________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-५४]
१७१ इत्यसौ परमार्थेन निजं मत्वा नियन्त्रणम् । देशान्तरविलोकाय निस्ससार पुरान्निशि ॥७०॥ रचयित्वा चितामेष श्मशानभुवि भूरिधीः । निक्षिप्य मृतकं किञ्चिदन्तरज्वालयन्मुदा ॥७१॥ स्तम्भं न्यस्य तटे तस्य पत्रिकायां लिलेख सः । गुरुभिर्दूषितगुणो वसुदेवोऽनलेऽविशत् ॥७२॥ इति कृत्वा व्रजन् दृष्टः कयाऽपि पथि योषया । आरोपितो रथे खिन्न इति ब्राह्मणवेषभृत् ॥७३॥ तद्ग्रामे तद्गृहे स्नातभुक्तो यक्षालयस्थितः । शुश्रावाग्नौ मृतोऽशोचि वसुदेवः स्वकैरिति ॥७४॥ 5 अथात्मज्ञाननिर्भीकः प्रचलन्नग्रतो बली । कयापि किल कामिन्या रथमारोपितो निजम् ॥७५॥ पुरे विजयखेटाख्ये सुग्रीवक्ष्मापतेः सुते । श्यामाविजयसेनाख्ये पर्यणैषीत्कलाजिते ॥७६॥ ततो विजयसेनायामुत्पाद्याऽक्रूरमङ्गजम् । अटन्नटव्यां स प्राप्तो जलावर्ताख्यपल्वले ॥७७॥ द्विपं मत्तमिहायान्तं वशीकुर्वन्नसौ वशी । खगाच्चिमालि-पवनञ्जयाभ्यां सहसा हृतः ॥७८॥ उद्याने कुञ्जरावर्ते नीतस्यास्य मुदा ददौ । खेचरोऽशनिवेगाख्यः श्यामां नाम निजात्मजाम् ॥७९॥ 10 अयं तया प्रवीणात्मा वीणावाद्येन तोषितः । ददौ वरं तयाऽयाचि सदाऽप्यविरहोऽस्तु नौ ॥८०॥ अवियोगस्त्वयाऽयाचि कुतः सुतनु ! कथ्यताम् । इत्युक्ते वसुदेवेन सा बभाषे मृगेक्षणा ॥८१॥ पुरे किन्नरगीताख्ये वैताढ्यगिरिभूषणे । राजा ज्वलनवेगोऽभूदर्चिमालिर्नृपात्मजः ॥८२॥ नाम्ना चाऽशनिवेगोऽस्ति खगस्तदनुजो बली । आस्ते ज्वलनवेगस्य सूनुरङ्गारकः पुनः ॥८३॥ एतस्याऽशनिवेगस्य सुताहमभवम् विभो ! । व्रती ज्वलनवेगोऽभूत् कृत्वा मत्पितरं नृपम् ॥८४॥ 15 तदङ्गारकवीरेण विद्याबलविलोभिना । जित्वा मत्पितरं राज्यमिदमद्भुतमाददे ॥८५॥ अष्टापदेऽन्यदा ख्यातं मत्पितुश्चारणर्षिणा । जलावर्ते गजं जेता राज्यदस्ते भविष्यति ॥८६॥ तदादि तत्र मुक्ताभ्यां खगाभ्यां त्वं जितद्विपः । हृतोऽसि राज्यलोभेन दत्ता तुभ्यमहं पुनः ॥८७॥ स्त्रीयुतं यः खगं हन्ति स विद्याभिर्विमुच्यते । इत्याचारः सदैवास्ति समये व्योमचारिणाम् ॥८८॥ तत्क्रूरोऽङ्गारकस्तुभ्यं मा कार्षीत्प्रिय ! विप्रियम् । अवियोगस्तदेतेन कारणेन मया वृतः ॥८९॥ 20 प्रतिपद्य गिरं सद्यस्तदीयामिति वृष्णिभूः । तत्रावतस्थे सौस्थ्येन समं दयितया तया ॥९०॥ सुप्तः स चाऽन्यदा रात्रौ वीरो वनितया समम् । अङ्गारकेणाऽपहतो वसुदेवः प्रबुद्धवान् ॥११॥ को मे हर्तेति विमृशन् ददृशे निजवल्लभाम् । श्यामामङ्गारकेणैव खड्गाखड्गि वितन्वतीम् ॥१२॥ अङ्गारकेण सा श्यामा खड्गेनाऽऽशु द्विखण्डिता । द्वे श्यामे युध्यमाने च वसुदेवो व्यलोकयत् ॥९३॥ अथ मायामिमां ज्ञात्वा वार्ष्णेयोऽङ्गारकं रुषा । जघान मुष्टिना मूनि केसरीव करीश्वरम् ॥९४॥ 25
१. तदेतस्य - H, B | २. वेगेण - K, D| ३. द्विधाकृता - P। टि. 1. राज्यं ददाति-राज्यदः ।