________________
१९२
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ६१]
दासीं गणयतस्तस्य मां पूर्वप्रेयसीं तदा । दृढप्रेमाऽधिकस्थेमा संयम श्रीरजायत ॥ १७८ ॥ स्थूलभद्रस्तुतिकथामाधुर्यस्वादमीलितम् । उन्मीलत्योष्ठयुगलं स्तुतौ तस्यैव तत्पुनः ॥ १७९ ॥ रथी प्रथीयसीं प्रीतिं प्रथयन्नथ तां जगौ । भद्रे ! कः स्थूलभद्रोऽयं यस्त्वयाऽपीति वर्ण्यते ॥ १८०॥ तयोचे नन्दभूपालमन्त्रीन्दुशकटालभूः । स्तूयते सुकृतायैव मया स्वल्पधियाऽप्ययम् ॥१८२॥ ततश्चमत्कृतः प्रोचे रथिकः प्रथिताञ्जलिः । तस्य दासानुदासोऽस्मि यस्तादृक् तादृगप्यभूत् ॥१८२॥ संविग्नोन्तरिति तया दधत्या धर्मदेशनाम् । बोधितो मोहनिद्रातः कृत्याकृत्यमबोधि सः ॥१८३॥ सा च प्रबुद्धं बुद्ध्वा तं स्वमभिग्रहमभ्यधात् । तच्चाकर्ण्य चमत्कारीचान्तचित्तोऽयमूचिवान् ॥१८४॥ ईदृगीदृग्गुणं स्थूलभद्रं त्वद्दर्शिताध्वना । अहं भद्रे ! तु यास्यामि त्वं तिष्ठाऽभिग्रहे सुखम् ॥१८५॥ इत्युक्त्वा सद्गुरोरग्रे स जग्राह कृती व्रतम् । स्थूलभद्रोऽपि भगवानाततानाऽतुलं तपः ॥ १८६॥ दुष्कालोऽभूज्जगत्कालो द्वादशाब्दीमितस्तदा । कष्टं तोयधितीरस्थः साधुसङ्घस्तमत्यगात् ॥१८७॥ क्रमादगुण्यमानेऽथ साधूनां विस्मृते श्रुते । समुदायं व्यधात् सङ्घः पाटलीपुत्रपत्तने ॥१८८॥ यो योगाऽध्ययनोद्देशो यस्याभूत्तं तमग्रहीत् । एकादशाङ्गीमेकत्र सङ्घः संहितवानिति ॥ १८९॥ उद्यमी दृष्टिवादाय तद्विदे भद्रबाहवे । आह्वानाय मुनिद्वन्द्वं सङ्घः प्रहितवानथ ॥ १९०॥
सङ्घ व्यज्ञपयत्ताभ्यां सोऽपि प्रारब्धमस्ति यत् । महाप्राणाभिधं ध्यानं भावि नाऽऽगमनं ततः ॥१९१॥ अनुशिष्य मुनी चान्यौ श्रीसङ्घः प्राहिणोत् पुनः । गत्वा नत्वा च तौ भद्रबाहुमाचार्यमूचतुः ॥ १९२॥ सङ्घादेशं न यः कुर्याद्दण्डः कार्योऽस्य कीदृशः । अथाचार्योऽयमाचख्यौ सङ्घबाह्यः क्रियेत सः ॥ १९३॥ तावुच्चैरूचतुः सङ्घस्त्वां बाह्यं कुरुते ततः । सोऽप्यूचे किं प्रभुः सङ्घः करोत्येवं करोत्वदः ॥१९४॥ मयि प्रसन्नः श्रीसङ्घः प्रहिणोतु महामतीन् । शिष्यानवश्यं दास्यामि तेभ्योऽहं सप्त वाचना: ॥१९५॥ एकां भिक्षात आयातस्तत्र दाताऽस्मि वाचनाम् । द्वितीयां कालवेलायां तृतीयां च बहिर्भुवि ॥१९६॥ 20 तुर्यां विकालवेलायां तिस्रस्त्वावश्यकक्षणे । एवं सङ्घस्य कार्यं च मम कार्यं च सेत्स्यति ॥ १९७॥ इत्यागत्योदिते ताभ्यां श्रीसङ्घः प्रीतिसङ्घटी । न्ययुङ्क्त स्थूलभद्रादिमुनीन्द्रशतपञ्चकम् ॥१९८॥ तानवाचयदाचार्यो वाचनाल्पतया तु ते । स्थूलभद्रं विनोद्भग्नाः स्थानं निजं निजं ययुः ॥१९९॥ उद्भज्यसे कथं नेति स पृष्टः सूरिणा जगौ । नोद्भज्ये वाचनाल्पत्वं किन्तु तृष्णां न हन्ति मे ॥ २००॥ तमवोचदथाचार्यो ध्यानं पूर्णमिवास्ति मे । तदन्ते तृप्तिपर्यन्तं दातव्या तव वाचना ॥२०१||
स सूरिः पूरितध्यानस्तमथाऽवाचयत्तथा । नित्याकण्ठसुधापानं यथात्मानं स बुद्धवान् ॥ २०२॥
5
10
15
25
१. रावांत...A रवांत...L 'रचांत' D, H, C, K । २. करोत्वेवं P। ३. महामुनीन् - P, K, D। ४. तिस्र आव...P । ५. नु
- C I ६. द्भक्ताः - P |
टि. 1. चमत्कारेण आचान्तं चित्तं यस्य स ।