________________
१४३
[ कर्णिकासमन्विता उपदेशमाला । गाथा- ४४]
धिग् मामहृदयं क्रूरं मुधा जातिमदोद्धतम् । अमी अजिह्मब्रह्माणो ब्राह्मणा न तु मादृशाः ॥६॥ दृश्यो नमस्यः स्तुत्योऽयं वरिवस्यस्तपोनिधिः । ध्यात्वेति गत्वा तं नत्वा धर्मं श्रुत्वाऽग्रहीद् व्रतम् ॥७॥ ग्रहणासेवनारूपशिक्षाद्वितयपारगः । संयमं पालयामास मनाग् जातिमदोन्मनाः ॥८॥ सम्यगाराधनापूर्वं भावनापावनाशयः । काले मृत्वाऽभवद्देवो देवलोके महाद्युतिः ॥९॥ क्रमात्ततश्च्युतो नीचैर्गोत्रकर्मोदयादयम् । गङ्गातटे बलकोट्टहरिकेशपतेः सुतः ॥१०॥ बलाख्यो दुर्भगः कालः कुरूपः कलहाङ्कुरः । गौरीनाम्नि कलत्रेऽर्भूच्चूतस्वप्नेन सूचितः ॥११॥ युग्मम् ॥ स वसन्तोत्सवेऽन्येद्युर्वने क्रीडत्सु बन्धुषु । धिक्कृत्य कलहं कुर्वन् वृद्धैदूरेण हा कृतः ॥१२॥ दूरे स्थितश्च सर्पन्तं सर्पं तत्र हतं जनैः । दीपकं चाहतं वीक्ष्य स दध्यौ कर्मलाघवात् ॥१३॥ पराभूतिर्यथा दोषैरसतां निर्विशेषणा । गुणैरेवं पैरा भूतिर्विशिष्टा सुकृतात्मनाम् ॥१४॥
1
वानेयं पुष्पमादेयं मलस्त्याज्योऽङ्गजोऽपि यत् । गुणाः सम्पत्तये तस्माद् दोषा एव विपत्तये ॥१५॥ भावयन्निति साधुभ्यो धर्मं श्रुत्वातिनिर्मलम् । हरिकेशमहर्षित्वं बलः कलयति स्म सः ॥१६॥ स षष्ठादिचतुर्मासक्षपणान्ततपः कृशः । बलः साधुक्रियाचारो ययौ वाराणसीं पुरीम् ॥१७॥ स तत्र तिन्दुकोद्याने तपोराशिरवस्थितः । ग्रन्थितिन्दुकयक्षेण सेव्यमानो दिवानिशम् ॥१८॥ अन्यदाऽभ्येत्य मित्रेण यक्षेण ग्रन्थितिन्दुकः । मित्र ! किं दृश्यसे नेति पृष्टो मुनिमदर्शयत् ॥१९॥ ममाऽऽरामेऽपि सन्त्येते तेनेत्युक्ते नमश्चिकीः । यक्षेण सह सख्याऽगात् यक्षोऽपि ग्रन्थितिन्दुकः ||२०|| दृष्ट्वा तान् विकथासक्तान् द्वावपि द्वापरोज्झितौ । अतिभक्तावभूतां तौ हरिकेशबले मुनौ ॥२१॥ राज्ञः कौशलिकस्यागात् पुत्री वाराणसीशितुः । भद्राख्याऽऽयतने तत्र यक्षमच्चितुमन्यदा ॥२२॥ अभ्यर्च्य चेटिकाचक्रपरीता यक्षदैवतम् । प्रदक्षिणं परीयन्ती बाला व्यालोक्य तं मुनिम् ॥२३॥ मलोर्मिविस्रविस्रस्यच्चेलो दुर्दर्शनो हहा । निष्ठीव्य कूणितघ्राणा जुगुप्सामिति साऽतनोत् ॥२४॥ युग्मम् ॥ यक्षेण कुपितेनाऽथ महर्षेः कुत्सया तया । अधिष्ठिताऽब्रवीद् भद्रा वैकल्यादसमञ्जसम् ॥२५॥ नीता कथञ्चिदावासे यावन्न स्वास्थ्यमाप सा । राज्ञस्तत्राज्ञया वैद्यमान्त्रिकास्तावदाययुः ॥२६॥ तेषामौषधमन्त्रादिक्रियास्तत्कर्मदूषणात् । अभवन्तोषरक्षोणिकृषिवत्तत्र निष्फलाः ॥२७॥ वैद्या निर्विद्य निर्विद्यास्त्रासमन्त्राश्च मान्त्रिकाः । यदाऽभूवंस्तदा पात्रेऽवतीर्योवाच गुह्यकः ॥२८॥ महात्मा तपसांराशिर्ययाऽतिमदमत्तया । स तर्हि गर्हितः साधुः साऽधुना मुच्यते कथम् ॥२९॥ यद्यनेनैव पापेन हरिणा परिणाय्यते । तदा मुञ्चामि जीवन्तीं मुधाऽऽयासः परोऽखिलः ॥३०॥
१. भूद्भूतस्व... - H, A, B भूत्चूत... KH | २. वृद्धै: पूरेण - P। ३. दुर्दशनो... B । ४ स्त्रा: समंत्रा... - C | स्त्राश्चमंत्रा- D I टि. 1. हा (अव्य.) निन्दायाम् । 2. अतिशायिनी विभूतिः । 3. वनसम्बन्धिनं पुष्पं- वानेयं इत्यर्थः । 4. द्वापर:- संशयः । 5. विस्रं - दुर्गन्धम् ।
5
10
15
20
25