SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १७८ [ कणिकासमन्विता उपदेशमाला । गाथा - ५४] कृष्णेन सोऽपि निर्भिन्दन् सुरभीः खुरभीषणः । कूर्परार्प्यणतो वक्त्रं विदार्याऽमार्यत द्रुतम् ॥२४४॥ खरमेषमुरुक्रोधखरमेष मुदाऽन्यदा । कृतगोपभयाऽऽरोपमाजघान जनार्दनः ॥२४५॥ अथाऽयं मथुरानाथस्तन्माथप्रभवद्भयः । द्विषं निश्चेतुमानिन्ये सदस्यचमिषाद्धनुः ॥२४६॥ अत्यद्भुतभुजः शाङ्ग यः कोऽप्यारोपयिष्यति । देयाऽस्मै सत्यभामेयमिति चायमघोषयत् ॥२४७॥ महीभुजो भुजोष्मायमाणा प्राणाधिकास्ततः । आगताः पर्यभूयन्त हन्त तेनैव धन्वना ॥२४८॥ सूनुर्मदनवेगाया वसुदेवात्मजो रथी । चापारोपार्थमुत्कण्ठाकुलो गोकुलमागमत् ॥२४९॥ तत्रोवास निशां रामकेशवस्नेहमोहितः । मार्गे गच्छन्नसौ प्रातः कृष्णमेकं सहाऽनयत् ॥२५०॥ अथ लग्नरथं मार्गेऽनाधृष्टौ मोक्षणाक्षमे । हेलया हरिरव्यग्रो न्यग्रोधमुदमूलयत् ॥२५१॥ इत्यूर्ज्जस्वलमालोक्य तं पदातिं पदान्तिके । हृष्टोऽनाधृष्टिरुत्तीर्य परिष्वज्य रथेऽनयत् ॥२५२॥ 10 मथुरायामथानेकपृथ्वीनाथकुलाकुलाम् । धीरौ धनुः सभामेतां जग्मतुस्तिग्मतेजसौ ॥२५३॥ असिस्नपन्नृपस्तोमवीक्षातप्तमथ क्षणात् । सत्यभामा चिरं चक्षुः कृष्णलावण्यसागरे ॥२५४॥ ग्रहणादेव चापस्याऽनाधृष्टौ पतिते सति । भ्रष्टाङ्गभूषणे तस्मिन्न यावदहसन् जनाः ॥२५५॥ तावन्मृदुलदोर्दण्डचण्डिमानमदीदृशत् । मुदा सदसि गोविन्दस्तन्वन् धन्वाधिरोपणम् ॥२५६॥ युग्मम् ॥ अनाधृष्टिरथागत्य मुक्त्वा द्वारि हरिं रथे । गत्वा पितुः सदस्याख्यन्मयाऽरोप्यत तद्धनुः ॥ २५७॥ उक्तोऽथ वसुदेवेन नश्य कंसेन हन्यसे । श्रुत्वेति स हरिं मुक्त्वा व्रजेऽथ स्वपुरेऽव्रजत् ॥२५८॥ चापमारोपयन्नन्दनन्दनः शब्द इत्यभूत् । कंसोऽपि हृदयारोपिशङ्काशङ्कुरजायत ॥२५९॥ आहूय भूयसो भूपान्मञ्चेषु मथुरापतिः । आदिशत्केलये मल्लान् चापारोपोत्सवच्छलात् ॥२६०॥ रामं जगाद गोविन्दः श्रुत्वा मल्लरणोत्सवम् । द्रष्टुं मल्लभटीमावां गच्छावः कौतुकं हि मे ॥२६१ ॥ तं प्रति प्रतिपद्येति यशोदामवदत् बलः । आवयोर्मङ्क्षु पानीयं स्नानीयं प्रगुणीकुरु ॥२६२॥ बलस्तत्रालसां किञ्चित्तां निरीक्ष्य रुषावदत् । षट्बान्धववधाख्यानं साक्षात्कर्तुं हरेः पुरः || २६३ ॥ आत्मानं मा स्म विस्मार्षीर्मदुक्तं न करोषि किम् । स्वाम्यादेशेऽप्युदासीना दासी नाम क्वचिद्भवेत् ॥ २६४॥ वचनेनामुना म्लानमवलोक्य बलो हरिम् । स्नानाय सममादाय यमुनायास्तटे ययौ ॥२६५॥ रामो हरिमथाऽपृच्छदपच्छायोऽसि वत्स ! किम् । त्वं प्रभातप्रभाराशिव्याश्लिष्ट इव दीपकः ॥२६६॥ तदेवं बलदेवं स निजगाद सगद्गदम् । किंकरीति किमाक्षिप्ता भ्रातर्माता मम त्वया ॥२६७॥ अथैवं प्रथयन् सामलीलां नीलाम्बरोऽवदत् । न ते नन्दः पिता किं च यशोदा जननी न ते ॥ २६८॥ 5 15 20 25 - १. सुरभी - KH, K, D । २. धृष्णौ - KH, L । ३. धृष्णि - A, P, K, H, C । ४. भटामा - C | पटीमा - PI टि. 1. प्राणः बलः पराक्रमो वा तेनाधिकः । 2. 'स्ना' धातुः आश्लिष्टः इत्यर्थः । प्रेरक- अद्यतनीरूपः । 3. व्याश्लिष्टः- विशेषेण -
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy