________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा-७४-७७ ] एवंविधाश्च गुरोरुद्वेगकारका भवन्तीत्याह
थद्धा च्छिद्दप्पेही, अवण्णवाई सयंमई चवला । का कोहणसीला, सीसा उव्वेयगा गुरुणो ॥ ७४ ॥
स्तब्धा गर्वेणोद्धुरकन्धराः, छिद्रप्रेक्षिणो मत्सरितया गुरोरपि दोषस्थाननिरीक्षणप्रकृतयः । अवर्णवादिनो गुरोरपि दोषोद्घट्टनशीलाः । स्वयंमतयो गुर्वनधीनबुद्धयः, स्वेच्छया यत्किञ्चनकारिणः । चपलाः 5 कायमनोभ्यां तरलास्तत्र कायेन असमञ्जसगात्रविक्षेपिणो मनसा परापरशास्त्रांशग्राहिणोऽस्थिरस्वभावाः । वक्राः कुटिला मायाविनोऽप्राञ्जलवाचश्च । क्रोधनं स्वपरयोः कोपजनकं शीलं समाधानं येषान्ते । तथाभूताः शिष्याः गुरोराचार्यस्य उद्वेजका मनः सन्तापहेतवो भवन्तीति ॥७४॥
किञ्च
जस्स गुरुम्मिन भत्ती, न य बहुमाणो न गोरखं न भयं । न वि लज्जा न वि नेहो, गुरुकुलवासेण किं तस्स ॥ ७५ ॥
यस्य गुरौ न भक्तिरभ्युत्थानासनदानादिका सेवा, न च बहुमान आन्तरप्रीतिविशेषः । न गौरवं समानदर्शितया महनीयो महीयानिति बुद्धिः । न भयमकार्ये प्रवर्त्तमानस्य । नापि लज्जा गुरोः सम्बन्धिनी त्रपा-कथमहं पश्चात् पूज्यानां मुखं दर्शयिष्ये इत्यादिका । नापि स्नेहः प्रतिबन्धः । अपिशब्दौ समुच्चयार्थौ “सरुषि नेतिस्तुतिवचनं, तदभिमते प्रेम तद्विषि द्वेषः ।
I
दानमुपकारकीर्त्तनममूलमन्त्रं वशीकरणम् " ॥ [ ] इत्यादि गुणान्तराभावसम्भावनार्थौ वा । प्रतिपदं नञाऽभिधानं नैर्गुण्यातिशयख्यापनार्थम् । एवंविधस्य तस्य गुरुकुलवासेन गुर्वधीनगच्छमध्यावस्थानेन किं ? न किञ्चित्तदाधेयगुणविकलत्वादित्यभिप्रायः ॥ ७५ ॥ तथा
रूसइ चोइज्जंतो, वहइ अ हियएण अणुसयं भणिओ । नय कम्हि करणिज्जे, गुरुस्स आलो न सो सीसो ॥७६॥
१९९
रुष्यति तत्कालमेव क्रुध्यति, चोद्यमानो विशेषतो दोषमुत्कीर्त्यानुशास्तिप्रतोदेन प्रेर्यमाणः । वहति च हृदयेन अनुशयं भणित: स्मारणवारणादिभिरनुशिष्टः क्रोधानुबन्धचित्तेन धारयति । चशब्दात् कालान्तरे क्रोधानुबन्धकार्यं च दर्शयति । न च कस्मिन्नपि एकस्मिन्नपि कर्त्तव्ये विनयवैयावृत्त्यादौ करणीये वर्तते इति शेषः । गुरोरालोऽनर्थरूपो दुर्दान्ततया दुस्तरत्वात्, आलः अलीको वा शिष्यगुणशून्यत्वात् मृषारूपो नाऽसौ शिष्योऽनुशासनानर्हत्वादिति ॥७६॥
व्यतिरेकमुक्त्वा अन्वयेन सुशिष्यानाह -
उव्वीलण - सूअण - परिभवेहिं अइभणिय-दुट्टभणिएहिं । सत्ताहिया सुविहिया, न चेव भिंदंति मुहरागं ॥७७॥
१. प्रतिषेधः P, प्रतिसंबंध: C | २. नति: C । ३. नोद्यमानो C, P, B, H, K टि. 1. प्राञ्जलः - ऋजुः न प्राञ्जलः इति अप्राञ्जलः । 2. समाधानं प्रणिधानं इत्यर्थः ।
10
15
20
25