________________
[ कणिकासमन्विता उपदेशमाला । गाथा - ६९-७१ ]
१९७
अतिसुस्थितो मूलोत्तरगुणेषु दृढतराऽऽपन्नपरिणामः गुणैः साधुजनोपष्टम्भकैर्वैयावृत्त्यकरणादिभिः । समुदितः समुदायेन सम्भूय उन्नति प्रापितः इति एवंरूपां यतिप्रशंसां साधुश्लाघां कृतिभिः क्रियमाणामिति गम्यते, यो न सहते न क्षमते, परिहीयते परभवे पुंभावादिभ्रंशेन हीनो भवति भवान्तरे, यथा महापीठपीठॠषी इति समासार्थः । व्यासार्थः श्रीऋषभनाथचरिते प्रागुक्त एव ॥ ६८॥
असहनस्य ऐहिकं दोषमाह -
परपरिवायं गेहड़, अट्ठमयविरल्लणे सया रमइ ।
डज्झइ य परसिरीए, सकसाओ दुक्खिओ निच्चं ॥६९॥
परपरिवादम् आत्मेतराऽवर्णवादं, गृह्णाति आदरेणाऽभ्युपगम्य करोति । तथाष्टानां मदानां कार्ये कारणोपचाराज्जात्यादीनां विरल्लणे वचसा विस्फारणे, सदा रमतेऽभिष्वजति । दह्यते च परश्रिया आत्मेतरलक्ष्म्या हेतुभूतया । चशब्दात्तभ्रंशार्थं च यतते । सकषायस्तीव्रतरक्रोधादिसन्तापः प्राणी दुःखितो 10 नित्यम् असातग्रस्तः सदा भवतीत्यैहिको दोषः ||६९||
अथ तस्याऽऽमुष्मिकं दोषमाह
विग्गहविवायरुइणो, कुलगणसंघेण बाहिरकयस्स । नत्थ किर देवलो वि, देवसमिईसु ओगासो ॥७०॥
5
विग्रहः शस्त्राशस्त्रिप्रायः कलहः, विवादो वाक्कलहस्तद्रुचेस्तदभिलाषशीलस्य । अत एव कुल-गण- 15 सङ्खेन बहिष्कृतस्य निष्काशितस्य सतो, नास्ति न विद्यते, किलशब्दः परोक्षाप्ताऽऽगमवादसंसूचकः देवलोकेऽपि सौधर्मादौ देवसमितिषु सुरसार्थमध्येऽवकाशोऽन्तः प्रवेष्टुमवढौकम् । तद्दुश्चरितदोषात् परलोकेऽपि स न लभते शुभं स्थानमिति भावः ॥७०॥
तदेवं मात्सर्यादविद्यमानदोषग्राहिणोऽवद्यमुक्तम्, सम्प्रति विद्यमानदोषग्राहिणोऽपि दोष एवेत्याहजइ ता जणसंववहार - वज्जियमकज्जमायरइ अन्नो ।
जो तं पुणो विकंथइ, परस्स वसणेण सो दुहिओ ॥ ७१ ॥
यदि तावत् जनसंव्यवहारवर्जितं लोकप्रसिद्ध्याऽपि प्रतिषिद्धम् अतिनिन्दनीयत्वात् सर्वजनवर्जितमकार्यं चौर्यपारदार्यादिकमाचरति सेवते, अन्यः पापप्रेरितः परः कश्चित्तदेष तावदल्पस्वादलाम्पट्यात् स्वयं कृतेन अवसानविरसतया राजपुरुषाक्रमणताडनमारणादिना व्यसनेन दुःखितो भवतु । यः पुनस्तदीयं तदकार्यं पुनर्भूयो विकत्थते जने प्रकाशयति, परस्य सम्बन्धिना व्यसनेन विपन्निपातरूपेण स दुःखितो 25 निष्फलान्तस्तापभाक् भवतीत्यर्थः ॥७१॥
तदेवं परापवादस्यानर्थहेतुत्वमुक्तम् । सम्प्रति तत्समानदुर्विपाकं मुनीनां महापातकपञ्चकं वर्ज्यमित्याह
१. यथा - P। २. भवति - C ।
20