________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा- ४२]
1
संयतस्थानयोग्येषु पुण्योद्यानेषु सर्वशः । आयुधानि न्यधाद् गूढं गुप्तैराप्ततरैर्नरैः ॥२०॥ युग्मम् ॥ अथ क्रमेण तत्राप्तः सूरिस्कन्दकवन्दकः । सद्धर्मश्रुतिसन्तुष्टः प्रचण्डो दण्डकिर्नृपः ॥२१॥ स्वगोपिताऽऽयुधप्रेक्षाप्रत्ययापादितभ्रमः । हितेनेव हताशेन पालकेनोदितो रहः ॥२२॥ युग्मम् ॥ अयं देव ! च्युताचारस्तव राज्यं जिघृक्षति । सहस्रयोधिभिः पुंभिर्वृतः पाखण्डिभिर्भटैः ॥२३॥ मया सम्यग् निशम्येदमवेक्ष्य च परीक्षितम् । एवमेवेति निश्चित्य विज्ञप्तं ते हितेच्छुना ॥२४॥ अकृत्याय वशीकृत्य प्रेरितः पालकेन सः । विप्रलब्धावकाशा हि विप्रलब्धाः परःशताः ॥२५॥ ऋजुश्छित्त्वरितस्तेन छित्त्वरेणेति दण्डकिः । ऊचे पालकमेवामुं निगृहाण निजेच्छया ||२६|| आरोप्य पश्यतः सैरेर्दुर्यन्त्रे तिलपीडने । साधूनेकैकशः सर्वान् पीडयामास पालकः ||२७|| आराधनाधनास्ते तु स्कन्दकाचार्यसन्निधौ । अन्तकृत्केवली भावभाजो भेजुः शिवालयम् ॥२८॥ पञ्चशत्यां च पूर्णायां कनीयसि मुनौ पुनः । एकस्मिन् पालकाऽऽक्रान्ते जगाद स्कन्दको गुरुः ॥२९॥ मामनापीड्य बालं मे यन्त्रे क्षिपसि यत्पुरः । स्नेहो नेहोचितः किन्तु तन्मनोऽतिदुनोति नः ॥३०॥ महतीदं वधादाधिरस्याऽस्त्विति धियाऽधमः । यन्त्रे तमादराद् बालं रोपयामास पालकः ॥३१॥ आराधनां शिवपुरीवैजयन्तीमसावपि । कृती पुरो गुरोः प्राप पापभिन्निर्वृतिं ततः ॥ ३२ ॥ अथैतद्बधनिर्बन्धादुद्यत्क्रोधधनञ्जयः । प्राक् सूरिः स्वं तपोऽधाक्षीद् दिधक्षुः सनृपं पुरम् ॥३३॥ दग्धुं पुरं नृपं राज्यं पालकं च प्रजाश्च ताः । चक्रे निदानं स क्रोधनिदानं यन्त्रपीडितः ॥३४॥ धर्मध्वजं शकुनिका तस्य शोणितशोणितम् । सहस्रास्रभुजभ्रान्त्या रभसा नभसाऽनयत् ॥३५॥ अन्तः पुरोपरि त्यक्तं विलोक्य पतितं पुरः । पुरन्दरयशोदेव्या प्रत्यभिज्ञातमेव तत् ॥३६॥ हा मद्दत्तमहारत्नकम्बलाग्रदशो गुरोः । धर्मध्वजः कुत इति पृष्टे ज्ञातं तया जनात् ॥३७॥ साऽवोचद् दण्डकिं देव ! तवागाधत्वमद्भुतम् । क्व गतं विप्रतीर्णोऽसि यदेवं दैववञ्चितः ॥३८॥ येषामशास्तृकं शास्त्रं हिंसा धर्मो द्विजन्मनाम् । विश्वसन्तीह ये तेषां ते श्वसन्तीति कौतुकम् ॥३९॥ उत्तमस्तपसा भिक्षुभिक्षुर्मध्यो बुभुक्षितः । सर्वाधमस्तु धिग्जातिर्द्विजातिर्जातिभिक्षुकः ॥४०॥ स्यात् ब्राह्मण्यं गुणैरेव न जात्येति शठः पठन् । जातिभिक्षुरतिक्षुद्रः श्रयते सूत्रकण्ठताम् ॥४१॥ लौकिकैः सूत्रकण्ठानां नाम संस्तूयते मृषा । जनङ्गमानमी पापाश्चरितैरतिशेरते ॥४२॥ एते ना विटा धूर्त्ता दूताश्चौराश्चरास्तथा । नृशंसा निस्त्रपाः किं किं सूत्रकण्ठा न कुर्वते ॥४३॥ कुलमात्मा श्रियः श्रेयः सर्वमेकपदे त्वया । श्वभ्राऽन्तर्भ्रान्तचित्तेन क्षिप्तं कर्मेति कुर्वता ॥४४॥
१४१
१. व्यधाद् - P। २. दायि P। ३. मशास्त्रिकं KH, मशास्त्रकं - B, LI
टि. 1. छित्त्वरित: - छलितः । 2. छित्त्वरः - छलकः । 3. सूरिः - स्कन्दकाचार्यः तस्य । 4. (यज्ञ) सूत्रं कण्ठे येषां ते सूत्रकण्ठाः तेषां भावः सूत्रकण्ठता, ताम् । 5. जनङ्गमः चण्डालः, तान् । 6. श्वभ्रं - नरकः ।
5
10
15
20
25