________________
१७०
[कर्णिकासमन्विता उपदेशमाला । गाथा-५४] शौरेरन्धकवृष्ण्याद्या बभूवुः किल सूनवः । सुवीरस्य महावीरा भोजवृष्ण्यादयः पुनः ॥४४॥ भूपमन्धकवृष्णि तत् कृत्वा शौरिर्धराधिपः । सुप्रतिष्ठान्मुनेः प्राप्य व्रतं निर्वृतिमासदत् ॥४५॥ सुवीरस्तनुजं राज्ये भोजवृष्णि विधाय च । विदधे सिन्धुषु स्वस्मै सौवीरं नाम पत्तनम् ॥४६॥ मथुराम्भोजसूर्यस्य भोजवृष्णेमहीभुजः । जाग्रदुग्रगुणग्राम उग्रसेनः सुतोऽभवत् ॥४७॥ सुभद्रायां तनुभुवोऽन्धकवृष्णेर्दशाऽभवत् । समुद्रविजयोऽक्षोभ्यस्तिमितः सागरस्तथा ॥४८॥ हिमवानचलो नाम धरणोऽपि च पूरणः । अभिचन्द्रो वसुदेवो दशाऽख्यिा दशाप्यमी ॥३९॥ युग्मम् ॥ महाशुक्रात् च्युतो नन्दिषणजीवो निदानतः । सुरूपः सुभगः कान्तो नारीजनमन:प्रियः ॥५०॥ कलासु कुशलो विद्यानिधि(दग्ध्यमन्दिरम् । वसुदेवः स एवाभूत्प्राग्भवीयतपोबलात् ॥५१॥ युग्मम् ॥
समुद्रविजयं न्यस्य स्वपदेऽन्धकवृष्णिना । सुप्रतिष्ठान्मुनेरेव प्रव्रज्य प्रापि निर्वृतिः ॥५२॥ 10 सारथिर्वसुदेवस्य कंसः सिंहस्थं रणे । तस्याऽऽज्ञयाऽऽप्यद्वद्ध्वा जरासन्धाय कर्हिचित् ॥५३॥
तज्जीवयशसं पुत्रीं तस्माल्लेभे प्रसादतः । मथुरायाश्च साम्राज्यमुग्रसेनाज्जहार सः ॥५४॥ जरासन्धात्मजां पत्नी मथुरायाश्च तां श्रियम् । वसुदेवस्य सेवायाः फलं सोऽमन्यत द्वयम् ॥५५॥ सहेलं पुरि खेलन्तं वसुदेवं सदान्वयुः । सौभाग्यशोभया चित्तचौरं पौराङ्गनाजनाः ॥५६।। सुभगं तं वृषस्यन्त्यः श्रान्त्यादि व्यपदेशतः । तद्ध्यानात्किमपि श्लिष्ट्वा रतिं भेजुरतीव ताः ॥५७॥ याचनाऽऽदानदानादौ कार्येऽर्थान् योषितोऽखिलान् । अभ्यधुर्वसुदेवेति नामतः कामतत्पराः ॥५८॥ तन्नेपथ्य-तदुद्वाह-तदालपनविभ्रमैः । तत्र प्रावर्त्तत स्त्रीणां मिथः क्रीडारसो नवः ॥५९॥ वसुदेवतया ध्यातपतयो बत योषितः । निमील्याक्षि कृते ध्वान्ते रमन्ते स्म रतेषु ताः ॥६०॥ भूतीभूताश्च ताः क्षिप्तचित्ताः परवशा इव । न स्मरन्ति स्म संमुह्य गृह्यतन्त्रं कृताकृतम् ॥६१॥ सब्रह्मचारिचेष्टानां वसुदेवाभिलाषतः । श्वश्रू-ननान्ह-जातॄणां न भेजुर्भीरवो भयम् ॥६२॥ के चात्र दोषा योषाणां वृषस्यन्तस्तमेव यत् । नरोऽनभीष्टपुंभावाः स्त्रीभावाय धियं दधुः ॥६३॥ वसुदेवाङ्गसौभाग्याऽऽकृष्टस्त्रीविप्लवाकुलैः । नृपः कदाऽपि विज्ञप्तो नागरैर्नयसागरैः ॥६४॥ समुद्रविजयेनाऽथ तादृग्विप्लवभीरुणा । वसुदेवोऽन्यदाऽभाषि स्वोत्सङ्गारोपपूर्वकम् ॥६५॥ अहर्निशं बहिर्धान्त्या दुर्बलोऽसि ततस्त्वया । स्थेयं सदा मदावासे कलाभ्यासं वितन्वता ॥६६॥
गुरोगिरं शिरस्येष शेषामेव निधाय ताम् । सौध एव स्थितश्चक्रे कलाभ्यासमंहन्निशम् ॥६७॥ 25 स कदापि शिवादेव्या प्रेषितं भूपति प्रति । चन्दनोद्वर्त्तनं चेटीहस्ताज्जग्राह नर्मणा ॥६८॥ उक्तश्चेटिकया सोऽपि वसुदेवः सहासया । राज्ञा स्त्रीनर्मदोषेण त्वमनेन नियन्त्रितः ॥६९॥
१. श्लेष्टा - P श्लिष्टा - KH, B, L । २. चेष्टाभ्यो - B| ३. मातृभ्यो - B| ४. योषादोषाणां - P। ५. नासियंत्रितः - A, B, C, L, K । टि. 1. वृषस्यन्ती (स्त्री) - अत्यन्तकामिस्त्रीः । 2. तद्ध्यानद्वारा श्लिष्ट्वा रति भेजुः इत्यर्थः । 3. वसुदेवं देहि, वसुदेवं गृहाण इत्येवं योषितः अभ्यधुः इत्यर्थः । 4. जातृ(स्त्री.) भ्रातृजाया । 5. नृ शब्दस्य बहुवचनम् ।
२०