________________
१९१
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ६१]
किमेतीत्यथ सज्जेषु स चौरेष्वाययौ मुनिः । दृष्ट्वा न किञ्चिदस्तीति तैर्मुक्तः प्रचचाल च ॥१५३॥ शकुनिः पुनराचख्यौ लक्षं यातीदमित्यथ । किमस्ति सत्यं ब्रूहीति स्माह चौरपतिर्यतिम् ॥१५४॥ न्यस्तो मध्येऽस्य वंशस्य वेश्यायै रत्नकम्बलः । अस्तीत्यभिहिते चौरपतिना मुमुचे मुनिः ॥ १५५ ॥ गत्वाऽथ स ददौ कोशावेश्यायै रत्नकम्बलम् । गृहप्रणालिकापङ्के निःशङ्केयं न्यधत्त तम् ॥१५६॥ मुनि: स्माह महामूल्यो महाकष्टेन कम्बलः । मयाऽऽनिन्ये त्वया निन्ये पङ्कान्तः पङ्कजाक्षि ! किम् ॥१५७॥ 5 तयोचे शोचसीमं किं निःसीमं मूढ ! शोच्यताम् । बहुकष्टार्जितं मज्जत् पापे स्वं जन्म मानुषम् ॥ १५८॥ तदुक्त्या व्यक्तसंवेगस्तामित्यूचे मुनिस्त्वया । मोहसुप्तो भवदवे दीप्ते साध्वस्मि बोधितः ॥ १५९॥ अघानि निरघे ! हन्तुमतीचारभवान्यहम् । गुरुप्राये ! गुरुं यामि धर्मलाभोऽस्तु तेऽन्वहम् ॥ १६०॥ कोशाऽप्युवाच युष्माकं मया ब्रह्मव्रतस्थया । आशातना कृता बोधकृते सा क्षम्यतां प्रभो ! ॥१६१ ॥ इच्छामीति गदन् गत्वा गुरूणां सविधे व्यधात् । स तपांसि प्रथीयांसि रचितालोचनः पुनः ॥१६२॥ मुदा ददेऽन्यदा कोशा रथिने पृथिवीभुजा । बभाज राजवश्येति तमकामाऽपि सा पुनः ॥१६३॥ क्वचिन्नान्यः पुमान्मान्यः स्थूलभद्रादृते कृती । रथिनोऽस्य पुरः सुष्ठु तुष्टुवे नित्यमित्यसौ ॥१६४॥ आसाद्य मन्दिरोद्यानं विज्ञानं शयने स्थितः । अथ तस्यै रथी स्वीयं स मदी समदीदृशत् ॥ १६५ ॥ स आम्रलुम्बीं बाणेन विद्ध्वा योधशिरोमणिः । पुङ्खपुङ्खार्पितैर्बाणैः सुप्रापं पाणिना व्यधात् ॥१६६॥ अर्द्धचन्द्रेण तद्वृन्तं छित्त्वा स शयनस्थितः । हस्ताऽऽत्तां तां ददौ तस्यै स्तुत्यै च मुखमैक्षत ॥ १६७॥ पश्य सम्प्रति विज्ञानमवधानपरो मम । इत्युक्त्वा सार्षपे राशौ साऽनृत्यदेचलेक्षणा ॥१६८॥ तद्राशौ सूचिका पुष्पपिहिता निहिता ततः । नृत्यन्ती तन्मुखे सा न विद्धा पुष्पं च नाऽचलत् ॥१६९॥ सनृत्तकलया तुष्टो रथी सर्वपथीनया । जगाद सादरं कान्ते ! किं ते वद ददाम्यहम् ॥१७०॥ साऽवदद् वद किं चक्रे मया येनाऽसि रञ्जितः । जातिसिद्धमिवाभ्याससिद्धं किञ्चिन्न चित्रकृत् ॥१७१॥ तरन्ति तिमयोऽम्भोधि व्योम्नि वल्गन्ति पक्षिणः । देवा जगत्सु यान्तीति जातिसिद्धं न चित्रकृत् ॥ १७२ ॥ 20 अभ्याससिद्धं ते लुम्बिकर्त्तनं मम नर्त्तनम् । न किञ्चिद् दुष्करं ह्येतत् कृतं तुष्ट्या तदावयोः ॥१७३॥ भोगोज्ज्वलवपुः स्थूलभद्रो भोगैकलालितः । अजात्युत्थमनभ्यस्तं यच्चक्रे दुष्करं हि तत् ॥ १७४॥ भोगान् समं मयाऽभुङ्क्त यत्र द्वादशवत्सरीम् । मद्भाजि चित्रशालायां सोऽस्थात् तत्राक्षतव्रतः ॥१७५॥ लाक्षेव वह्निसान्निध्ये स्त्रीसान्निध्ये श्वसन् पुमान् । द्रुतं द्रवीभवत्येव तेनैव मुनिना विना ॥ १७६ ॥ दास्यहं षड्सं भोज्यं चित्रशाला च तादृशी । नोन्मादं तस्य कुर्मः स्म खेलतः संयमश्रिया ॥१७७॥
१. न्यधात् - P । २. दचलक्षणे - A, L, दचलेक्षणे P, च्चंचलत्कणे - C दचलत्कणौ - D, K । ३. लुंचि - P । ४. वसन्H; त्वसन् - C, श्वसन् - D, न्वसन् A । ५. खेलंत:-P |
टि. 1. सर्वादेः पथ्यङ्गकर्म .... [७।१।९४] इत्यनेन ईनः सर्वपथं व्याप्नोति ।
10
15
25