________________
१६९
[कर्णिकासमन्विता उपदेशमाला । गाथा-५४] स गृहीतव्रतः साधुः क्रमाद् गीतार्थतां गतः । अभिजग्राह साधूनां वैयावृत्यविधि सुधीः ॥१८॥ अनिर्वेदेन तं साधुवैयावृत्यविधायिनम् । संसदि त्रिदशोत्तंसः शशंस प्रशशंस च ॥१९॥ अश्रद्दधानस्तत्सत्यगौरं पौरन्दरं वचः । सुरो रत्नपुरोपान्ते कश्चन ग्लानसाध्वभूत् ॥२०॥ द्वितीयसाधुरूपेण स गत्वा तदुपाश्रयम् । षष्ठान्ते पारणायात्तकवलं तमदोऽवदत् ॥२१॥ वैयावृत्त्यं प्रतिश्रुत्य किं भोक्तुं त्वमुपाविशः । मुनिरस्ति बहिस्तृष्णाक्षुधाद्यार्तोऽतिसारकी ॥२२॥ नन्दिषेणोऽथ मुक्त्वान्नं पानमन्वेष्टुमुद्यतः । अनेषणीयं तत्कर्तुं शक्त्याऽऽरेभे सुरः स्वया ॥२३॥ मुनिर्लब्धिप्रभावेण सुरशक्ति विजित्य ताम् । शुद्धं प्राप क्वचित्पानं क्व न कल्पतरुस्तपः ॥२४॥ तं मायामुनिमायातो नन्दिषेणमुनिस्ततः । तेन रूक्षाक्षरं साक्षात् चुक्रुशे च कृतक्रुधा ॥२५॥ अहं ग्लानि वहन्नस्मि त्वं चाहारमहारसः । नाऽऽगतो द्रागतो धिक्त्वां वैयावृत्त्यविनिश्चितम् ॥२६॥ आगो मम क्षमस्वेदं नन्दिषेण इति ब्रुवन् । अपाययदयं प्रासु तं पयः कम्पयन् भवम् ॥२७॥ तमुत्तिष्ठेत्यथाचष्ट सोमिलानन्दनो मुनिः । सोऽप्यूचे मुण्ड ! धिक् किं मां न त्वमक्षममीक्षसे ॥२८॥ स्कन्धे तमधिरोप्याऽथ प्रचलन् वसतिं प्रति । पदे पदे नन्दिषेणस्तेनेत्थं चुक्रुशेतराम् ॥२९॥ कुतोऽभिजगृहे वैयावृत्यं कर्तुं न वेत्सि चेत् । मम प्राणा व्रजन्तीव वेगेन व्रजति त्वयि ॥३०॥ पदन्यासैस्ततो मन्दैनन्दिषेणस्य गच्छतः । वर्थोऽङ्गे व्युत्सृजन् तस्य स मायामुनिरब्रवीत् ॥३१॥ तवातिमन्दगमनैरमन्दस्तपनाऽऽतपः । मम लोचमृदौ मूनि तनोत्येष पृथुळथाम् ॥३२॥ इत्यादिवादिनस्तस्य वचांस्यगणयन्नयम् । नन्दिषेणस्तदाऽऽरोग्योपायं ध्यायन् शनैर्ययौ ॥३३॥ ज्ञात्वा सुरस्तमक्षोभ्यं नन्दिषेणस्य मूर्द्धनि । वर्थोऽपहृत्य विदधे पुष्पवृष्टिपरम्पराम् ॥३४॥ प्रदक्षिणात्रयं दत्त्वा प्रणिपत्य च तं मुनिम् । तस्मै शशंस स कृतं मघोना श्लाघनं घनम् ॥३५॥ क्षमयित्वाखिलं स्वं च कुचेष्टितसमुच्चयम् । किं तुभ्यं करवाणीति प्रीतिभागभ्यधात्सुरः ॥३६।। ऊचे मुनिर्मयाऽलम्भि जैनो धर्मः सुदुर्लभः । अतस्त्वत्तो वरं किञ्चिन्न याचेऽहं कथञ्चन ॥३७॥ इत्युक्तः स दिवं देवो यातः स्वां वसति यतिः । पृष्टः सर्वमनुत्सिक्तः साधुषु व्यक्तमभ्यधात् ॥३८॥ स द्वादशसहस्राब्दी तप्त्वा तीव्रतरं तपः । रचितानशनश्चान्ते स्वान्ते दौर्भाग्यमस्मरत् ॥३९॥ भूयासं भूयसाऽनेन तपसा स्त्रीषु वल्लभः । इदं निदानं चक्रे च महाशुक्रे च सोऽगमत् ॥४०॥ इतश्च मथुरापुर्यां हरिवंशे प्रथीयसि । बृहद्बलाङ्गजो राजा जज्ञे यदुरिति श्रुतः ॥४१॥ शूरो जातस्ततः शौरिसुवीरौ तस्य चात्मजौ । शूरः शौरिं नृपं कृत्वा व्रते प्रववृते कृती ॥४२॥ सुवीरं स्वपदे न्यस्य शौरिः सोदरवत्सलः । स्वयं कुशार्तदेशेषु चक्रे शौरिपुरं पुरम् ॥४३॥
१. चक्रुशे - C, KH | २. प्रासुकं - B। ३. भुवं - B, H| ४. निजगृहे - KH | ५. चमतो - B| चाम्यदो - P। ६. पुरस्त - P। टि. 1. आहारे महान् रसो यस्य स आहारमहारसः । 2. इन्द्रेण ।
15
20
25