________________
१९८
[कर्णिकासमन्विता उपदेशमाला । गाथा-७२-७३ ] सुट्ट वि उज्जममाणं, पंचेव करेंति रित्तयं समणं ।
अप्पथुई परनिंदा, जिब्भोवत्था कसाया य ॥७२॥ सुष्ठ्वपि सर्वोत्कर्षेणाऽपि उद्यच्छन्तं तपःसंयमयोरुत्तिष्ठमानं पञ्चैव पापान्तरसाहाय्यनिरपेक्षाणि कुर्वन्ति जनयन्ति रिक्तकम् अपनीतसकलपुण्यगुणतया शून्यकं श्रमणं साधुम् । कानि तानि पञ्चेत्याह5 आत्मस्तुतिरात्मश्लाघा, यदुक्तम्
"मोहस्य तदपि विलसितमभिमानो यत्परप्रणीतायाम् ।।
तत्तमसोऽपि तमिस्त्रं याऽऽत्मस्ततिरात्मना क्रियते"॥[ ] तथा परनिन्दा इतरगर्दा, यतः
"गुणान्विमुच्य यो दोषान् परेषां भाषते जडः ।
स विष्टाशूकरस्यैति कणराशिद्विषस्तुलाम्" ॥[ ] तथा जिह्वा रसना, यतः
"निरवद्यायामुक्तौ सत्यां भुक्तौ च यस्य रसनायाः ।
स्वदते तदितरदुभयं त्रिदोषजडधीः स किं साध्यः ?" ॥[ ] तथा उपस्था स्पर्शनेन्द्रियं, तदेकदेशविशेषश्च
"निष्क्रम्य ये संसृतियोनिचक्रात्, जन्माप्तवन्तो विरतिप्रधानम् ।
तामेव तत्रैव भवे भजन्तो योनि पुनः किं न हि गर्हितास्ते" ॥[ ] तथा कषायाः क्रोधादयश्चत्वारस्ते च एकतया गृहीताः । यतः
"सद्गतिच्छादिनां मोहधूम्यया कृष्णवर्त्मनाम् ।
कषायाणां कणेनापि भस्मतामेति संयमः" ॥[ ] 20 चशब्दः प्रत्येकमेते पञ्चाऽपि समुचिताश्चेति । मन्यामहे मुनीनाममूनि पञ्चाऽपि पातकान्युच्चैः दुष्कृतमिव यैः सुकृतं तपोऽपि नरकं नरं नयति ॥७२॥ पुनरपि परावर्णवादिनो दोषाधिक्यं दर्शयन्नद्रष्टव्यतामाह
परपरिवायमईओ, दूसइ वयणेहिं जेहिं जेहिं परं ।
ते ते पावइ दोसे, परपरिवाई इय अपेच्छो ॥७३॥ परपरिवादमतितोऽन्यदोषोद्घाटनबुद्धितो हेतोः परं यैर्यैर्वचनैर्वचनीयैः सदसदोषोत्कीर्त्तकैर्वाक्यैः कारणे कार्योपचाराद्दोषैः करणभूतैर्दूषयति, जनमध्ये दुष्टं प्रकाशयति । तांस्तान् दोषान् परपरिवादी अन्यदोषसूचकः प्राप्नोति परभवे तत्तद्दोषभाजनं भवति इत्यनेन कारणेन इहभवेऽपि तत्तद्दोषकारणकर्मबन्धदुष्टतयाऽप्रेक्ष्योऽद्रष्टव्यो विलोकनस्याऽप्यतिपापिष्ठतयाऽनर्ह इति यावत् ॥७३॥
15
25
१. दर्शयंस्तत् द्रष्ट... KH | २. अपिच्छो - P, CI
टि. 1. परेण प्रणीतायां कृतायां श्लाघायां यद् अभिमानः तदपि मोहस्य...इत्यन्वयः । 2. त्रिदोषः-वातपित्तकफानां विषमावस्था भुक्तिविषये दोषरूपा । 3. अब्रह्मसेवनेन इत्यर्थः । 4. कृष्णवर्त्मन् (पुं०) - अग्निः । 5. वचनीयं - निन्दनीयं वचनं, तैः ।