________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-४८]
१५९ एत्याथ यानयायिन्यो महीनाथनतभ्रवः । धृतानन्दाः सुनन्दायाः नन्दनं ता ववन्दिरे ॥३००॥ द्वितीयेऽह्नि ह्रियं मुक्त्वा रुक्मिणी जनकं जगौ । वज्रस्वामी समेतोऽस्ति यत्र मे वरणस्पृहा ॥३०१॥ नानास्थानरतिर्यावदयं व्रजति नान्यतः । एतस्मै दत्त तावन्मां शरणं मृत्युरन्यथा ॥३०२॥ इत्याकर्ण्य कृती कन्यां दिव्याभरणभासुरीम् । श्रीवज्रस्वामिने निन्ये धनः सार्धं धनव्रजैः ॥३०३॥ श्रीवज्रो भगवान् पौरगौराङ्गीक्षोभशङ्कया । सङ्क्षिप्तरूपः स पुरा पुरोद्देशं विवेश तम् ॥३०४॥
5 वज्रस्वामिगुणग्रामप्रीताश्चैवं जगुर्जनाः । गुणानुरूपं रूपं हा नाऽस्य विश्वगुरोरभूत् ॥३०५॥ तदा च वाचः पौराणां ता मत्वा चित्तदुःखजाः । प्रभुः स्वाभाविक रूपमभजद् भूरिलब्धिकः ॥३०६॥ स्वामी चामीकरमयं विचकार च वारिजम् । तदध्यास्य व्यधाद्धर्मदेशनां क्लेशनाशनीम् ॥३०७॥ तन्निरूप्य गुरोः रूपं मूर्धानं दुधुवुर्जनाः । सितच्छदच्छदस्पृष्टकर्णान्तविवरा इव ॥३०८॥ सङ्क्षिप्तं खलु पू:क्षोभशङ्कया स्वामिना च यत् । अद्याऽस्मत्कृपया रूपं पुनराविरभावि तत् ॥३०९॥ 10 इत्यन्तश्चिन्तयन्तस्ते दधिरे मुदमद्भुताम् । गुणानुरूपश्रीवज्रस्वामिरूपनिरूपणात् ॥३१०॥ धनस्तु दध्यौ धन्या मे कन्या सेयं स्वयं यया । अयं वरयिता चित्तेऽनुध्यातोऽनन्यचित्तया ॥३११॥ धनस्य तु मनः कन्यादानवक्तव्यचिन्तकम् । न वज्रदेशनाऽऽकर्षन्महर्षेरिव वामदृक् ॥३१२॥ धनोऽथ प्राञ्जलिर्वजं देशनान्ते व्यजिज्ञपत् । इमां मम सुतां स्वामिन्नासक्तहृदमुद्वह ॥३१३॥ वज्रस्वामी मम पतिर्मृतिर्वा शरणं मम । इत्यस्यां सप्रतिज्ञायां कृपां कुरु कृपामय ! ॥३१४॥ 15 अमूर्दास्यामि च स्वामिन् ! पाणिमोचनपर्वणि । अमिताः साधुकोटीर ! स्वर्णकोटीरहं तव ॥३१५॥ तमज्ञानमथ ज्ञात्वा वज्रप्रभुरभाषत । भोगाः पुण्यश्रियां रोगास्तद्योगानीहतेऽत्र कः ॥३१६॥ स्त्रियः श्रियश्च निश्चित्य तन्निदानमनादितः । तद्दानमुचितं भाति किं महाभाग ! मां प्रति ॥३१७॥ किमियं मयि मांसासृगस्थिकूटेऽनुरागिणी । दिशाम्यस्याः पति तं यो देवीनामपि दुर्लभः ॥३१८॥ यस्य प्रेष्या गुणाः सर्वे रूपश्री: यस्य किङ्करी । यस्य दास्यः श्रियः सर्वा यस्य किञ्चिन्न दूषणम् ॥३१९॥ 20 यत्प्रसादकणाद् भान्ति सुरासुरनरेश्वराः । कोशो यस्यातिभक्तैकप्रदेयः पदमव्ययम् ॥३२०॥ कृतिन् ! स तव कन्यायाः संयमोऽस्तु मनःप्रियः । यदि त्वमनुजानासि तत्करोमीहमेलनम् ॥३२१॥ इति श्रीवज्रसूरीणां सुधाभुक्तिभिरुक्तिभिः । शान्तमोहज्वरा पथ्यं व्रतमादत्त रुक्मिणी ॥३२२॥ कलापकम् ॥ तदा तदुक्तिभङ्गीभिरुत्सङ्गीकृतबोधयः । बभूवुर्बहवोऽप्याशु भवाभिभवने भटाः ॥३२३॥ महापरिज्ञाध्ययनाद्वज्रः सङ्घाऽर्थमन्यदा । पदानुसारिलब्ध्यैवोद्दधे विद्यां खगामिनीम् ॥३२४॥
25
१. नाद्य - C । २. शना: P। ३. शनी: P। ४. चित्तकं - C। ५. भक्त्यैक - A६. मेहनं - KH | ७. सुक्ति - A, भक्ति - P।
टि. 1. नतभ्रूः-स्त्री महीनाथस्य राज्य: इत्यर्थः । 2. सितच्छदः हंसः तस्य छदः पक्षः, रूपस्योज्ज्वलत्वादियमुपमा, तेन स्पृष्टः कर्णान्तविवरः येषां ते। मूर्ध्नः धूनने कारणत्वादस्य कथनम्। 3. तेषां निदानं = भोगानां निदानं मूलकारणं स्त्रियः श्रियश्च अनादितः इत्यर्थः ।