________________
[ कणिकासमन्विता उपदेशमाला । गाथा - ६१]
अद्वितीयमतिश्चास्य द्वितीयः श्रीयकाभिधः । श्रीनन्दहृदयानन्दकन्दलोऽजनि नन्दनः ॥५॥ रम्भासौभाग्यसंरम्भविलोपैकावलेपिनी । कोशेति हैतिः कामस्य वेश्या तस्यामभूत्पुरि ॥६॥ ग्रीष्मर्तुशर्वरीमेकामिव द्वादशवत्सरीम् । अध्युवास तदावासं स्थूलभद्रः सुखोन्मुखः ||७|| अङ्गरक्षतया भूमिभर्तुर्विश्रम्भभाजनम् । कया कया न स कृती श्रीयकोऽश्रीयत श्रिया ॥८॥ अभूत्तत्र च विद्यैकरुचिर्वररुचिर्द्विजः । महाकवित्ववादित्वशब्दवेदित्वपारगः ॥९॥ अष्टोत्तरशतेनाऽयं नित्यं नवनवैः कृतैः । कृती क्षितिपतिं श्लोकैरुपश्लोकयति स्म तम् ॥१०॥ न प्राशंसि कदाप्येष मन्त्रिणा द्विष्टदुष्टधीः । तुष्टिदानं न तुष्टोऽपि तदस्मै नृपतिर्ददौ ॥११॥ मत्वा वररुचिस्तत्र समारभत सेवितुम् । उपायनैरुपायज्ञो गृहिणीं तस्य मन्त्रिणः ॥१२॥ स प्रीतया तया पृष्टः कार्यमाचष्ट कोविदः । त्वत्पतिर्नृपतेरग्रे स्तुतां मत्कवितामिति ॥ १३॥ इदं तयाऽथ विज्ञप्तः प्रोचिवान् सचिवाग्रणीः । द्विष्टदृष्टेर्भृशं नास्य वचनं क्वचन स्तुवे ॥१४॥ तयाऽथ साग्रहं मन्त्री गदितस्तदमन्यत । कामस्य वन्दकाराणां वाग्निकारेऽस्तु कः क्षमः ॥१५॥ अग्रे नृपं वररुचेः पठतः कवितामथ । शुभा सुभाषितस्यास्य गतिरित्याह मन्त्रिराट् ॥१६॥ ददौ तदस्मै दीनारशतमष्टोत्तरं नृपः । अहो स्वयं क्रियामूढाः परोक्तिप्रत्यया नृपाः ||१७|| अथास्मै दीयमानेषु दीनारेषु दिने दिने । किमेतद्दीयते नित्यमित्यमात्योऽवदन्नृपम् ॥१८॥ अथोचे पार्थिवो मन्त्रिन् ! दीयते त्वत्प्रशंसया । स्वयं चेद्दीयतेऽस्माभिर्नाऽग्रे तत्किमदीयत ॥ १९ ॥ मन्त्र्यूचे प्रशशंसाऽहं सुभाषितततिं शुभाम् । पठतः परकाव्यानि प्रशंसा क्रियतेऽस्य का ॥२०॥ नृपोऽप्यूचेऽन्यनिर्माल्यं सूक्तिमाल्यं ददाति मे । अमात्य ! सत्यमेतच्चेद्वार्यस्तद् द्वार्यसौ विशन् ॥२१॥ उवाच सचिवः स्वामिन् ! दर्शयिष्यामि वः प्रगे । श्लोकानेतेन पठितान् पठन्तीर्बालिका अपि ॥२२॥ यक्षा च यक्षदत्ता च भूताऽथो भूतदत्तिका । सेणा वेणा च रेणा च सप्ताऽऽसन् मन्त्रिपुत्रिकाः ||२३|| सकृदुक्तमपि ज्येष्ठाऽग्रहीत् प्राज्ञा नवं श्रुतम् । द्वित्र्यादिवेलाक्रमतोऽगृह्णन्नन्या यथाक्रमम् ॥२४॥ उपान्तं भूमिकां तस्याऽन्येद्युर्मन्त्री निनाय ताः । समुपावीविशच्चाऽत्र प्राज्ञो यमनिकान्तरे ॥ २५॥ स्वयंकृतान् वररुचिर्वरानष्टोत्तरं शतम् । श्लोकानूचे तदा ताश्च यथाज्येष्ठमनूचिरे ॥२६॥ ततस्तस्य नृपो रुष्टस्तुष्टिदानं न्यवारयत् । वृतिश्च रक्षकश्च स्यान्मन्त्री भूपफलद्रुमे ॥२७॥ गत्वाऽथ स कविर्यन्त्रं प्रच्छन्नं जाह्नवीजले । वस्त्रबद्धं च दीनारशतमष्टोत्तरं न्यधात् ॥२८॥ ततस्तुत्वा प्रगे गङ्गां क्रमेणाऽऽक्रम्य यन्त्रकम् । जलोत्थितमदीनात्मा दीनारग्रन्थिमग्रहीत् ॥२९॥
१८५
१. पठती - C, B, A, H, KH | २. गृह्णन्त्येता... B, गृह्णन्त्वन्या - A गृह्णनन्या P |
टि. 1. श्रीनन्दः कामदेवः । 2. ० अवलेपः- अभिमानः स अस्या अस्ति इति अवलेपिनी । 3. हेतिः - शस्त्रम् । 4. श्लाघते इत्यर्थः । 5. मिथ्यादृष्टेः । 6. वाचः निकारः तिरस्कारः तस्मिन् । 7. ततः स्तुत्वा - [ व्यत्यये लुग्वा ] १।३।५६ - विसर्गलोपः ।
5
10
15
20
25