________________
१९६
[कर्णिकासमन्विता उपदेशमाला । गाथा-६५-६८] ततस्तत्सर्वं सफलमिति शेषः । यदि किमित्याह-आपतितः-कथञ्चिदवर्जनीयसन्निधिप्रतिवेशादिवशतो दुःशीलसंसर्गगतः, प्रेरितः-पापमित्रैरकार्यकरणं प्रति नुन्नः, आमन्त्रितो-युवत्यादिभिरभ्यर्थितः, कर्मधारये आपतितप्रेरितामन्त्रितोऽपि अपिशब्दः क्वचित् त्रयस्याऽपि सम्भावनार्थः । आस्तामन्यादृशो यद्येवंविधोऽपि न करोत्यकार्यं नाऽऽचरत्यब्रह्म सामान्येन सिद्धान्तप्रतिषिद्धं वा ततः पठितादिकं सर्वं सफलं नान्यथेति ॥६४॥ तर्हि तस्य पश्चात् कुतः शुद्धिरित्युच्यते-गुरोः सम्यगालोचनापूर्वं निवर्तनात् । तथा चाह -
पागडियसव्वसल्लो, गुरुपायमूलम्मि लहइ साहुपयं ।
अविसुद्धस्स न वड्डइ, गुणसेढी तत्तिया ठाइ ॥६५॥ प्रकटितसर्वशल्यः प्रकाशीकृतमूलोत्तरगुणापराधः, गुरुपादमूले आचार्यचरणान्तिके, न यत्र क्वचन । लभते साधुपदम् अविशुद्धपरिणामोदयान्नष्टमपि प्राप्नोति श्रामण्यमिति । व्यतिरेकमाह-अविशुद्धस्य 10 गुरुपादमूलेऽनालोचितातिचारतया न वर्द्धते गुणश्रेणिर्ज्ञानादिगुणसन्ततिः, सशल्यतयाऽशेष धर्मानुष्ठानं
सम्पूर्णमनुतिष्ठतोऽपि न वृद्धि प्राप्नोति, किं तर्हि ? यावती अपराधकाले स्थिता, तावती तिष्ठति । दूषितपरिणामतया सद्धर्मानुष्ठानविकलस्य पुनरपयात्येवेति ॥६५॥ सम्प्रत्येतत्कथानकैकदेशेनैव गुणेषु मत्सरिणां महानिर्विवेकतामाह
जइ दुक्करदुक्करकारओ त्ति भणिओ जहट्ठिओ साहू ।
तो कीस अज्जसंभूइ-विजयसीसेहिं न वि खमियं ॥६६॥ यदि दुष्करदुष्करकारकोऽतिदुष्करविधातेति भणितोऽतिसम्भ्रमाऽऽदराभ्यां गुरुणेति गम्यते । को ? यथास्थितस्तथाविधः सत्य एव साधुः स्थूलभद्रमहर्षिः ततः किमिति आचार्यसम्भूतविजयशिष्यैः सिंहगुहावास्यादिभिस्तपस्विभिस्तद्वचनं नापि क्षान्तं न सोढमपि, आस्तां स्वस्मिंस्तथाविधसम्भावनाऽभ्यासाभिलाष इति ॥६६॥ भूय इदमेवाह
जइ ताव सुव्वओ सुंदरो त्ति कम्माण उवसमेण जई।
धम्मं वियाणमाणो, इयरो किं मच्छरं वहइ ? ॥६७॥ यदि तावत् कर्मणां चारित्रपरिणामविबन्धकानामनुदयप्राप्तानामुपशमेन उपलक्षणत्वादुदयप्राप्तानां क्षयेण हेतुभूतेन, सुव्रतः सदाचारः सन् यतिः साधुः सुन्दर इति शोभनोऽयमिति कृतिभिः स्तूयत इति शेषः ।
ततो गुणाधिकविषयप्रमोदसाध्यं धर्मं पुण्यविशेष विजानानोऽवगच्छन्, इतरः स्वयमपि धार्मिकम्मन्य इव किं 25 मत्सरं तं प्रति द्वेषं वहति चित्ते धारयति, नाऽत्राऽविवेकं विहायाऽन्यो हेतुरस्तीति भावः ॥६७॥
अत्र दृष्टान्तेन दोषमाह
अइसुट्टिओ त्ति गुणसमुइओ त्ति जो न सहइ जइपसंसं । सो परिहाइ परभवे, जहा महापीढपीढरिसी ॥६८॥
15
१. मच्छरो - P। २. यदि - P |