________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा- ४०-४२ ]
१३९
उत्तीर्य सिन्धुराद्भक्त्या तं साधुं माधवोऽनमत् । तद्वीक्ष्यैको वणिग् दध्यौ धन्यो योऽवन्दि विष्णुना ॥ १६ ॥ तस्यैव वणिजो गेहं स भ्रमन्नगमन्मुनिः । प्रत्यलाभि ततस्तेन बहुमानेन मोदकैः ॥१७॥ स मुनिर्जिनमागत्य प्रणिपत्य व्यजिज्ञपत् । किं तत् कर्म मम क्षीणं ? प्रभो ! यद् भैक्षमासदम् ? ॥१८॥ जिनोऽभ्यधित लब्धिस्ते नेयं लब्धिरियं हरेः । हरिणा प्रणतोऽसीति वणिजा प्रतिलाभितः ॥ १९ ॥ तां भिक्षां परलाभत्वात् परिष्ठापयितुं ततः । रागादिरिक्तः प्रारेभे ढण्ढणः स्थण्डिलावनौ ॥२०॥ दुःक्षयाणि पुराणानि कर्माणि प्राणिनामहो । इति स्थिरतरध्यान एव केवलमाप सः ॥ २१॥ ततः प्रदक्षिणीकृत्य स ढण्ढणमुनिर्जिनम् । उपाविशत् पूज्यमानो देवैः केवलिपर्षदि ॥२२॥ इति ढण्ढणकुमारकथानकम् ॥ [ ग्रन्थाग्रम् - ३३८५] इह चाहाराप्रतिबन्ध उक्तः तदधिकारात्सर्वविषयमप्रतिबन्धमुपदिशति—
आहारेसु सुहेसु अ, रम्मावसहेसु काणणेसुं च । साहूण नाहिगारो, अहिगारो धम्मकज्जेसु ॥४०॥
आहारेषु शुभेषु मनोज्ञरसादिमत्सु चशब्दाद् वस्त्रपात्रादिदण्डकपुस्तकादिषु च औघिकौपग्रहिकोपकरणेषु रम्यावसथेषु रमणीयोपाश्रयेषु, काननेषु विचित्रोद्यानेषु, साधूनां नाधिकारो न नियोगः प्रतिबन्धं कर्तुमिति गम्यं तर्हि क्वाधिकारः ? इत्याह- अधिकारो धर्मकार्येषु तपोनुष्ठानादिषु आहारादिग्रहणस्यापि तन्मात्रफलत्वात् ॥४०॥
सामान्यविषयप्रतिबन्धमुक्त्वा आपत्स्वपि शक्तिमतां तमाह
साहू कंतार- महाभएसु अवि जणवए वि(व) मुइअम्मि । अवि ते सरीरपीडं, सहंति न लयंति य विरुद्धं ॥ ४१ ॥
5
जंतेहिं पीलिया वि हु, खंदगसीसा न चेव परिकुविया । विइयपरमत्थसारा, खमंति जे पंडिया हुंति ॥४२॥
१. भैक्ष्य - KH, C । २. तदधिकेच्छोरालयविषय.... - C । ३. अत्रैव - P, C, B। ४. प्रतिहार P, प्रतिप्रहार D, KH
10
15
अत्र इहलोकनिरपेक्षतया मोक्षार्थसाधकत्वात् साधवो निरपेक्षयतिधर्मानुष्ठायिनः ते कान्तारमहाभययोरपि दुर्भिक्षाटव्यादिराजविड्वरादिकयोरपि, जनपद इव मुदिते अत्रेवशब्दो जनपद- मुदितशब्द - 20 योरन्तर्वर्त्तमानः प्रत्येकं योज्यते, तेन यथासङ्ख्यं कान्तारेऽपि जनपदेषु इव, महाभयेऽपि च मुदिते इव तदव्यभिचारित्वात् निर्भये इव वर्त्तमाना अपि सम्भाव्यते एतत् ते भगवन्तः शरीरपीडां सहन्ते तितिक्षन्ते । न लान्ति तु न गृह्णन्ति, पुनर्विरुद्धं संयमप्रत्यर्थि अनेषणीयभक्तपानफलादिकं वेषत्यागक्रोधप्रहारदानादिकं चेति । अत्र च 'शरीरपीडां सहन्ते' इति वचनात् मानसपीडासद्भावे अपवादपदेन यतनया विरुद्धमपि गृह्णतां भगवदाज्ञाऽनतिक्रमेणाऽविरुद्धत्वात् न दोष इत्युक्तं भवति ॥४१॥
एतेनाऽऽपत्स्वपि दृढधर्मता उक्ता । तामेव तदनुष्ठायकस्तुतिद्वारेणोपदिशति
25