________________
२०१
[ कर्णिकासमन्विता उपदेशमाला । गाथा-८२-८३ ] न लभे । इत्यर्थापत्त्या निश्चीयते अज्ञानतप इति कृत्वा अल्पफलमित्यफलमित्यक्षरार्थो ॥८१।। भावार्थः सम्प्रदायगम्यः । स चायम् -
- [तामलिकथानकम् ॥] तमालिनीति नीतिज्ञजनताजनितालया। पूरस्ति सम्पदां पस्त्यं कुटुम्बी तत्र तामलिः ॥१॥ स मौर्यपुत्रः स्वं पुत्रमनुशास्य महाशयः । कुटुम्बस्वामिनं कृत्वा प्राणामं व्रतमाददे ॥२॥ षष्ठैस्तपस्यन्नुबाहुः शश्वदातापनापरः । पात्रे दारुमये भिक्षामग्रहीदात्ममानतः ॥३॥ ततो भागत्रयं दत्त्वा जलस्थलखचारिणाम् । एकविंशतिधा धौतं तुर्यांशं स्वयमाहरत् ॥४॥ तिर्यङ्मनुष्यदेवेभ्यः सर्वेभ्यो विनयाऽऽनतः । प्रणामं व्रतयामास स प्राणामव्रती मुनिः ॥५॥ षष्टिं वर्षसहस्राणि तपस्तप्त्वा स दुस्तपम् । कुण्डिकां पादुके पात्रं त्यक्त्वाऽनशनमग्रहीत् ॥६॥ तदा च बलिचञ्चायां राजधान्यां च्युते हरौ । देवदेव्योऽसुराः सर्वे मार्गयन्ति स्म नायकम् ॥७॥ 10 एत्य संदर्घ्य देवद्धि प्रार्थितः प्रणयेन तैः । निरीहो न स्पृहाञ्चक्रे कथञ्चन स तापसः ॥८॥ गतेषु तेषु द्वौ मासावासाद्यानशनं तथा । ईशानकल्पमीशानः सोऽवसानवशादशात् ॥९॥ विडम्ब्यमानं तत्क्रोधादसुरैस्तत्कलेवरम् । अधाक्षीदवधेर्बुद्ध्वा बलिचञ्चां दृशैव सः ॥१०॥ निस्तेजोभिनिराधारैरसुरैर्दीनमानसैः । अनुनीतो विभुश्चक्रे तां दृशैव पुनर्नवाम् ॥११॥ असावजीवं जीवं च सम्यञ्चमधिगम्य चेत् । दयामयं तपः कुर्यात् तल्लभेत महोदयम् ॥१२॥ 15 ईशानेशानतां भुक्त्वा दिव्यां जीवः स तामलेः । गन्ता महाविदेहेषु ततोऽपि ब्रह्मणः पदम् ॥१३॥
इति तामलिकथानकम् ॥ ननु दुष्करमप्येतत्तपोऽल्पफलमिति पक्षपातमात्रम्-मैवम् तत्र संयमाभावादुन्मार्गप्रख्यापनाच्चेत्याह
छज्जीवकायवहगा, हिंसगसत्थाई उवइसंति पुणो ।
सुबहुं पि तवकिलेसो, बालतवस्सीण अप्पफलो ॥८२॥ पृथिव्यादिषड्विधजीवबाधकाः सन्तः स्वयं परेषामपि हिंसकशास्त्राणि पशुवधादिगर्भार्थानि वेदादीन्युपदिशन्ति व्याचक्षते । पुनःशब्दस्य विशेषणार्थत्वात्, परमेष्ठिशासनं प्रति पराङ्मुखाश्च ते, अनेन हेतुना सुबहुरपि तपःक्लेशो बालतपस्विनाम् अज्ञानकष्टव्रतिनां तामलिप्रभृतीनामल्पफलो भवति । अथवा अपि सम्भाव्यते एतत् अफलो निष्फलः संसाररूपानिष्टफलत्वात् वा अफल इति ॥८२॥ जैनसाधूनां पुनर्नैवम्, यतः
परियच्छंति य सव्वं, जहट्ठियं अवितहं असंदिद्धं ।
तो जिणवयणविहिण्णू, सहति बहुयस्स बहुयाई ॥८३॥ १. विनयान्वित: H, A, K, D, B विनयात्तत: KH | २. अपरिअच्छंति - P।
टि. 1. पस्त्यं (नपु०) गृहम् । 2. प्राणाम-व्रतविशेषम्, तम् । 3. मासौ आसाद्य अनशनं इति विग्रहः । 4. शास् धातोः ह्यभू० तृ०पु० एकवचनरूपः । 5. सम्यञ्चं-यथातथम्।
20