________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-६२-६४]
१९५ सामान्येनाऽऽचार्यवाक्यं, तदुक्तमवज्ञया नैवाऽनुतिष्ठतीत्यर्थः । अत एव निर्भाग्यतावशान्मन्दबुद्धिर्न च लाति न गृह्णात्युपदेशं, विशेषतस्तमेवोद्दिश्य दीयमानं गुरुणेति गम्यते स पश्चात्तथा शोचति खिद्यते उपकोशागृहे यथा तपस्वी कथानकोक्तः प्राग्वर्षे सिंहगुहावासीति ॥६१॥ तस्य च यत्सम्पन्नं तदेवाह
जेट्ठव्वयपव्वयभर-समुव्वहणववसियस्स अच्चंतं ।
जुवइजणसंवइयरे, जइत्तणं उभयओ भटुं ॥६२॥ कनिष्ठान्यणुव्रतान्यपेक्ष्य ज्येष्ठव्रतानि महाव्रतान्येव दुर्वहत्वात् पर्वतभरस्तस्य समुद्वहनमभ्युपगमेनोत्पाट्य जीवितपर्यन्तप्रापणं तद्व्यवसितस्य मयेदं कर्त्तव्यमिति बद्धकक्षस्य, अत्यन्तम् अतिशयेन युवतिजनसंव्यतिकरे उपकोशोपकण्ठे सति, यतित्वं श्रामण्यम् उभयतः प्रक्रमात् व्रतित्वगार्हस्थ्याभ्याम् उभाभ्यां भ्रष्टं च्युतम् । तथाहि-तदाऽसौ चरणपरिणामाभावान्न यतिः, नापि च गृहस्थो बहिर्वृत्त्या यतिपाखण्डोपलब्धेरिति ॥६२॥
___10 ननु कथं तस्याऽब्रह्मप्रार्थनामात्रेणैव यतित्वनाश इत्याह
जइ ठाणी जइ मोणी, जइ मुंडी वक्कली तवस्सी वा ।
पत्थंतो य अबंभं, बंभा वि न रोयए मज्झं ॥६३॥ यदि स्थानी कायोत्सर्गिको मौनी सङ्केतसंज्ञादिसंन्यासेन निरुद्धवाक्यप्रसरो मुण्डी अपनीतकेशो वल्कली तरुत्वग्निवसनस्तपस्वी विकृष्टतपोनिष्टप्तदेहो, वाशब्दाज्जात्यादिपरिग्रहः, अत्र यदिशब्दाः 15 सर्वेऽभ्युपगमे मुहुस्तद्ग्रहणं च शेषाऽशेषगुणयुक्तोऽपि किं बहुना, सर्वगुणसम्पूर्णोपीत्यादरख्यापनार्थं प्रार्थयन्नभिलषन् अब्रह्म मैथुनं ब्रह्मापि आस्तां तावदन्यो लोकप्रसिद्ध्या परमेष्ठ्यपि न रोचते मह्यं जिनवचनरहस्यनिःसारतया प्रतिभासते ममेत्यर्थः ॥६३॥ युक्तं चैतत् तथाह
तो पढियं तो गुणियं, तो मुणियं तो य चेइओ अप्पा ।
आवडिय-पेल्लियाऽऽमंतिओ वि जइ न कुणइ अकज्जं ॥६४॥ इहाऽपि मुहुस्तत इत्यभिधानम् आदरख्यापनार्थम् उक्तादन्यत्राऽसूयासूचनार्थं च । तथा च सति न पौनरुक्त्यम् । उक्तं च
"वीप्सानुवादाऽऽदरहेत्वसूयाभृशार्थनिर्देशनविस्मयेषु । सङ्ख्याप्रशंसास्मृतिसम्भ्रमेषु स्यान्नेषदर्थेषु च पौनरुक्त्यम्" ॥१॥[]
25 एवमन्यत्रापि यथासम्भवमभ्यूह्यं, पठनं पठितं भावे क्तप्रत्ययः सूत्रस्य ग्रहणमित्यर्थः, एवं गुणितं तस्यैव परावर्त्तनं, मुणितमर्थज्ञानं, यद्वा कर्मणि क्त: पठितं गुणितं मुणितं च सूत्रमिति शेषः । ततश्च चेतित आत्मेति चशब्दस्य समुच्चयार्थस्य व्यवहितसम्बन्धत्वात् । ततश्चेतित आत्मा यथावत् प्रत्यभिज्ञातः,
20
१. वासीयति: KHI टि. 1. जिनवचनरहस्यस्य निर्गतः सारः यस्मात् स, तस्य भावः तेन रूपेण प्रतिभासते, न रोचते इत्यर्थः ।