________________
१४६
[कर्णिकासमन्विता उपदेशमाला । गाथा-४८] वित् वेत्ता स तथा । तथा स्वामी स्वपोष्यजनापेक्षया प्रभुः । दासः क्रीताङ्कितपोषितादिः पराधीनो व्यक्षरकः। पूज्यो माननीयगुण उपाध्यायादिः । खलो दुर्जनः । अधनो दरिद्रः । धनवान् इति ईश्वरः । नाऽप्यत्र कश्चिन्नियमोऽवश्यंभावी सम्भाव्यते यथाऽन्येषां पुरुषः पुरुषत्वमश्नुते पशवः पशुत्वम् इत्यादि प्रमाणबाधितत्वात् । भववैचित्र्यस्य कर्मवैचित्र्यमन्तरेणानुपपत्तेरित्याह-स्वकर्मविनिविष्टसदृशकृतचेष्ट इति तत्र स्वं-स्वकीयं, यत् कर्म-क्रियत इति ज्ञानावरणीयादि, तस्य विनिविष्टं-विनिवेशः, प्रकृतिस्थित्यनुभागप्रदेशात्मिका रचना तस्य सदृशीकृता-निर्वतिता चेष्टा-देवादिपर्यायाध्यासरूपो व्यापारो येन स तथारूपः । परावर्त्तते जीव इति सम्बन्धः, दृष्टान्तमाह-अन्यान्यरूपवेषो नानाकारनेपथ्यो नट इव परावर्त्तते परिभ्रमति स एव जीव आत्मेति ॥४५॥ ४६॥ ४७|| तदेवं संसारे सर्वमनवस्थितमालोक्य विवेकिनो मोक्षमेवाकाङ्क्षन्ते, न धनयुवत्यादीनि, दृष्टान्तेनाह
कोडीसएहिं धणसंचयस्स गुणसुभरियाए कन्नाए ।
न वि लुद्धो वयररिसी, अलोभया एस साहूणं ॥४८॥ धनसञ्चयस्य रत्नकनकादिद्रव्यसमूहस्य, कोटीशतैः सह, या कन्या तस्यां न लुब्ध इति सम्बन्धः । कोऽसौ ? गुणैर्लावण्यादिभिः सुभरितायां सुपरिपूर्णायां कन्यायां कुमार्यामपि, न लुब्धो न लोभं
गतोऽपिशब्दस्य व्यवहितः सम्बन्धः । कोऽसौ ? वर्षिः वज्रस्वामी अलोभता एषा अनन्तरोक्ता सर्वसाधू15 नामुचितेति शिष्यान् प्रत्युपदेश इत्यक्षरार्थः ॥४८॥ विस्तरस्तु पूर्वभवात् प्रभृति श्रीवज्रस्वामीकथायाम् । तथाहि
[श्रीवर्षिकथानकम् ॥] पृष्ठिचम्पापुरोद्याने सुभूभागाभिधे नृपः । श्री वीरजिनतो धर्मं शालः श्रुत्वा व्यबुध्यत ॥१॥
अनिच्छति महाशालेऽनुजे राज्यं स गागलिम् । काम्पील्यतः समानीय स्वस्रीयमकरोन्नृपम् ॥२॥ 20 आत्तव्रतौ च तौ शाल-महाशालौ बहुश्रुतौ । चम्पां राजगृहाद्याता श्रीवीरेणाऽन्यदाऽध्वनि ॥३॥ तद्विज्ञप्तेनेन्द्रभूतिसहितौ प्रहितौ गतौ । यामेयप्रतिबोधाय पृष्ठिचम्पापुरीं प्रति ॥४॥ युग्मम् ॥ समं मात्रा यशोमत्या पित्रा पिठरभूभुजा । सुतसंक्रान्तराज्योऽत्र गागलिहितो व्रतम् ॥५॥ व्यावृत्ते गौतमे मार्गे तन्निस्तारणजन्मना । मुदा शाल-महाशालौ केवलज्ञानमापतुः ॥६॥
यशोमती च पिठरो गागलिश्च तथैव ते । अवापुः केवलज्ञानं शालर्बोधहर्षिताः ॥७॥ 25 श्रीवीरस्यान्तिके नन्तुं प्राप्ते गणधराग्रिमे । त्रि:परीय प्रभुं यात्सु तेषु केवलिपर्षदि ॥८॥
शैक्षाः ! किमेतदित्येवं जल्पाके गौतमे जिनः । ज्ञानिष्वाशातनां मैवं कुर्या इति जगाद गाम् ॥९॥ युग्मम् ॥ शोकदाहं कदा हन्त त्यक्त्वा कैवल्यमाप्नुयाम् । चिन्तासन्तापमित्याप वीक्षापन्नो गणी तदा ॥१०॥
१. दीती - C, K । २. जामेय - C । ३. अवाप - P 1 ४. र्षिबो - C । ५. त्यापद्वी... P | टि. 1. परदर्शनिनां इत्यर्थः । 2. गिरम् इत्यर्थः ।