________________
5
10 इदमुक्त्वा च कृत्वा च तप्यमानस्तपांसि सः । पीतवान् पीतसंसारं श्रुतसारं गुरोर्मुखात् ॥८५॥ शुभे दिने सुनन्दा तु नन्दनं चित्तनन्दनम् । वज्रं वज्राकरोर्वीव द्युतिपूतमसूत सा ॥ ८६ ॥ आनन्दिन्यः सुनन्दायाः प्रीतिपात्राणि योषितः । प्रतिजागरणाऽऽयातास्तमित्थं बालमालपन् ॥८७॥ अयि ! तात ! न ते तातः प्राव्रजिष्यत् पुरा यदि । अभविष्यत्तदुद्दामो जातकर्मोत्सवस्तव ॥८८॥ विना पुमांसं न स्त्रीभिः स्याद्विश्वानन्दकृन्महः । असति द्युमणौ देवे दीपिकाभिरिवाभितः ॥८९॥ 15 संज्ञावान् स पुनर्ज्ञानावरणस्यातिलाघवात् । दत्तावधानस्तद्वाचि बालोऽप्यालीढसम्भ्रमः ॥ ९०॥ ऊहापोहपरो जातिस्मृतिस्मृतपुराभवः । क्षीरकण्ठोऽप्यसावैच्छत् अध्वन्यध्वन्यतां पितुः ॥९१॥ माता जातातिवैलक्ष्या मङ्क्षु त्यक्ष्यति मां कथम् । ध्यात्वेत्यसौ रुरोदैव दैवदून इवानिशम् ॥९२॥ न सुधामधुरैर्गानैर्न वचोभिश्चटूचितैः । न चूलाचुम्बनैश्चलदोलान्दोलनकैर्न च ॥९३॥ नाऽङ्कखेलैर्न चन्द्रादिचित्ररूपनिरूपणैः । असावपूर्णहृत्कामो विरराम प्ररोदनात् ॥९४॥ इत्यर्द्धवत्सरस्तस्य वत्सस्य रुदतोऽगमत् । तेनाऽमन्दं सुनन्दापि चिरान्निर्वेदमासदत् ॥९५॥ आचार्यो धैनगिर्यार्यशमितादिशमिश्रितः । श्रीसिंहगिरिरागच्छदन्यदा तन्निवेशनम् ॥९६॥
20
१५०
[ कर्णिकासमन्विता उपदेशमाला । गाथा- ४८ ] पितरौ तद्विवाहाय यां यां कन्यामयाचताम् । तस्यास्तस्याः स जनकौ परिव्रजनकौतुकी ॥७६॥ अवदत् सदनं गत्वा तत्राविष्टमनोरथः । दीक्षामहं ग्रहीष्यामि त्यजतो दूषणं न मे ॥७७॥ युग्मम् || धनपालाभिधेभ्यस्य सुनन्दा नन्दिनी जगौ । विना धनगिरिं मान्यो ममाऽन्यो न करग्रहे ॥७८॥ ततो धनगिरेस्तस्य धनपालः स्वयंवराम् । दीक्षां जिघृक्षतोऽप्येनां ददौ कन्यामनन्यगाम् ॥७९॥ अन्यदा तामृतुस्नातामजिह्मब्रह्मधीरपि । भेजे धनगिरिर्भोगफलकर्मनियोगतः ॥८०॥ गौतमस्वामिना ख्यातमष्टापदगिरौ पुरा । राजर्षेः पुण्डरीकस्याऽध्ययनं येन भावितम् ॥८१॥ श्रीदस्य भानुश्री दस्युधामा सामानिकः सुरः । दिवश्च्युत्वा सुनन्दायास्तदा कुक्षिमवातरत् ॥८२॥ युग्मम् ॥ धीमान् धनगिरिर्मत्वाऽऽपन्नसत्त्वामिमां जगौ । भद्रे ! गर्भद्वितीयायै भद्रं भवतु तेऽधुना ॥८३॥ तव प्रव्रजितो यत्र भ्राताऽऽर्यशमिताभिधः । तत्राहं प्रव्रजिष्यामि पुरः सिंहगिरेर्गुरोः ॥८४॥
25
त्वा तत्राऽऽर्यशमितान्वितो धनगिरिर्गुरुम् । आपप्रच्छ निजं ज्ञातिवृन्दं वन्दयितुं तदा ॥९७॥ विचार्य शकुनं किञ्चित् पृच्छतोरेतदेतयोः । ससम्भ्रमचमत्कारमुज्जगार गुरुर्गिरम् ॥९८॥ भविता भवतोर्लाभो महानिह महामुनी ! । नैवाऽचित्तं सचित्तं वा निषेध्यं भैक्ष्यमद्य तत् ॥९९॥ मन्दिरेऽथ सुनन्दायास्तौ यातौ यतिपुङ्गवौ । तत्परीवारनारीभिर्दृष्टौ च द्वारि चारिणौ ॥१००॥ सस्मितं ताभिराभाषि सुनन्दे ! सूनुरर्प्यताम् । धनगिर्याख्यमुनये क्व नयत्येष वीक्ष्यते ॥१०१॥
टि. 1. द्युमणिः - सूर्यः । 2. दैवेन भाग्येन दूनः दुःखितः । 3. धनगिरिआर्यशमितादिशमिनः (साधवः) तैः श्रितः इत्यर्थः ।