ॥९१॥
तदेवं यथा तेन शरीरं त्यक्तं तत्पीडाकारिणि न च क्रुद्धस्तथा सर्वमहर्षीणां कर्तुं युक्तमित्युपदिशतिजो चंदणेण बाहुं, आलिंपइ वासिणा व तच्छेइ ।
थुइ जो व निंद, महरिसिणो तत्थ समभावा ॥९२॥
यः कश्चिच्चन्दनेन गोशीर्षादिना, बाहुं भुजमालिम्पति समालभते, वास्या वा काष्ठघटनोपकरणेन
१. कारण... P।
टि. 1. समा लभ् विलिम्पने ।