SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १७९ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ५४ ] देवकी देवकक्ष्मापर्नन्दिनी जैननी तव । गोपूजाव्याजतोऽभ्येति त्वां द्रष्टुं मासि मासि सा ॥ २६९॥ वसुदेवस्तु देवेन्द्रप्रायरूपपराक्रमः । पिता स तव तेनाऽत्र कंसत्रासादमुच्यथाः ॥२७०॥ अहं च रोहिणीसूनुर्वैमात्रेयस्तवाग्रजः । तातेन स्वयमाहूय त्वद्रक्षायै नियोजितः ॥२७१ ॥ कंसात् किं भीतिरित्युक्ते कृष्णेनाऽऽख्यत्पुनर्बलः । अतिमुक्तमुनेरुक्ति तथा बन्धुवधप्रथाम् ॥ २७२॥ कृष्णस्तदा तदाकर्ण्य क्रोधादनलवज्ज्वलन् । कंसध्वंसं प्रतिज्ञाय स्नानाय यमुनां ययौ ॥ २७३॥ दृष्ट्वाऽथ कालियः कृष्णमतिक्रोधादधावत । पश्यन्निवात्मनो मृत्युं चूडारत्नप्रदीपवान् ॥२७४॥ किमेतदिति सम्भ्रान्ते रामे वामेन पाणिना । धृत्वाऽसौ हरिणा घ्राणे पद्मनालेन नस्तितः ॥२७५॥ हरिः शैरारुमारुह्य तं भुजङ्गं महाभुजः । क्रीडन्नुडुपवन्नीरे सविभ्रममबिभ्रमत् ॥२७६॥ मृतकल्पमनल्पौजास्तं मुक्त्वा निर्ययौ हरिः । तदेत्य समदाटोपैर्गोपैस्तौ बान्धवौ वृतौ ॥२७७॥ ततः प्रचलितौ राम-गोविन्दौ मथुरां प्रति । गोपालकैः सहाऽभूतां पुरगोपुरगोचरौ ॥२७८॥ कंसादिष्टावथ द्विष्टाविभौ यमनिभौ क्रुधा । प्रधावितौ हतौ ताभ्यां तौ पद्मोत्तरचम्पकौ ॥२७९॥ अरिष्टादिद्विषौ नन्दनन्दनौ ननु ताविमौ । दर्श्यमानौ मिथो रागसागरैरिति नागरैः ॥२८०॥ गत्वा मल्लभटीभूमिं सह वल्लभवल्लवैः । निषेदतुः क्वचिन्मञ्च तौ समुत्तार्य तज्जनम् ॥२८१॥ युग्मम् ॥ ततश्च वामो रामेण रौद्रमूर्त्तिधरः पुरः । सैष मञ्चशिखोत्तंसः कंसः कृष्णस्य दर्शितः ॥ २८२॥ सकौतुकप्रपञ्चेषु मञ्चेषु विहितासनाः । कंसक्रूराशयज्ञानसावधानीभवद्भटाः ॥२८३॥ समुद्रविजयप्रेष्ठा जितज्वलनतेजसः । दशाऽपि च दशार्हास्ते गोविन्दाय निवेदिताः ॥२८४॥ युग्मम् ॥ विभाविभासुरच्छायौ सुरप्रायौ तुकाविमौ । चिन्तयद्भिरिति क्ष्मापैरैक्ष्येतां प्रतिक्षणम् ॥२८५॥ अयुध्यन्ताधिकं मल्लोत्तंसाः कंसाज्ञया ततः । अथोदस्थादतिक्रूरश्चाणूरः कंससंज्ञया ॥२८६॥ करास्फोटस्फुटाटोपः स्फूर्ज्जन्नूर्ज्जस्वलं ध्वनन् । ऊर्ध्वकृतभुजो भूमीभुजोऽधिक्षिप्य सोऽवदत् ॥२८७॥ यः कोऽपि धैर्यधूर्योऽस्ति पात्रं कोपस्य कोऽपि यः । स मे दोर्दण्डकण्डूतिं युधा खण्डयतु क्षणात् ॥२८८|| 20 असहिष्णुरथो विष्णुश्चाणूरस्येति गज्जितम् । उत्तीर्य मञ्चात् पञ्चास्यध्वनिर्भुजमदिध्वनत् ॥२८९॥ भुजास्फोटध्वनिर्विष्णोर्वर्द्धमानोऽथ दुर्द्धरः । कीर्त्तिविस्तृतये व्योमभाण्डे भङ्गमिव व्यधात् ॥२९०॥ तं मत्वाऽथ भुजास्फोटध्वनिनैवात्मनो रिपुम् । एककालं युधे कंसः प्रेरयामास मौष्टिकम् ॥२९१॥ अथ दृष्ट्वा तमुत्कृष्टमुष्टिकं मौष्टिकं हली । अधावत क्रुधा विष्णुपराभवभिया विभीः ॥२९२॥ स्थिराया व्यर्थतां नाम नयन्तः क्रमसङ्क्रमैः । अथो युयुधिरे विष्णुचाणूरबलमौष्टिकाः ॥२९३॥ १. नन्दनी - A, P, L । २. जननं - C । ३. सृत - C । ४. दर्शमानौ C, A, KH दश्य - K, D | ५. पृष्टा - C I ६. अथोत्तस्थाद - P। ७. एक: कालं - C | ८. विष्णुः - D, KH टि. 1. नस्तित: घ्राणे छिद्रं कृतः, विद्धः इति यावत् । 2. अनिष्टकृत् - तम् । 3. तुक् - पुत्रः, तौ । 4. स्थिरा पृथ्वी तस्याः नाम व्यर्थतां क्रमसङ्क्रमैः पादसञ्चारै: नयन्तः इत्यर्थः । 5 10 15 20
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy