SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ [ कणिकासमन्विता उपदेशमाला । गाथा - ६१] अवधानसमाधानप्रधानतरमानसः । पपाठ दशपूर्वाणि द्विवस्तूनानि स क्रमात् ॥२०३॥ आत्तव्रता विहारेणाऽत्रान्तरे पूतभूतलाः । भगिन्यः स्थूलभद्रस्य वन्दनाय समाययुः ॥२०४॥ ताः प्रणम्य गुरुं स्थूलभद्रः क्वेति बभाषिरे । सूरिर्न्यवेदयत्तासामत्र देवकुलेऽस्ति सः ॥ २०५ ॥ मूर्त्ताः शान्तीरिवायान्तीः स्थूलभद्रो निभाल्य ताः । स्वयमाश्चर्यचर्यायै होर्यक्षीं तनुमातनोत् ॥२०६॥ पुरो हरिं निरीक्ष्यैता गुरुमित्यभ्यधुर्भिया । प्रभो ! विदार्य ज्येष्ठार्यमस्ति हस्तिरिपुः पुरः ॥२०७॥ मत्वोपयोगयोगेन गुरुरब्रूत गच्छत । वन्दध्वमस्ति वस्तत्र ज्येष्ठार्यो न परं हरिः ॥ २०८ ॥ गतास्ततः कलामूलं स्थूलभद्रमवेक्ष्य ताः । चमच्चक्रुर्नमश्चक्रुश्चैनं ज्येष्ठा जगाद च ॥२०९॥ भगवन् ! सममस्माभिः श्रीयकोऽपि व्रतं श्रितः । किन्तु कर्त्तुमयं शक्तो नैकभक्तमपि क्षुधा ॥२१०॥ प्रत्याचख्यौ स यामं मद्गिरा पर्युषणाक्षणे । पारणाकारणोत्तालः काले प्रोक्तः पुनर्मया ॥ २११ ॥ प्रत्याख्याह्यद्य पूर्वाह्नं पर्वेदं प्राप्यते कुतः । चैत्यानां परिपाट्यैव सुखं यास्यत्यसौ क्षणः ॥ २१२॥ तदपि प्रतिपेदेऽसौ ततः पूर्णेऽवधौ पुनः । उक्तो मयापराह्णार्द्धप्रत्याख्यानं व्यधत्त सः ॥२१३ ॥ ततस्तमीसमीपेऽसौ सुखं यास्यति निद्रया । तदद्य मुच्यतां भक्तमित्युक्तः स चकार तत् ॥२१४॥ तदर्द्धरात्रिवर्द्धिष्णुः, क्षुधाबाधः स धीनिधिः । स्मृतपञ्चनमस्कारो ममार दिवमार च ॥२१५॥ ऋषिघातं चकाराहमिति स्वं धिक् चकार तत् । पुरः श्रमणसङ्घस्य प्रायश्चित्तं ययाच च ॥ २१६ ॥ सङ्घोऽप्यूचे न किञ्चित् प्रायश्चित्तेऽस्ति कारणम् । कृतं तत्तारणायैव तद्विशुद्धतया त्वया ॥२१७॥ अग्रेसङ्घं ततोऽवोचं शोचन्ती स्वमहं पुनः । इदं यदि जिनः ख्याति संवित्तिर्भाति तन्मम ॥२१८॥ तन्मां नेतुं जिनस्यान्ते सङ्घः प्रतिमया स्थितः । एत्य शासनदेवी च तं विनम्य व्यजिज्ञपत् ॥२१९॥ नीत्वा सीमन्धरस्वामिपार्श्वेऽमूं यावदानये । पूज्यैः स्थातव्यमित्येवं तावन्मद्विघ्नशान्तये ॥ २२०॥ इत्युक्त्वा मामियं निन्ये श्रीजिनोत्तंससंसदि । श्रीमत्सीमन्धरस्वामी तदाऽवन्दि मुदा मया ॥२२२॥ आर्येयं भरतात् प्राप्ता निर्दोषेति जिनो जगौ । व्याचक्रे चूलिकायुग्मं कृपया मत्कृतेऽपि च ॥२२२॥ देव्याऽथ भग्नसन्देहा नीताहं पौषधाश्रयम् । श्रीसङ्घस्याऽर्पयामास चूलिकायुगलं च तत् ॥२२३॥ इत्याख्याय ययौ सेयं स्वाश्रयं सपरिच्छदा । वाचनार्थमथाचार्यं स्थूलभद्रोऽगमन्मुनिः ॥२२४॥ नोवाच वाचनां तत्राऽयोग्योऽसीति गदन् गुरुः । स च दीक्षादिनाद्येव दध्यौ स्वस्यापराधिताम् ॥२२५॥ ऊचे च शास्तर्मे किञ्चिदागो नाऽऽगच्छति स्मृतिम् । शान्तं पापं न मनुषे कृत्वाऽपीति गुरुर्जगौ ॥२२६॥ स्मृत्वा च तन्मुनिः सूरेः पपात पदयोरयम् । नेदृग्भूयः करिष्यामि क्षमध्वमिति चाऽभ्यधात् ॥२२७॥ १. भगिन: - P । २. हार्यक्षं... KH, C | ३. स्वमहं मुहु: -C, K, L; स्वंमुहुर्मुहुः B, H । ४. जगदुरु: -P, K | ५. धितं - C जितां १९३ KH I टि. 1. हर्यक्षः सिंहः तत्सम्बन्धिनी तनुः हार्यक्षी तनुः, ताम् । 2. तमी - रात्रिः । 3. दिवम् आर (ऋ धातुः) प्राप्तः इति विग्रहः । 5 10 15 20 25
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy