________________
१७५
[कर्णिकासमन्विता उपदेशमाला । गाथा-५४] इतश्चासीन्नाग इति श्रीभद्रिलपुरे वणिक् । प्रियाऽऽसीत्तस्य सुलसा कुलसागरचन्द्रिका ॥१७०॥ अतिमुक्ताभिधः साधुश्चारणोऽस्याश्च शैशवे । निन्दुरिन्दुमुखी सेयं भाविनीति न्यवेदयत् ॥१७१॥ परमश्राद्धयाराधि सुरः कश्चित्तयाऽप्यथ । तुष्टोऽयाचि सुतानेष प्राह ज्ञात्वाऽवधेस्ततः ॥१७॥ हन्तुं शौरिसुतान्प्रीतिकूटात्कंसेन याचितान् । अहं सञ्चारयिष्यामि निन्दोः सुतपदे तव ॥१७३॥ इति देवः प्रतिज्ञाय चक्रे शक्त्या स्वकीयया । देवकीसुलसाऽपत्यप्रसवे तुल्यकालताम् ॥१७४॥ 5 सुषुवाते समं ते तु देवक्याः षट् सुतान् क्रमात् । सुलसायै ददौ देवो देवक्यै सौलसान् सुतान् ॥१७५॥ स्फारमास्फालयद्ग्राणि कंसो निन्दुसुतान् स तान् । अवर्द्धन्तश्च देवक्याः सूनवः सुलसागृहे ॥१७६॥ नाम्नाऽनीकयशोऽनन्तसेनो विजितसेनकः । निहतारिदेवयशाः शत्रुसेनश्च ते श्रुताः ॥१७७॥ निशान्ते प्रेक्षत स्वप्ने सिंहार्काग्निगजध्वजान् । विमानपद्मसरसी ऋतुस्नाताऽथ देवकी ॥१७८॥ तस्याः कुक्षाववातार्षीद् गङ्गदत्तश्च्युतो दिवः । नभःसिताष्टमीरात्रिमध्येऽथ तमसूत सा ॥१७९॥ 10 सान्निध्यं तेनिरे तस्य पुण्यपूर्णस्य देवताः । तज्जन्मनि ततः स्वापमापुस्ते कंसयामिकाः ॥१८०॥ तदाऽऽहूय प्रियं प्राह देवकी रक्ष मे सुतम् । वञ्चयित्वा द्विषं कंसं मोच्योऽसौ नन्दगोकुले ॥१८१॥ यशोदाजननी चामुं सानन्दा नन्दवल्लभा । पालयिष्यति यद्वालमुपचारैर्नवैर्नवैः ॥१८२॥ वसुदेवोऽपि तन्मत्वा तं लात्वाऽङ्गजमव्रजत् । पार्श्वस्थदेवीक्लृप्ताष्टदीपच्छन्नजुषा पथा ॥१८३॥ अथो धवलरूपेण शिशुसान्निध्यदेवताः । पुरतो गोपुरद्वारकपाटानुदघाटयत् ॥१८४॥ आयातो गोपुरे शौरिरुग्रसेनेन भाषितः । भास्वन्तं दर्शयन् बालं सानन्दमिदमब्रवीत् ॥१८५॥ पुत्रव्याजेन शत्रुस्ते कंसोऽनेन हनिष्यते । त्वं चोद्धरिष्यसे किं तु मैवं क्वाऽपि प्रकाशयः ॥१८६।। आकर्येत्युग्रसेनेन हर्षादनुमतस्ततः । जगाम नन्दकान्ताया यशोदाया निकेतनम् ॥१८७॥ तस्यास्तमात्मजं शौरिः समाऽथ तदात्मजाम् । तनयां समुपादाय देवक्याः पुरतोऽमुचत् ॥१८८॥ इति कृत्वाऽऽगते शौरौ प्रबुद्धाः कंसयामिकाः । कन्यामिमां समादाय कंसाय द्रागढौकयन् ॥१८९॥ 20 स्त्रीमयं सप्तमं वीक्ष्य तं गर्भ निर्भयो नृपः । विदधे च्छिन्ननासाग्रं मानी ज्ञानं हसन्मुनेः ॥१९०॥ अमूमुचदमूं कंसो देवक्या एव सन्निधौ । पुनर्जातेयमित्यन्तःप्रमोदं प्राप साऽप्यथ ॥१९१॥ स कृष्ण इति संहूतः कृष्णाङ्गत्वेन वल्लवैः । वसुदेवकुलोत्तंसो गोकुलान्तरवर्द्धत ॥१९२॥ गते मासि सुतं द्रष्टुमुत्सुका देवकी ययौ । सह स्त्रीभिः प्रियं पृष्ट्वा गोकुले गोऽर्चनच्छलात् ॥१९३॥ श्रीवत्सलाञ्छनं स्निग्धश्याममालोक्य देवकी । स्वनन्दनं यशोदाङ्कमण्डनं मुमुदेतमाम् ॥१९४॥ 25
१. दृष्ट्वा - P, KH | २. लांछितं - B, K, KH | लांछलं - C । ३. दाह्न - C, KH |
टि. 1. सुलसायाः सुतान् इत्यर्थः । [६।१।६०-शिवादेरण] इत्यनेन सुलसाया अपत्यं-सौलसः तान् । 2. ग्रावन्()-पाषाणः, तस्मिन् । 3. श्रावणमासस्य शुक्लाष्टमी । 4. दीपछाजुषा-दीपस्य व्यापः, तेन युक्तः, तेन, शेषं स्पष्टम् । 5. वसुदेवम् इत्यर्थः ।