________________
२००
[कर्णिकासमन्विता उपदेशमाला । गाथा-७८-८१] उत्पीडनमवज्ञया अपकर्णनं-लज्जाकरमर्मोद्घटनादिभिरुद्वीडनम् । सूचनं पैशून्यकरणम् असद्दोषारोपणनिकारपूर्वं शोचनं वा । परिभवस्तिरस्कारस्तैरतिभणितदुष्टभणितैरसम्बद्धभाषणकर्कशाभिधानैः, एभिर्हेतुभिर्हेतुभूतैः शप्ता आक्रुष्टाः, हिता आक्रोष्ट्रनपि प्रतिमत्सरत्यागेन तत्कारुण्येन शुभाशया सत्त्वाधिका
वा । सुविहिताः सदाचारमुनयो नैव भिन्दन्ति मुखरागं न विच्छायमुखा भवन्ति । चशब्दान्मनोवाग्भ्यामपि 5 तान्प्रति न विक्रियां भजन्ति ॥७७॥ तथा
माणंसिणो वि अवमाण-वंचणा ते परस्स न करेंति ।
सुहदुक्खुग्गिरणत्थं, साहू उयहि व्व गंभीरा ॥७८॥ मनस्विनोऽपि विशिष्टमानार्हमनोभाजोऽपि । अपमान-वञ्चने-पराभव-प्रतारणे साधवः परस्याऽन्यस्य न कुर्वन्ति जनयन्ति । किमर्थं ? सुखदुःखोगिरणार्थं सुखदुःखयोः, कारणे कार्योपचारात् पुण्यापुण्ययोः, 10 उद्गिरणं वमनं क्षयो मोक्ष इति यावत् तदर्थम् । कथम्भूताः साधव ? इत्याह-उदधय इव गम्भीरा अतुच्छत्वात् परैरलब्धमध्या इति ॥७८॥ मौनमधिकृत्य भूय उपदिशति
मउया निहुयसहावा, हासदवविवज्जिया विकहमुक्का ।
असमंजसमइबहुयं, न भणंति अपुच्छिया साहू ॥७९॥ 15 मृदवो नम्रस्वभावाः निभृतस्वभावा: मनोवाक्कायचेष्टा झलझलायितरहितप्रकृतयः । हासेन हसनेन
द्रवः परोत्प्रासनरूपो विप्लवस्तद्विवर्जितास्तच्छून्याः । विरुद्धा रागादिहेतुतया, विरूपा कथा राज-देशभक्तस्त्र्यादिविषया, तया मुक्ताः स्वयमनौचित्यतस्त्यक्ताः । असमंजसं विरुद्धमसम्बद्धं च, समञ्जसमपि अतिबहुकं भूरितराऽऽलापरूपं न भणन्ति न भाषन्ते, अपृष्टाः परेणाननुयुक्ताः साधव इति ॥७९॥ पृष्टैरपि यद्भाष्यं तदाह
महुरं निउणं थोवं, कज्जावडियं अगब्वियमतुच्छं।
पुट्वि मइसंकलियं, भणंति जं धम्मसंजुत्तं ॥८॥ मधुरं श्रोतुराह्लादकं निपुणं सूक्ष्मार्थं स्तोकं मितं कार्याऽऽपतितं प्रस्तुतप्रयोजनानुत्तीर्ण अगर्वितमनुत्सिक्तम् अतुच्छमलब्धमध्यं पूर्वं प्राग्भाषणान्मतिसंकलितं बुद्धिसंयोजितं भणन्ति भाषन्ते वाक्यमिति शेषः । यत् किं ? धर्मसंयुक्तं निरवद्यमिति ॥८०॥ एवं ज्ञानिनामक्षेपेण मोक्षः अज्ञानिनां तु तप:क्लेशोऽपि अल्पफल इत्याह
स िवाससहस्सा, तिसत्तखुत्तोदयेण धोएणं ।
अणुचिन्नं तामलिणा, अन्नाणतवो त्ति अप्पफलो ॥८१॥ षष्टिवर्षसहस्राणि नैरन्तर्येण, त्रिःसप्तकृत्वा एकविंशतिवारान्, उदकेन धौतेन भैक्षेणेति गम्यम्, अनु गृहत्यागात्पश्चाच्चरितं सेवितं तप इति शेषः । केन? तामलिना, तथाऽप्यसौ ज्ञानिसाध्यमपवर्गमनुत्तरसुरत्वं वा
महु