________________
१५७
[कर्णिकासमन्विता उपदेशमाला । गाथा-४८ ] इति द्रुतोल्लसत्पाणिसम्पुटात्तामिवोत्सुकः । कुर्वन् शिरसि गुर्वाज्ञां वज्रः पुलकितोऽचलत् ॥२५०॥ युतो गुरुनियुक्ताभ्यामृषिभ्यां स बभौ पथि । सञ्चलन् गगने शुक्रबुधाभ्यामिव भानुमान् ॥२५१॥ दिदृक्षुर्भद्रगुप्तास्यं दशपूर्वीसुधाविधुम् । उज्जयिन्यामयं यातो रजन्यामवसहिः ॥२५२॥ भद्रगुप्तो गुरुः सुप्तोत्थितः शिष्यान् प्रगे जगौ । अद्य प्रातःक्षणेऽस्माभिरलाभि स्वप्न ईदृशः ॥२५३॥ जानीमः कश्चिदागन्तुर्दुग्धपूर्णपतद्ग्रहम् । गृहीत्वाऽस्मत्करात्पीत्वा तृप्तश्च मुमुदेतराम् ॥२५४॥ तच्छमेधावतां मेधावतां धुर्यः समेष्यति । स कोऽप्यद्यातिथिर्यो मे दशपूर्वी ग्रहीष्यति ॥२५५॥ अद्य मे सफल: सैष दशपूर्वीपरिग्रहः । यद्भविष्यति तद्दानयोग्यपात्रसमागमः ॥२५६॥ दिष्ट्या न यास्यति मयि व्युच्छित्तिं दशपूर्व्यसौ । दिष्ट्याद्याप्युद्भवत्पात्रभाजनं जिनशासनम् ॥२५७।। इदं वदति सूरीन्दौ हर्षोत्कर्षवशंवदे । नैषेधिकीं वदन् वज्रो विवेश वसतेर्मुखम् ।।२५८॥ आकृति प्रकृति चाऽस्य पश्यन् दध्यौ मुदा गुरुः । अयं स विद्यादानाख्यमदिच्छाकल्पपादपः ॥२५९॥ 10 अथोत्सुकतमो वज्रः प्रणमन् पादयोः पुरः । आलिङ्गनोत्सुकहदा कराभ्यां गुरुणाऽऽददे ॥२६०॥ प्रसिद्धिसदृशाऽऽकृत्या वजं निश्चित्य तं गुरुः । आलिङ्गयोवाच तद्वक्त्रचन्द्रे चक्षुश्चकोरयन् ॥२६१॥ कच्चित्सुखविहारस्ते कच्चित्ते गमनाऽऽमयम् । कच्चित्तपस्ते निर्विघ्नं कच्चित्ते कुशली गुरुः ॥२६२॥ विरहय्य गुरोः पादपद्मसेवासुखान्यपि । किञ्च वज्रयते ! किं तेऽवन्तीवीहारकारणम् ॥२६३॥ व्यक्तभक्तिभराभोगभङ्गीभुग्नशिरा गुरून् । वन्दित्वाऽथ जगौ वज्रो गौरगौरवया गिरा ॥२६४॥ आदौ सुखविहारादि यत्पूज्यैः समपृच्छ्यत । तदस्त्येव देवगुरुप्रसादादखिलं खलु ॥२६५॥ गुरोराज्ञागिराऽध्येतुं दशपूर्वीमिहाऽऽगमम् । तदेकवेदी तज्ज्ञानप्रदानेन प्रसीद मे ॥२६६॥ तथेत्यथ प्रतिज्ञाय तस्मै सस्मेरगीर्गुरुः । आदिशद्दशपूर्वाणि देशपूर्वादिदिग्श्रुतः ॥२६७॥ दशपूर्वीमथाधीतपूर्वी दशपुरं प्रति । भद्रगुप्ताज्ञया वज्रोऽगच्छद् गच्छगुरूत्सुकः ॥२६८॥ अथागतस्य वज्रस्य प्रीतः सिंहगिरिर्गुरुः । अधीतदशपूर्वस्य पूर्वानुज्ञां विनिर्ममे ॥२६९॥ तैर्वज्रस्य पुराजन्मसुहृद्भिर्जुम्भकामरैः । पूर्वानुज्ञोत्सवे सृष्टा दिव्यप्रसववृष्टयः ॥२७०॥ योग्य इत्यथ वज्रस्याऽयच्छद् गच्छभरं गुरुः । स्वयं च स्वर्गमारोहद् गृहीतानशनक्रमः ॥२७१॥ श्रीवज्रमुनिराजस्तु यतिपञ्चशतीवृतः । विजहार सहाऽरण्यगिरिग्रामपुरा धेराम् ॥२७२॥ यत्र यत्र ययौ वज्रस्तत्र तत्र जनोऽजनि । तच्छील-श्रुत-सौभाग्य-लावण्याऽद्वैतरञ्जितः ॥२७३॥ इतश्च पाटलीपुत्रे धनाढ्योऽभूद् धनो वणिक् । तत्कन्यारुक्मिणीत्यासीद्रूपस्येव परं पदम् ॥२७४॥ 25
15
20
१. याति - P जातो - L, KH | २. पुरां - PI
टि. 1. तस्मात् शम् (अव्य०) सुखं तदेव एधा समृद्धिः सा अस्यास्ति शमेधावान् - तेषां धुर्यः अग्रेसरः । 2. कच्चित् (अव्य०)प्रश्नार्थे । 3. वज्रमुने!। 4. गौरा विशुद्धा च गौरववती च गौरगौरवा, तया। 5. पूर्वादिदशदिग, तासु श्रुतः प्रसिद्धाः। 6. प्रसवः पुष्पम् ।