________________
5
१९४
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ६१] भूयः र्कुर्याः कृथा मा वा कृतवानधुना पुनः । तत्ते न वाचना देयेत्युज्जगार गिरं गुरुः ॥२२८॥ गुरोः शमयितुं रोषं सोऽथ सङ्घमसज्जयत् । शान्तिं धराधरस्याग्निर्नैति धाराधरं विना ॥२२९॥ सूरिभूरिनयः सङ्घमूचेऽसौ विकृतो यथा । अल्पसत्त्वास्तथान्येऽपि विकरिष्यन्त्यतः परम् ॥२३०॥ तन्मय्येवावशिष्टानि सन्तु पूर्वाणि सम्प्रति । अस्यैष दोषदण्डोऽभूदन्यशिक्षानिषेधतः ॥२३१॥ उक्तोऽथ बाढं सङ्खेन पूर्वोच्छेदोऽस्तु मा मयि । इत्येतद्वाचनाहेतोः सूरिरूरीचकार गाम् ॥२३२॥ न देया शेषपूर्वाणां कस्मैचिद्वाचना त्वया । इत्यभिग्राह्य सूरिस्तं ग्राहयामास वाचनाम् ॥२३३॥ स्थूलभद्रस्ततो खर्वसर्वपूर्वधरो धराम् । विजहार जगद्बोधकार्यमाचार्यकं वहन् ॥२३४॥ तपस्तीव्रतरं तप्यमानो मानोपमर्दकः । सम्पूर्णायुर्विपद्याऽऽप द्यामयं व्रतपद्यया ॥२३५॥ इति स्थूलभद्रकथानकम् ॥
10 अधुना गाथाक्षरार्थः । तत्र ते धन्याः स्पृहणीयपुण्यभाजस्ते साधवस्तेभ्यो नमो ये अकार्यं प्रति विरता अनाचारपराङ्मुखाः, अनेकतच्छब्दग्रहणमादरातिशयार्थं धीरा निष्प्रकम्पा व्रतमसिधारं करवालधारासञ्चरणवत् दुश्वरं चरन्ति स्वशक्त्यनुसारेणाऽनुतिष्ठन्ति यथा स्थूलभद्रमुनिरिति ॥५९॥
व्रतस्य असिधारतामेवाह - विषीदन्ति एतेषु सत्सु दुर्मेधसः संयमं प्रतीति निरुक्ताद्विषयाः शब्दादयस्त एव विवेकिनां संयमशरीरविदारणकारणतया दारुणविपाकत्वेन त्रासजनकत्वात् सर्वदिग्भावाच्च असिपञ्जरं 15 करवालमन्दिरं तस्मिन्निव लोके विषयमयत्वप्राधान्येनेह युवतीजनस्वरूपे विश्वे किमित्याह - वसन्ति तपःपञ्जरे साधवः इति निर्वाहपदेन सम्बन्धः । तपोऽनशनादि द्वादशभेदभिन्नं मनोवाक्कायनियमनरूपम्, तदेव विषयखड्गसम्पातरक्षणक्षमत्वात् पञ्जरमिव, तस्मिंस्तपः पञ्जरे । ज्ञानादिभिरुपायैर्मोक्षसाधकत्वात् साधवो वसन्ति निराबाधतया शाश्वतबुद्ध्या विश्वस्तं तिष्ठन्ति । के इव कुत्र ? असिपञ्जरे तीक्ष्णे निरूपचरितो - त्तेजितखड्गपञ्जरे । बहिर्लोके पञ्जरगता सिंहा इव, तपः पञ्जरे साधवोऽपि वसन्ति । अयमत्र भाव :- सिंहानां 20 किल पञ्जरस्थानां यदा मदावसरो भवति, तदा ते पञ्जरभङ्गाय प्रहर्त्तुमुत्तिष्ठन्ते, तदवस्थांश्च तान् भीषयितुं बहिस्तेषां पश्यतां भीषणोत्खातनिष्कृपकृपाणपाणिभिः पुरुषैः प्राणिनो निपात्यन्ते, तदभिमुखानि च करालानि करवालान्युद्गीर्यन्ते, तद्भयाच्च ते पञ्जराऽभ्यन्तर एव निलीनास्तिष्ठन्ति । एवं साधवोऽपि युवतीलोकेन शब्दादिविषयविषमोत्खातखड्गेन खण्ड्यमानमनेकसांसारिकविपद्घातैः प्राणिग्राममाकलय्य भवनिपातकातरतया तपोऽनुष्ठानपञ्जरमध्ये यत्नेन तिष्ठन्तीति ॥६०॥
25
एवंविधस्य च महासत्त्वसेवनीयस्य तपोऽनुष्ठानस्य गुरूपदेशो मूलमिति गुर्वाज्ञाकारिणं स्तुत्वा, तदतिक्रमकारिणोऽनेनैव दृष्टान्तेन प्रत्यवायमाह - यः करोति अप्रमाणं गुरुवचनं सामाचारीप्ररूपणात्मकं
१. र्यास्तथा... C ।
टि. 1. भूरिनयः-दीर्घदृष्टिः। 2. खर्वः - नीचः न्यूनः इति यावत् स चासौ सर्व: संपूर्णः पूर्वधरश्च । 3. पद्या - मार्गः, तया । 4. सर्वासु दिक्षु सद्भावात् विषयाः एव असिपञ्जरम् ।