________________
१९०
[कर्णिकासमन्विता उपदेशमाला । गाथा-६१] व्योम्नीव चित्ररचनं पयसीवाऽग्निदीपनम् । तस्या विलसितं सर्वं तत्तत्तस्मिन्मुधाऽभवत् ॥१२८॥ नित्यं नव्योदयच्छोभा तत्क्षोभाय दिने दिने । एवं चकार सा ध्यानरसान्न तु चचाल सः ॥१२९॥ तस्मिस्तदुपसर्गीधैर्ध्यानं प्रत्युत दिद्युते । सत्त्वं वीरवरे वैरिप्रहारनिवहैरिव ॥१३०॥ अथ प्रागिव मोहेन त्वयि रन्तुं कृतोद्यमाम् । धिक् मामिति स्वं निन्दन्ती पदोस्तस्य पपात सा ॥१३१॥ तस्येन्द्रियजयोत्करुपसर्गस्तु दुस्तरैः । तदैव वेश्या वेश्यात्वधर्मध्यानाच्चचाल सा ॥१३२॥ प्रपद्य श्रावकत्वं सा जग्राहेममभिग्रहम् । राजा यस्मै प्रसादान्मां दत्ते भोक्ता स एव मे ॥१३३॥ नियूंढाभिग्रहास्तेऽथ पादमूलं गुरोरगुः । त्रयोऽपि साधवो धास्त्रिलोकीविभवा इव ॥१३४॥
आगच्छतः क्रमादूचे गुरुस्तान् किञ्चिदुत्थितः । स्वागतं नाम युष्माकमहो दुष्करकारकाः ! ॥१३५॥
स्थूलभद्रमथायान्तमभ्युत्थायाब्रवीद् गुरुः । स्वागतं ते महाभाग ! कृतदुष्करदुष्कर:(र !) ॥१३६॥ 10 ते त्रयोऽप्यथ सासूयाः साधवो दध्युरित्यहो । सम्भाषणं गुरोरत्र मन्त्रिपुत्रत्वहेतुकम् ॥१३७॥
षड्रसाहारहारी चेत् कृतदुष्करदुष्करः । वर्षान्तरक्रमेणेदं प्रतिपत्स्यामहे तपः ॥१३८॥ एतच्चेतसि निश्चिन्त्यामर्षिणस्ते महर्षयः । उत्कृष्टसंयमाः कष्टमष्टमासीमवाहयन् ॥१३९॥ प्राप्तायां प्रावृषि प्रीतस्ततः सिंहगुहामुनिः । जगृहेऽभिग्रहं स्थूलभद्रव्यूढं गुरोः पुरः ॥१४०॥ विज्ञाय स्थूलभद्रेण सस्पर्द्धमुपयोगतः । तमक्षमं च कार्येऽस्मिन्नाचार्येणाऽभ्यधीयत ॥१४१॥ स्थूलभद्र इव स्थूलभद्र एवेत्यभिग्रहम् । निर्वाहयितुमीशः स्यात् कोऽर्कादन्यो दिनं सृजेत् ॥१४२।। अभिग्रहो गृहीतोऽयं तव प्राक्तपसामपि । नाशाय भविता पूर्वभुक्तानामतिभुक्तवत् ॥१४३॥ इत्याचानिषिद्धोऽपि गृहीततदभिग्रह: । प्राप कोशालये चित्रशालायां स्थूलभद्रवत् ॥१४४॥ स्पर्द्धया स्थूलभद्रस्य प्राप्तोऽथैष परीक्ष्यते । इत्येनं षड्रसाहारैः कोशा स्वयमभोजयत् ॥१४५॥ ततः कृतोरुशृङ्गारा भृङ्गाराऽभ्युन्नतस्तनी । स्मराधिष्ठानदेवीव कोशा मुनिमियाय तम् ॥१४६॥ स तां वीक्ष्यैव चुक्षोभ शोभयाऽपहृतेन्द्रियः । चार्वन्या को न पात्येत को न दह्येत कीलया ॥१४७॥ स्मरातुरं कुरङ्गाक्षी याचमानमुवाच तम् । अवश्यं वसुवश्या स्मो वेश्या हि भगवन् ! वयम् ॥१४८॥ वदति स्म यतिः स्मारविकाराकुलितस्ततः । प्रसीद सुन्दरि ! धनं व्योम्न: पुष्पमिव क्व मे ॥१४९।। अपूर्वसाधोर्नेपालभूपालो रत्नकम्बलम् । दत्ते तमानयेत्येनं निर्वेदयितुमाह सा ॥१५०॥
नेपालाय चचालायमकालेऽपि द्रुतं ततः । पङ्के मज्जत्पदोऽभ्यस्यन्निवाऽधोगमनं मुनिः ॥१५१॥ 25 गत्वा प्राप्य नृपात् रत्नकम्बलं चलिते मुनौ । कीरचौरपतेराख्यल्लक्षमेतीति वर्त्मनि ॥१५२॥
१. शृंगारा... P, D | २. सह्येत लीलया - P | ३. व्योम्नि - P। ४. न्यस्य....P | ५. निवांधो - P, B निर्बाधागगनं...H |
टि. 1. इन्द्रियजयोत्कर्षा एव उपसर्गाः किं विशिष्टाः ? दुस्तराः, तैः सा वेश्या वेश्यात्वधर्मध्यानाच्चचाल इत्यन्वयः। 2. कीलाअग्निशिखा, तया । 3. स्मरस्येदं - स्मारः [६।३।१६०] तस्येदम् इत्यनेन अण।