________________
१३८
[कर्णिकासमन्विता उपदेशमाला । गाथा-३९] धर्मप्रभावादपि प्रतिबुद्धस्य चिलातीपुत्रस्येदृग्दुर्वहप्रतिज्ञानिर्वाहः शक्यत इति कथं मन्यामहे ? उच्यते, साहसिकसत्त्वानां न किमप्यशक्यमिति, दृष्टान्तेनाह
पुष्फियफलिय तह पिउघरम्मि तण्हा छुहा समणुबद्धा ।
ढंढेण तहा विसढा, विसढा जह सफला जाया ॥३९॥ पुष्पितं-भोगाख्यफलापेक्षया सञ्जाततत्कारणकुसुमरूपसमग्रविषयसामग्रीकं, न पुनः षिङ्गभवनमिवोत्पन्नभक्षीति, तच्च कृपणधनिभवनमपि सम्भाव्यते, अतः फलितं-समन्ततो व्यापार्यमाणविषयोपभोगं, पुष्पितं च फलितं चेति विग्रहः तस्मिन् पुष्पितफलिते । तथेति प्रसिद्धिसूचकः, पितृगृहे कृष्णभवने, तृष्णा पिपासा क्षुधा बुभुक्षा समनुबद्धा सन्तता ढण्ढेण ढुण्ढाख्यऋषिणा तथा तेनाऽलाभपरीषहातिसहनप्रकारेण,
विशठा शाठ्यरहिता भावसारं न कपटतो विषोढा तितिक्षिता, यथा सफला कर्मक्षयाख्यफलवती जातेति 10 समासार्थः ॥३९॥ व्यासार्थः कथानकगम्यस्तच्चेदम्
[ढण्ढणकुमारकथानकम् ॥] द्वारकायां हरेः सूनुढण्ढणाकुक्षिसम्भवः । ढण्ढणाख्यो युवा राज्ञां कन्याः पर्यणयद्धनाः ॥१॥ श्रीनेमितोऽन्यदा धर्मं स निशम्य शुभाशयः । अगृह्णीत व्रतं विष्णुकृतनिष्क्रमणोत्सवः ॥२॥
विहत्य स्वामिना साकं द्वारकां पुनरीयुषः । कदाचिदुदगादुच्चैः कर्म तस्यान्तरायिकम् ॥३॥ 15 यत्र यत्राऽगमत् किञ्चित् तत्र तत्राऽऽसदन्न सः । साधवस्तेन सार्द्ध ये जग्मुस्तेऽपि तथैव हि ॥४॥
श्रीनेमि मुनयः सर्वे विज्ञा व्यज्ञपयन्नथ । श्रीसर्वज्ञस्य शिष्योऽपि विष्णुजन्मापि ढण्ढणः ॥५॥ पूर्यां समृद्धश्रद्धानिदानिपुंवर्ययुज्यपि । भिक्षामप्येष नाप्नोति किं निमित्तमिह प्रभो ! ॥६॥ युग्मम् ॥ प्रभुराह पुरा जज्ञे द्विजो राजनियोगवान् । धान्यपुराभिधे ग्रामे मगधेषु परासरः ॥७॥ कदाचिदेष ग्रामीणैः क्षमापक्षेत्राण्यवापयत् । भोजनेऽप्यागतेऽमुञ्चत् भोजनाय न खेटकान् ॥८॥ श्रान्तैः क्षुधातृषाक्रान्तैः खेटकैश्च वृषैश्च सः । बलात् प्रत्येकमेकैकां क्षेत्रे सीतामकर्षयत् ॥९॥ सोऽथ मृत्वा भवान् भूरीन् भ्रान्त्वाऽयं ढण्ढणोऽभवत् । तच्चान्तरायिकं कर्म प्रोदगादस्य सम्प्रति ॥१०॥ इति श्रुत्वाऽऽप्तसंवेगः स्वाम्यग्रे ढण्ढणस्तदा । जग्राह परलब्ध्याऽहं नाहरामीत्यभिग्रहम् ॥११॥ महत्तरं तरन्नब्धिमिवाऽलब्धिपरीषहम् । परलब्धिमभुञ्जानो निन्ये कालं कमप्यसौ ॥१२॥
को दुष्करकरः स्वामिन् ! मध्येऽमीषां तपस्विनाम् । इत्यन्यदा गदापाणिपृष्टः प्रभुरिदं जगौ ॥१३॥ 25 कुर्वन्ति दुष्करं सर्वे किं ब्रूमो ढण्ढणस्य तु । इयत्कालमलाभाख्यं योऽसहिष्ट परीषहम् ॥१४॥ प्रणिपत्याथ तीर्थेशं केशवः प्रविशन् पुरीम् । परिभ्रमन्तं भिक्षार्थमृषिमैक्षिष्ट ढण्ढणम् ॥१५॥
१. सात्विकानां - KH, C, A | २. ढंढणेन ढंढणाख्या.... - P। ३. विसढा 'विषमे ढोवेति' प्राकृतलक्षणाद्विषमा दुस्सहा विषोढा - C | ४. तितिक्षता - P, A, KH, B | ५. ख्यप्रधानफलवती - C । ६. रीयकं - P । ७. लाभम - P।
टि. 1. षिङ्गस्य विटस्य भवनं सञ्चितसामग्रीकं न भवति किन्तु प्रतिदिनं यद् उत्पद्यते तदेव भक्षयतीत्यर्थः ।
20