________________
5
10
15
20
25
[ कणिकासमन्विता उपदेशमाला । गाथा- ४८ ] अद्योत्सुकस्तु प्राप्तस्त्वां गृहाणेमाः सुधारसाः । इक्षुयष्टीर्नव मया सार्द्धास्तुभ्यमुपाहृताः ॥४२०॥ अभिवाद्याभ्यधादार्यरक्षितस्तनुचिन्तया । याम्यहं त्वमिमा मातुः ख्यात्वेदं सर्वमर्ष्ययेः ॥४२१॥ अथ विप्रस्तथा चक्रे रुद्रसोमाऽप्यचिन्तयत् । नवपूर्वाणि सार्द्धानि लप्स्यते खलु मत्सुतः ॥४२२॥ अगारद्वारजातेदृग्शकुनोऽथार्यरक्षितः । विद्याभागानहं सार्द्धान्नव लब्धेति धीरगात् ॥४२३॥
द्वारि गत्वेवाटस्य विशामि वसतिं कथम् ? । गुरून् वन्दे कथं चेति विधि जिज्ञासुरास्त सः ॥४२४|| मन्द्रो मालवकैशिक्याद्युज्ज्वलग्रामरागभाक् । स्वाध्यायोऽप्यथ साधूनां धिनोति स्मार्यरक्षितम् ॥४२५॥ धार्मिको ढड्डरो नामाऽऽजगामाऽहर्मुखे तदा । विवेश वसतिद्वारं सैष नैषेधिकीं वदन् ॥४२६॥ उच्चगीः प्रतिचक्राम स ईर्यापथिकीमथ । वन्दित्वा विधिवत्साधून् प्रतिलिख्याऽऽसने स्थितः ॥४२७॥ यथादृष्टमथाऽशेषं सुधीः कृत्वाऽऽर्यरक्षितः । निविष्टो विष्टरे हृष्टमनाः सद्गुरुदर्शनात् ॥४२८॥ कोऽप्यसौ नूतनः श्राद्धो यन्नाऽवन्दत ढड्डरम् । ध्यात्वेत्यपृच्छत्तं सूरिः कुतो धर्मागमस्तव ॥४२९॥ कृती विनयमाधुर्यकृतां धुर्यः कृताञ्जलिः । यथावृत्तमथाचख्यौ सूरिभ्यः सोमदेवभूः ॥४३०|| भद्रभावं च तं मत्वा गौरवाद् गुरवो जगुः । दृष्टिवादः परिव्रज्यां विनाऽध्येतुं न बुध्यते ॥४३१॥ अभ्यधात् सोमभूरस्मत्कामकामगवी ध्रुवम् । मूर्खोपरि परिव्रज्या स्वामिन् सा मम दीयताम् ॥४३२॥ किन्तु द्रुतमतः स्थानात्क्रियतां विहतिक्रमः । यततामिह दीक्षायास्त्याजने मा जनेश्वरः || ४३३॥ इत्युक्ते तं पुरस्कृत्य विहारं विदधे गुरुः । दर्शने शिष्यचौर्यस्य व्यवहारस्तदाद्यभूत् ॥४३४॥ स प्रव्रज्य तपस्तीव्रं तन्वानोऽध्ययनैकधीः । एकादशाङ्गीमुत्सङ्गीचकार मनसो मुनिः ॥ ४३५ || आसीत्तस्य गुरोर्यावान् दृष्टिवादोऽपि विस्फुटम् । तावान् भावानुषक्तेनाग्रहेण जगृहेऽमुना ॥४३६॥ भूयानप्यस्ति वज्रर्षेर्दृष्टिवादः स्फुटं स्फुट: । मत्वेत्यचालीत् तत्पूतां पुरीं प्रति महापुरीम् ||४३७|| उज्जयिन्यां ययौ भद्रगुप्ताचार्यस्य संश्रयम् । तेनोपलक्षितश्चार्यरक्षितः पर्यरभ्यत ॥४३८॥ ऊचे च वत्स ! धन्योऽसि कृतकृत्योऽसि कृत्यसि । येन ब्राह्मण्यमुन्मुच्य श्रामण्यमिदमादृतम् ॥४३९॥ क्षीणशेषायुरद्याहमाऽऽदास्येऽनशनं पुनः । मम निर्मम ! निर्माहि निर्यामित्वमिह स्थितः ॥४४०॥ इत्यादेशस्थिरावेशमिमं शमवतां वरम् । श्रीभद्रगुप्तसूरीन्दुर्विहितानशनोऽन्वशात् ॥४४१॥ वज्राचार्यादधीयेथा भिन्नाश्रयकृतस्थितिः । वसेन्निशां यस्तत्पार्श्वेऽवश्यं सोऽनुम्रियेत तम् ॥४४२॥ तथेति प्रतिपद्याऽथ कृत्वा निर्यामणां गुरोः । पुरीं महापुरीमाप वज्रपादाब्जमण्डनाम् ॥४४३॥ तत्राविशद्विभावर्यां नैगर्यां नाऽऽर्यरक्षितः । स्वप्नं निशात्ययेऽपश्यदिमं च दशपूर्वभृत् ॥४४४॥ यदस्माकं पयःपूर्णात् कोऽप्यागन्तुः पतद्ग्रहात् । पपौ भूरितरं क्षीरमवशिष्टं किमप्यभूत् ॥४४५॥
१६४
१. नगर्यामार्यरक्षित: - H |
टि. 1. धिनोति स्म प्रीणयति स्म । 2. कृती असि । 3. स्थिरावेशः स्थिराग्रहः, इत्यादेशे स्थिरः आवेशः यस्य ।