________________
१७४
[कर्णिकासमन्विता उपदेशमाला । गाथा-५४] क्व स्थितस्त्वमियत्कालमिति पृष्टोऽग्रजन्मना । समग्रमात्मनो वृत्तं वसुदेवो न्यवेदयत् ॥१४५॥ वार्ष्णेयो दशमः सोऽयमिति मत्वा पराक्रमात् । दधिरे रुधिरोर्वीशजरासन्धादयो मुदम् ॥१४६॥ प्रसङ्गायातनिःशेषभूपालविहितोत्सवम् । पुण्येऽह्नि वसुदेवोऽथ रोहिणी परिणीतवान् ॥१४७।।
जरासन्धादयो जग्मुर्भूभुजो रुधिरार्चिताः । तत्रैव यदवः सर्वे तस्थुः कंसान्विताः पुनः ॥१४८॥ __ अन्येधुर्जरती काऽपि श्रीसमुद्रे सभाजुषि । आगत्य गगनोत्सङ्गात् वसुदेवमवोचत ॥१४९॥
मम पुत्र्यौ चिराद्बालचन्द्रा वेगवती तथा । त्वद्वियोगाऽऽतुरे देव ! सञ्जाते बाढदुर्बले ॥१५०॥ इति श्रुत्वा मुखं पश्यन् समुद्रेण स भाषितः । गच्छ वत्स ! चिरं तत्र मा स्म स्थाः पूर्ववत्पुनः ॥१५१॥ इत्याकर्ण्य तया साकं वसुदेवो दिवा ययौ । तदाऽऽगमोत्सुकः प्राप समुद्रोऽपि स्वपत्तनम् ॥१५२॥ कन्ये काञ्चनचन्द्रस्य खेचरेन्द्रस्य वृष्णिभूः । उद्वाह्य पूर्वमूढाश्च सर्वाः शौरिपुरेऽनयत् ॥१५३॥ अन्यदा रोहिणी स्वप्ने हलभृज्जन्मसूचकान् । मृगाङ्कार्कमृगेशाब्धीन् निशाशेषे व्यलोकयत् ॥१५४॥ ततोऽङ्गतेजसा ध्वान्तद्रोहिणं रोहिणी सुतम् । असूत भूतधात्रीव विजितद्युमणि मणिम् ॥१५५।। रामो नाम्नाऽभिरामत्वात्पितृभ्यां स प्रतिष्ठितः । क्रीडन् भोगीव बालोऽपि जातः परभयङ्करः ॥१५६॥ वसुदेवोऽन्यदाऽऽहूतः कंसेन प्रीतिशालिना । ययौ राजानमापृच्छ्य मथुरायाममन्थरः ॥१५७॥
कंसस्तं मृत्तिकावत्यां पुर्यां नीत्वाऽथ यादवम् । ययाचे देवकी पुत्री देवकाख्यात्पितृव्यतः ॥१५८॥ 15 पुराऽपि नारदाऽऽख्यातगुणोद्यदनुरागयोः । तयोरथ विवाहोऽभूद् देवकीवसुदेवयोः ॥१५९॥
देवकोऽथ दशार्हाय बहु स्वर्णादिकं ददौ । नन्दं गोकोटियुक्तं च दशगोकुलनायकम् ॥१६०॥ वसुदेवोऽद्भुतानन्दस्ततो नन्दसमन्वितः । मथुरां सह कंसेन प्रयातो दयितायुतः ॥१६१॥ सुहृत्पाणिग्रहोपज्ञं कंसश्चक्रे महोत्सवम् । अमानमदिरापानमत्तनृत्यद्वधूजनम् ॥१६२॥
कंसाऽनुजोऽतिमुक्तोऽथ पूर्वोपात्तव्रतः कृती । आगादोकसि कंसस्य पारणाय महातपाः ॥१६३।। 20 वीक्ष्य मत्ता तमायातं प्रीता कंसप्रिया ततः । एहि देवर ! नृत्यावो जल्पन्तीति गलेऽलगत् ॥१६४॥
अथोचे व्यथितः साधुर्यन्निमित्तोऽयमुत्सवः । तस्य सप्तमगर्भेणोच्छेद्यौ त्वत्पितृवल्लभौ ॥१६५॥ श्रुत्वेति मुनितो मुक्तमदा जीवयशा जवात् । गत्वा स्फारस्फुरत्खेदं कंसायेदं न्यवेदयत् ॥१६६॥ याच्यः सौहार्दतः सप्तगर्भान् शौरिरसौ सुहृत् । निश्चित्येदमगात्कंसो वसुदेवं प्रियान्वितः ॥१६७॥
प्रारब्धप्रेमवार्तासु मत्तेनेव मदेन सः । संमेने देवकीगर्भान् सप्त कंसेन याचितः ॥१६८॥ 25 आकर्ण्य शौरिरन्येधुरतिमुक्तकथामथ । चिखिदे वञ्चितो गर्भान् याचता सुहृदा च्छलात् ॥१६९॥
१. समेने - C, BI टि. 1. अन्धकारनाशकं इत्यर्थः । 2. भूतधात्री - पृथ्वी ।