________________
१५८
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ४८] तस्य श्रेष्ठिप्रधानस्य यानशालास्पदे तदा । अवसन् विशदाः साध्व्यः श्रीवज्रस्वामिनो मुनेः ॥२७५॥ ताः शील- श्रुत-सौभाग्य- लावण्यादिगुणस्तवम् । नित्यं वितेनुर्वज्रस्य श्रेयसे हि गुरुस्तुतिः ॥२७६॥ श्रावं श्रावं गुणश्रेणि तन्मुखात्तादृशं भृशम् । श्रीवजे वीतरागेऽपि रुक्मिणी रागभागभूत् ॥२७७॥ इदं च निश्चयादूचे निशाया इव चन्द्रमाः । कुरूपाया अपि स्वामी सुरूपो वज्र एव मे ॥२७८॥ साध्व्यस्तामवदन् मुग्धे ! मेदं वादी: सुवादिनि ! । निष्फलोऽस्मद्गुरोरग्रे ग्रहोऽयमपरिग्रहे ! ||२७९॥ सा बभाषे न भाषेयं सत्या मे यदि भाविनी । शरणीकरणीयस्तत्तत्प्रियो मम संयमः ॥ २८०॥ इति निश्चितचित्तेयं कूणयन्ती विकुणिकाम् । वरणोक्तं वरं कं कं निचकार न कन्यका ॥२८१॥ इतश्च पाटलीपुत्रे सुनन्दासूनुसूरिणा । विहारक्रमयोगेन समाजग्मे शमाब्धिना ॥२८२॥
आयाति भगवान् वज्रस्वामीति प्रीतिपूरितः । जगाम सन्मुखं तस्य महीभर्त्ता महर्द्धिभाक् ॥ २८३॥ सर्वेऽप्यथ महाशीला महारूपा महारुचः । शमवन्तः समायान्तो रूपेणैक्ष्यन्त सूरिवत् ॥ २८४॥ क एतेषु गुरुर्यस्मै करोमि प्रथमं नमः । इति संशयदोलायां न्यधाच्चेतश्चिरं नृपः ॥२८५॥ साधून्नृपः स पप्रच्छ ततस्तुल्योरुतेजसः । को भवत्सु विभुर्वज्रः स्राग् वन्दे पूर्वमेव तम् ॥ २८६॥ साधवः क्ष्माधवमथ प्रथमानगिरो जगुः । श्रीवज्रस्य भ्रमोऽस्मासु सरः स्विव सरस्वतः ॥२८७॥ सर्वेषामपि साधूनां धुरि श्लाघ्यगुणोदयः । यो भात्युडुषु राजेव राजन् ! वज्रमवैहि तम् ॥२८८॥ 15 निरीक्ष्याथ महीनाथः श्रीवज्रस्वामिनं मुनिम् । दुल्लकाऽऽ लोकदुःखेभ्यो ददौ हर्षाश्रुभिर्जलम् ॥२८९॥ भालं व्यभूषयद्भूपो भवतापभिदे ततः । सुनन्दानन्दनपदद्वन्द्ववन्दनचन्दनैः ॥ २९०॥ श्रीवज्रमुनिराजोऽपि मुनिराजिविराजितः । उरीचक्रे पुरीपार्श्वे वनच्छायमुपाश्रयम् ॥२९१॥ देशनां दशनाऽभीशुदम्भडिण्डीरमण्डिताम् । मुनीन्दुर्विदधे धर्मोदधेरूर्मिमिवाथ सः ॥ २९२ ॥ तदा तद्देशनावारिनिवारितमलोज्ज्वलाः । आत्तपुण्यस्रजः सौधं जना निजं निजं ययुः ॥२९३॥ अन्तःपुरपुरन्ध्रीणां पुरः पुरपतिस्ततः । प्रीतिस्फीतमनाः प्रोचे चञ्चद्रोमाञ्चकञ्चकः ॥२९४॥ इन्दुमुख्यः ! सतां मुख्यः श्रीवज्रो वज्रमंहसाम् । मयोल्बणगुणग्रामरम्यः सम्यगनम्यत ॥२९५॥ तत्पादस्पर्श-तद्रूप-तद्वाक्- तच्छाससौरभैः । तद्गुणग्रहपीयूषैः को न तृप्तेन्द्रियो भवेत् ॥ २९६ ॥ तद्यूयमपि सम्भूय याथ चेन्नाथमीक्षितुम् । कृतकृत्यस्ततो युष्मदात्माप्युज्झेद् भवभ्रमान् ॥२९७॥ इति भर्तुर्गिरं भावशुद्धां शुद्धान्तयोषितः । परिपीय श्रुतिपुटैर्जगुः प्रगुणसम्मदाः ॥२९८॥
स्वामिन् ! मनोरथः सैष चिराच्चक्रे मनोरथः । स्वभाव - भवदादेशवाह्याभ्यां चरतु द्रुतम् ॥२९९॥
5
10
20
25
१. पुत्रं - P। २. वनछायामु-C, K, KH, D, A, B, H, L । ३. मुख्या: - C । ४. मनोरथं - C । ५. वाहाभ्यां - C, A । टि. 1. अपरिग्रहा - कन्या, तत्संबोधने । 2. विकूणिका - नासा, ताम् । 3. पराभवमकरोत् । 4. समुद्रस्य । 5. राजा - चन्द्रः । 6. अभीशुः - अंशुः । 7. मन एव रथः, मनोरथ: ।