________________
१४०
[कर्णिकासमन्विता उपदेशमाला । गाथा-४२] यन्त्रैः पीडिता अपि हुर्विस्मये अहो स्कन्दकशिष्याः स्कन्दकाचार्यस्य विनेया न चेव त्ति नैव, परिकुपिताः परिक्रुद्धाः, चशब्दात् कृपार्द्रचित्ताश्च बभूवुः उपसर्गकारिणं प्रतीति गम्यम् । विशेषणद्वारेणात्र हेतुमाह - विदितो ज्ञातः परमार्थस्य चतुर्थपुरुषार्थस्य हेतुभूततया उपशम एव सारो रहस्यं यैस्ते तथाभूताः । क्षमन्ते किं ? ये पण्डिता भवन्ति । यत्तदोनित्याभिसम्बन्धादेवं योजनेति गाथार्थो ॥४२॥ भावार्थः सम्प्रदायगम्यः, स चायम्
[स्कन्दकाचार्यशिष्यकथानकम् ॥] असावस्तीह नगरी श्रावस्तीति गरीयसी । जितशत्रुरभूत्तत्र धारिणीजानिरीशिता ॥१॥ जीवाजीवादितत्त्वज्ञः सर्वज्ञागमपारगः । स राजेन्दुर्यथा तद्वत् तत्पुत्रः स्कन्दकोऽप्यभूत् ॥२॥ पुरन्दरयशानाम कुमारस्कन्दकानुजा । राज्ञा दण्डकिनोदूढा कुम्भकारकटे पुरे ॥३॥ राजकार्येण केनाऽपि दण्डके राज्ञ आज्ञया । द्विजातिः पालकोऽमात्यः श्रावस्ती पुरमागतः ॥४॥ वेत्रिणा वेदितस्तत्र जितशत्रुनृपस्य सः । प्रविश्याऽऽस्थानमानम्य नृपमासनमासदत् ॥५॥ समुदास मुंदाचारं प्रतीष्य प्राभृतैः सह । जामातुः कुशलं पृष्ट्वा राज्ञा गौरवितोऽथ सः ॥६॥ अन्यदाऽऽसौ नृपाऽऽस्थाने धर्मकर्मण्यरुन्तुदम् । ब्रुवन् विप्रब्रुवः प्रोचे स्कन्दकेण मनीषिणा ॥७॥
मुक्तेऽष्टादशभिर्दोषैः केवलज्ञानशालिनि । धर्मतीर्थकरे देवे देवानामधिदैवते ॥८॥ 15 गुरौ तदुक्तमार्गस्थे धर्मे तद्देशितेऽथवा । विसंवदन्ति ये माः पशूनां संवदन्ति ते ॥९॥ युग्मम् ॥
तत्त्वत्रयप्रतिष्ठानप्रामाणिकगिरेति सः । अनेकान्तविदा चक्रे कुमारेण निरुत्तरः ॥१०॥ गम्भीरमत्सराध्मातो नि:स्निग्धवदनस्मितः । तुष्टुवे संवृताकारः कुमारं किल वाग्मिनम् ॥११॥ स्वराज्यं तत्र यातेऽथ स्कन्दको नृपनन्दनः । बाल्यान्निर्मलवैराग्यश्चिन्तयामासिवानिति ॥१२॥ मूर्छाहेतुर्विषं भोगाः संसारश्चारकस्तथा । धिक् तथापि विरज्यन्ते न हि मोहेन देहिनः ॥१३॥ सदेति चिन्तयन् पुण्यैः प्राप्ते श्रीसुव्रते जिने । पञ्चशत्या सहायानां सहाऽयं व्रतमग्रहीत् ॥१४॥ क्रमेणाधीतसिद्धान्तः प्राप्तसूरिपदो जिनम् । कुम्भकारकटे गन्तुं सोऽपृच्छद् भवितव्यतः ॥१५।। प्राणान्तिकोऽन्तरायस्ते तत्रेत्यादिशति प्रभौ । सोऽब्रवीत्तत्र किं नाथ ! वयमाराधका न वा ॥१६॥ त्वां विनेति जिनेनोक्तेऽवोचन्नियतियन्त्रितः । मयाऽऽप्तमियता किं न सर्वेऽप्याराधका इमे ॥१७॥
आचार्यः स विचार्येति कुम्भकारकटेऽगमत् । अवश्यम्भाविभावाऽसौ नियति तिलझ्यते ॥१८॥ 25 समायान्तं स मायावी तं श्रुत्वा तत्र पालकः । प्राग्भूरिमत्सस्क्रूरहृदयो निर्दयोऽधमः ॥१९॥
१. समायातं - KHI टि. 1. सम्+उद्+आस्-परोक्षारूपः, स्थितः इत्यर्थः । 2. मुद् अभिव्यक्त्यै कृतमाचारम् इति मुदाचारम् । 3. अधमविप्रः ।