________________
१८७
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-६१] रुदन्नुदश्रुसलिलः स जगौ कलिलस्थितः । तात ! कर्मेच्छति म्लेच्छतिलकोऽपि न कोऽप्यदः ॥५५॥ ऊचे मन्त्री कुलमिदं स्वसात्कुरु निहत्य माम् । दृष्टं राज्ञा विरुद्धेन स्तम्भं लीढमिवाग्निना ॥५६॥ न्यस्य तालुपुटं तालुपुटे स्याम्यहं नृपम् । मा भैषी: पितृहत्याया व्यसोश्छेद्यं शिरो मम ॥५७॥ बोधितोऽथ स पित्रेदं स्वीचकार चकार च । किमेतदिति सम्भ्रान्ते भूपे पृच्छत्युवाच च ॥५८॥ ज्ञातश्च स्वामिनो द्रोही हतश्चायं मया रयात् । मुकुटेनापि किं तेन शीर्यते येन मस्तकः ॥५९॥ कृत्वोर्ध्वदेहिकं कर्म विशुद्धः श्रीयकस्ततः । सर्वव्यापारदे राज्ञि विज्ञो व्यज्ञपयत्तदा ॥६०॥ स्वामिन् ! मम पितेवाऽस्ति स्थूलभद्राऽभिधोऽग्रजः । सुखी पितृप्रसादेन कोशावेश्यानिकेतने ॥६१।। पृथ्वीशस्तमथाहूय तमेवार्थमचीकथत् । आलोच्येदं करिष्यामि स्थूलभद्रोऽभ्यधादिति ॥६२।। निर्धारयाऽधुनैवेति भणितो भूभुजाऽथ सः । अशोकवनिकामाप निकामापन्नसम्भ्रमः ॥६३॥ एकान्ते मतिकान्तेन चित्तेनाऽचिन्तयच्च सः । सदोषा पणयोषावदेषा हन्त नियोगिता ॥६४॥ जनस्य सेवमानस्य दीप्तमानस्य ते उभे । द्रव्यार्जनेषु दाक्ष्यं स्यात् दाक्षिण्यं स्वजनेऽपि न ॥६५॥ तद्वशेन व्ययाधिक्यबाध्यमानहृदः सदा । द्रव्यमर्जयतः पुंसः क्व कृत्याकृत्यचेतना ॥६६॥ तत्कृत्यनित्यचिन्तोऽथ पर्याकुलमना जनः । न स्मरेद्धर्मकृत्यानि कुलकृत्यानि विस्मरेत् ॥६७॥ तदर्थिनः समर्थस्य परस्य पुरुषस्य सः । आतङ्केनाकुलस्तिष्ठेन्न सुखं क्षणमप्यसौ ॥६८॥ तया तयाऽप्यसौ दैवदुर्योगेन विरक्तया । बध्यते बाध्यते कृत्यात् वार्यते मार्यतेऽपि हा ॥६९॥ स्यादतोऽप्यधिकं किञ्चित्पुंसि तज्जुषि जीवति । मृते तु हन्त जायन्ते महत्यो दुर्गतिव्यथाः ॥७०॥ दोषसाम्राज्यपुर्यां च तस्यां तस्यां हहा जनः । भोगमात्रसुखान्मुह्येत् यन्त्रपिण्ड्यां तिमिर्यथा ॥७१॥ ते धन्याः सुधियस्ते च ये तद्भोगसुखं सदा । गृह्णन्ति धर्मकृत्यादि क्षणं नो विस्मरन्ति च ॥७२।। तत्तां च तां च नो सेवे सेवे सर्वगुणं तु किम् । इत्यन्तर्विमृशन् दीक्षामुदीक्षामास मन्त्रिसूः ॥७३॥ दध्यौ चैनां न कि सेवे यत्सेवावशगः पुमान् । हीनवंशोऽपि सेव्येत सुरासुरनरोत्तमैः ॥७४॥ दीक्षोल्बणगुणग्रामक्रियालीनस्य देहिनः । जायन्ते त्रिजगत्सम्पदब्धयः सर्वलब्धयः ॥७५॥ अपवित्रः पवित्रः स्याद्दासो विश्वेशतां भजेत् । मूों लभेत ज्ञानानि मञ्जु दीक्षाप्रसादतः ॥७६॥ दत्ते महत्त्वमित्यादि जनस्य ननु जीवतः । महानन्दपदं नित्यं दत्ते दीक्षा मृतस्य तु ॥७७॥ तदिमामेव सेवेऽहमिति मन्त्रिपतेः सुतः । शिरसो ललितान् केशान् क्लेशानेवोच्चखान सः ॥७८॥ रत्नकम्बलतज्जातरजोहरणभाक् ततः । सभां गत्वाऽऽह भूपालमालोचितमिदं मया ॥७९॥
15
20
.
25
१. लंभं - P तंसं - C । २. मन्येत - B | ३. सोल्लसितान्...B, KH, सोलसितान् - C, D, A I
टि. 1. कलिलं-गहनम्, तस्मिन् स्थितः । 2. पञ्चमी विभक्तिः । 3. विगता असवः प्राणा: यस्य स व्यसुः, तस्य । 4. पणयोषा नियोगिता च । 5. आतङ्कः-भयम् तेन । 6. मत्स्यः । 7. यस्याः दीक्षायाः सेवावशगः इत्यर्थः । 8. रत्नकम्बलेन तत्क्षणं जातं रजोहरणं भजति इति रत्नक० ।