________________
१८६
[कर्णिकासमन्विता उपदेशमाला । गाथा-६१] विदधे नित्यमित्येष विस्मितोऽजनि तज्जनः । कवेः कवितया किं न सिध्यतीति जगाद च ॥३०॥ नृपः श्रुत्वेदमाचख्यौ सचिवाय स चाऽवदत् । एतत्सत्यमसत्यं वा वीक्षणीयं स्वयं प्रगे ॥३१॥ सचिवेनाऽनुशिष्याऽथ प्रहितोऽवहितो नरः । छन्नं निशि धनं न्यस्य कवौ यातेऽम्बुनोऽग्रहीत् ॥३२॥ सद्धिरां वररुचिस्ततस्तोतुमगात् प्रगे । तत्कौतुकोत्सुकोऽभ्यागान्पोऽपि सह मन्त्रिणा ॥३३॥ स तु दृष्ट्वा नृपं द्रष्टुकाममुद्दामया गिरा । सविस्तरतरं सिद्धसिन्धोळधित वर्णनाम् ॥३४॥ वर्णनान्ते द्रुतं यन्त्रमाचक्राम क्रमेण सः । उत्पत्य नाऽपतन्पाणौ दीनारा नीरतस्तु ते ॥३५॥ मध्येऽम्बुनि धनं पाणिस्पर्शनादप्यनाप्य तत् । हीदीर्यमाणहत्तस्थौ सोऽपराद्धेषुयोधवत् ॥३६॥ अन्यायकृदियं गङ्गा निक्षिप्तमपि नाऽऽर्पयत् । तद्वित्तमर्पणीयं ते न्यायं पालयता मया ॥३७॥ उपलक्ष्य गृहाणेयं श्रीस्ते भवति वा न वा । इत्युक्त्वा सोर्पयद्वित्तं ग्रन्थितं सचिवः कवेः ॥३८॥ तयोक्त्या ग्रन्थिना तेन तां स विद्वान् दशां गतः । यस्याश्चरणरेणुत्वमेति शत्रुकृता मृतिः ॥३९॥ जगौ मन्त्री नृपं विप्रो विप्रतारयति प्रजाम् । अयमित्थं निशि न्यस्य प्रगे गृह्णन् धनं जलात् ॥४०॥ साधु बुद्धं त्वयामात्य ! शाठ्यमस्येति भूपतिः । निगदन् विस्मयस्मेरो वेश्मने स्म प्रयात्यथ ॥४१॥ अथामर्षीत् द्विजो दुःखपेटिकाचेटिकादिकम् । पप्रच्छ प्रतिकाराय प्रत्यहं मन्त्रिचेष्टितम् ॥४२॥ असज्जि श्रीयकोद्वाहाऽऽमन्त्रणीयाय मन्त्रिणा । भूपायोपायनीकर्तुमस्त्रसिंहासनादिकम् ॥४३॥ तदा सचिवदासीतो मत्वा वररुचिश्च तत् । चणकादिप्रदानेन पूर्डिम्भानित्यपाठयत् ॥४४॥ न वेत्ति लोको यदसौ शकडालः करिष्यति । व्यापाद्य नन्दं तद्राज्ये श्रीयकं स्थापयिष्यति ॥४५॥ पठतां डिम्भरूपाणां पुरस्यान्तः पदे पदे । इदं श्रुत्वा जनश्रुत्या नृपश्चेतस्यचिन्तयत् ॥४६॥ बालका यच्च जल्पन्ति यच्च जल्पन्ति योषितः । औत्पातिकं च यद्वाक्यं तद् भवत्यन्यथा न हि ॥४७॥
तत्प्रत्ययाय राज्ञाऽथ प्रहितः स्वहितः पुमान् । गृहस्वरूपं मन्त्रीन्दोर्विनिरूप्य व्यजिज्ञपत् ॥५८॥ 20 सज्यन्ते वाजिनो दिव्या रच्यन्ते भूषणोच्चयाः । यानि राजन्ययोग्यानि तेज्यन्तेऽस्त्राणि तानि च ॥४९॥
इति ज्ञात्वा प्रकुपितो नृपतिः सचिवं प्रति । सेवाक्षणप्रणामेऽपि तत्तस्याऽभूत् पराङ्मुखः ॥५०॥ भावं विज्ञाय राज्ञोऽथ मन्त्र्याह श्रीयकं रह: । केनाऽपि ज्ञापितो भर्तुरभक्तोऽहं द्विषन्निव ॥५१॥ कुलक्षयोऽयमस्माकमाकस्मिकतयोत्थितः । तं रक्ष दक्ष ! तन्वानो नत्वाऽऽदेशमिमं मम ॥५२॥
छेद्यस्त्वयाऽसिना मौलिर्नृपाग्रे नमतो मम । प्रभोरभक्तो हन्तव्यस्तातोऽपीति ततो वदेः ॥५३॥ 25 धृते केशेषु जरसा मय्येवं तरसा मृते । चिरं त्वयि श्रीः सरसा विभातु परसाधिका ॥५४॥
१. तेंबुतो - D । २. तेद्भुतं - P, KH, K | ३. णीयेते - P । ४. यतो... P । ५. ग्रंथिगं A । ६. कृतानति: - KH, कृतामति:B | ७. त्यज्यंते - P।
टि. 1. गङ्गानदी। 2. अपराद्धा-अलब्धलक्षा इषवो बाणा अस्य अपराद्धेषुः, स चासौ योधश्च स इव, लक्ष्यतः च्युतः इत्यर्थः ।