________________
१८४
[कर्णिकासमन्विता उपदेशमाला । गाथा-५९-६१] वन्दते स्म । स शिक्षितस्तद्दिनदीक्षितेन गुणाधिकोऽभून्नितरां विनीतः । शिक्षा च इयं -पणमंति प्रकर्षेण प्रह्वा भवन्ति चशब्दस्य पुनरर्थत्वात्, अकुलजेभ्यो विशेषार्थ उपन्यासः, पूर्वतरं प्रथममेव कुलजा विशिष्टकुलोत्पन्नाः, न नमन्ति स्तब्धा भवन्ति अकुलजा निन्द्यजातयः पुरुषाः प्रायो नीचजातिहेतुत्वात्
दुर्विनीततायाः । एवं सति यथा चक्रवर्ती भूत्वा मुनिस्त्वं वर्त्तसे, तथा त्वया सुतरां प्रणतिपरेण भवितव्यम् 5 इत्युक्तोऽसौ सञ्जातसंवेगः सम्यग्नोदनेयमित्यभिधाय यतिजनम् अद्यदिनदीक्षितादिभेदभिन्नं साधुलोकं
प्रणतः, प्राकृतत्वात् द्वितीयार्थे षष्ठी, पूर्व प्रथममेव इह सर्वज्ञशासने । यथा स चक्रवर्तिमुनिस्तथाऽन्येनाऽपि भवितव्यमित्युपदेशः ॥५७॥
एतदेव स्फुटयति यथा चक्रवर्तिसाधुः सामायिकसाधुना लघुनापि निरुपचारं निष्ठुरं भणितः शिक्षितः सन् नैव कुपितः, चशब्दादनुग्रहं च मन्वानः प्रणतो बहुत्वगुणेन हेतुभूतेन प्रणतेः क्षान्ति10 मार्दवाद्याश्रयत्वात् । तथाहि मोक्षहेतुतामधिकृत्य बह्वी क्षान्तिम॒दुता वा, तुच्छास्तु अभिमानादयोऽतोऽस्ति अस्या बहुत्वगुणस्तेन प्रणतः । अस्य दृष्टान्तस्योपनयः प्राग्गाथायामेवोक्तः ॥५८॥
___ तदेवमनेन लघोरपि वचनमनुष्ठितं गुरोस्तु सम्बन्धि सुतरां तथेत्यनुष्ठेयमपि यो मन्दबुद्धिर्नानुतिष्ठेत, तद्दोषदर्शनाय दृष्टान्तं गाथात्रयेण सूचयति
ते धन्ना ते साहू, तेसिं नमो जे अकज्जपडिविरया । धीरा वयमसिधारं, चरंति जह थूलभद्दमुणी ॥५९॥ विसयाऽसिपंजरमिव, लोए असिपंजरम्मि तिक्खम्मि । सीहा व पंजरगया, वसंति तवपंजरे साहू ॥६०॥ . जो कुणइ अप्पमाणं, गुरुवयणं न य लएइ उवएसं ।
सो पच्छा तह सोयइ, उवकोसघरे जह तवस्सी ॥६१॥ 20 आसामपि सुखावबोधार्थं कथानन्तरं पश्चादक्षरार्थः कथयिष्यते । कथा चेयम्अथ श्रीस्थूलभद्रकथा कथ्यते
[श्रीस्थूलभद्रकथानकम् ॥] अस्ति सौवस्तिकेनेव सुकृतेन कृतोच्चयम् । विभूतिपटलीपात्रं पाटलीपुत्रपत्तनम् ॥१॥
गुणवृन्दपरिस्पन्दो नन्दो नामाधिभूरभूत् । त्रिखण्डक्ष्मापतिस्तत्र श्रियः प्रिय इवापरः ॥२॥ 25 मन्त्री गुणानामट्टालः शकडालः स विश्रुतः । राज्ञोऽभूत् सर्वभूपश्रीहूतिदूतीभवन्मतिः ॥३॥
पन्यां लक्ष्मीवतीनाम्न्यां तस्य ज्यायान् सुतोऽजनि । स्थूलो गुणैः श्रिया भद्रः स्थूलभद्र इतीरितः ॥४॥
१. चैवम् D, K | २. कृतान्नति - D, K | ३. स्त्रिखंड... | ४. दूंती...P | टि. 1. सौवस्तिक:-पुरोहितः । 2. अधिभूः-स्वामी। 3. शिखरं इत्यर्थः। 4. सर्वभूपश्रियो हूतौ-आह्वानविषये दूतीभवन्ती मतिर्यस्य
सः ।