________________
5
१७२
[कर्णिकासमन्विता उपदेशमाला । गाथा-५४] उद्यानपातरुग्णेन विमुक्तोऽङ्गारकेण सः । च्युतश्चम्पापुरीपार्श्वसरोवरपयोऽन्तरा ॥९५॥ तत् ती|ऽऽशु सरस्तीरे वासुपूज्यालयं गतः । जिनं नत्वा सहैकेन द्विजेन पुरमाविशत् ॥१६॥ यूनो वीणाजुषः प्रेक्ष्य हेतुं पप्रच्छ स द्विजान् । अथो कथयितुं तस्मै प्रारेभे द्विजकुञ्जरः ॥९७॥ इह गन्धर्वसेनाऽस्ति चारुदत्तवणिक्सुता । सा प्राह स पतिः स्यान्मे यो मां जयति वीणया ॥९८॥ वीणाचार्यों यशोग्रीव-सुग्रीवाविह तिष्ठतः । वीणाभ्यासं तदाभ्यासे तन्वन्त्येते तदिच्छया ॥९९॥ मासे मासे परीक्षा स्यान्न तु कोऽपि जयत्यमूम् । वसुदेवो निशम्येति विद्याविकृतरूपकृत् ॥१०॥ विप्रवेषधरो गत्वा सुग्रीवं प्रत्यदोऽवदत् । वीणायां तव शिष्योऽस्मि चारुदत्तसुताकृते ॥१०१॥ युग्मम् ॥ सोपहासमुपाध्यायः स्थापयामास तं ततः । अहासयत् जनान् सोऽपि मूर्खत्वमिव दर्शयन् ॥१०२॥ अथाऽऽजगाम मासान्ते चारुदत्तस्य नन्दिनी । वीणाभ्यासकृतां यूनां परीक्षां कर्तुमात्मना ॥१०३॥ उपाध्यायेन शिष्यैश्च चारुचीरधरस्तदा । वसुदेवः प्रहासाय स्थापितः प्रौढविष्टरे ॥१०४॥ ते युवानोऽथ सर्वेऽपि वीणायां विजितास्तया । वादाय वसुदेवोऽथ तैरूचे परिहासिभिः ॥१०५॥ अथाऽऽधाय निजं रूपं चमत्कारकरं नृणाम् । वीणाः प्रदूष्य यूनां च तस्या वीणां करेऽग्रहीत् ॥१०६॥ गेयो विष्णुकुमारस्य त्रिविक्रमपराक्रमः । गन्धर्वसेनयेत्युक्ते स चक्रे सर्वमप्यदः ॥१०७॥
तस्मै गन्धर्वसेनायाः खेचरीत्वकथामथ । श्रावयित्वाद्भुतामेनां चारुदत्तः स दत्तवान् ॥१०८।। 15 अथ तां परिणीयाऽसौ श्यामाख्यविजयाह्वये । पर्यणैषीत् यशोग्रीव-सुग्रीवतनये अपि ॥१०९॥
रक्त्या चाऽथ विरक्त्या च छलेन च बलेन च । कलाजयेन चानेकदेशोद्देशान् परिभ्रमन् ॥११०॥ भूपानां खेचराणां च द्विजानां वणिजामपि । कन्याः सौन्दर्यसौभाग्यलावण्यादिगुणास्पदम् ॥१११॥ स कदाऽप्युपरोधेन कदापि हठतः पुनः । कदाऽपि कौतुकेनैव परितः परिणीतवान् ॥११२॥ विशेषकम् ।
सुकोशलाभिधां पुत्री कोशलस्य खगेशितुः । कोशलायां पुरि प्राप्तः स कदाचिदुदूढवान् ॥११३॥ 20 स पेढालपुरं गत्वा हरिश्चन्द्रस्य भूभुजः । सुतां कनकवत्याख्यां श्रीददत्तामुदूढवान् ॥११४॥
वसुदेवोऽन्यदा खेलन् खेचरीभिः सहान्वहम् । सूर्पकेणैकदा जह्वेऽमोचि गङ्गाजले ततः ॥११५॥ उत्तीर्य वीर्यवान् गङ्गां पल्ली कामपि जग्मिवान् । असौ परिभ्रमन् साकं पथिकैः पथि कैश्चन ॥११६॥ जराभिधां स्मरस्मेरभल्ली पल्लीशितुः सुताम् । तत्रोपयेमे रेमे च चन्द्रिकामिव चन्द्रमाः ॥११७॥
तस्यां जराकुमाराख्यं समुत्पाद्याऽथ नन्दनम् । विहरन्नन्यतोऽभाषि साक्षाद्देव्या कयाचन ॥११८॥ 25 कन्या रुधिरभूपस्य दत्ता ते रोहिणी मया । व्रज पाणविकीभूय तूर्णं तस्याः स्वयंवरे ॥११९॥
१. तदैके - P, KH । २. चानेन - C, A, K, DI
टि. 1. उद्व्यानपातरुग्णेन-ऊर्ध्वं गतः व्यानः सर्वशरीव्याप्तप्राणवायुविशेष: येन (मुष्टि) पातेन तेन रुग्णः व्याधिग्रस्तः सः तेन । 2. गगनाद् विमुक्तः । 3. पटहवादकरूपं कृत्वा इत्यर्थः ।