________________
१३२
[कर्णिकासमन्विता उपदेशमाला । गाथा-३३] चिन्ता-विस्मय-सन्ताप-खेद-दुःस्थः स तस्थिवान् । अवाप्तहारितमणिर्दरिद्र इव विद्विषन् ॥६६॥ अथोग्ररोधसक्रोधयोधयुद्धास्रवृष्टिभिः । उद्भिन्नप्रसृतोत्फुल्लवैराग्याऽभून्मृगावती ॥६७॥ दध्यौ च शीलरक्षायै बाह्योऽरिश्छलितो मया । छलयाम्यन्तरारातीन् यद्यायातीह तीर्थकृत् ॥६८॥ सर्वभाव-स्वभावज्ञस्तद्भावाऽभ्यर्थितः प्रभुः । तत्पुरीसीम्नि तच्चिन्तातुल्यकालमुपाययौ ॥६९॥ श्रीजिनेशदिनेशस्याभ्युदयेऽथ मृगावती । पुरादुद्घाटितद्वारादब्जाद् भृङ्गीव निर्ययौ ॥७०॥ अथ ऋद्ध्या च भक्त्या च महत्याऽभ्येत्य निर्भया । जिनाधिनाथमानम्य यथास्थानमियं स्थिता ॥१॥ विमुच्य कोपचण्डत्वं चण्डप्रद्योतराडपि । श्रीवीतरागमागत्य प्रणिप्रत्योपविष्टवान् ॥७२॥ धर्मकैरवकेदारविकाशनशशिद्युतिम् । व्यधत्त दुरितध्वान्तध्वंसिनी देशनां जिनः ॥७३॥
कोपि धन्वी तदा नाथं हृदा पप्रच्छ संशयम । तं स्वाम्यचे गिरा पच्छ बध्यन्ते बहवो यथा ॥७४ 10 स जगौ भगवन् ! या सा सा सैवेति मिताक्षरम् । नाथोऽप्यभिदधे या सा सा सैवेत्यस्फुटार्थकम् ॥७५॥
पप्रच्छ गौतमः स्वामिन् ! कः प्रश्नोऽत्र किमुत्तरम् । प्रभुराचष्ट चम्पाऽस्ति ख्याताऽस्मिन् भरते पुरी ॥७६॥ तत्रैक: स्वर्णकारोऽभूत् कन्यां यां यां व्यलोकयत् । कान्तां हेमसहस्रार्द्धं दत्त्वा तां तां व्युवाह सः ॥७७॥ इत्युदूहे क्रमात्पञ्च चञ्चलाक्षीशतानि सः । प्रत्येकमपि सर्वासां सर्वाङ्गाभरणान्यदात् ॥७८॥
स्वशृङ्गारभृतः स्वस्ववारे तमरमन्त ताः । अन्यवारे पुनः शान्तवेषास्तस्थुस्तदाज्ञया ॥७९॥ 15 इतस्ततोऽस्मिन् याते ताः शृङ्गारादि मुदा व्यधुः । ततोऽसौ तर्जयामास ताडयामास चाऽऽगतः ॥८॥
रक्षामतीर्ण्यया तासामथ निर्मातुमुद्यतः । कदाचिन्नामुचद् द्वारं धाम्नोऽधिष्ठानभूतवत् ॥८१॥ हत्यादग्ध इवाऽगच्छद् भोक्तुं कस्यापि नौकसि । स निजेऽपि गृहे कञ्चिन्न कदाचिदभोजयत् ॥८२॥ बलात् कदापि सुहृदा निजे भोजयितुं गृहे । अनिच्छन्नपि निन्येऽसौ गुप्तौ क्षेप्तुमिव द्विषा ॥८३॥ साध्वद्य नः पतिच्छया बन्दिकृत् गुप्तियामिकः । बहिर्गत इति स्फीताः क्षणं स्मः क्षणिका इव ॥८४॥ ध्यात्वेति तत्क्षणकृतस्नानालेपनमण्डनाः । पश्यन्त्यो दर्पणेषु स्वं तस्थुः प्रीतास्तदङ्गनाः ॥८५॥ स्वर्णकारस्तदागारमागात् प्रेक्ष्य च ताः क्रुधा । एकां जघान स तथा सा यथाऽभूद्यमातिथिः ॥८६॥ अरे रे हन्ति हन्त्येष पापी संभूय हन्यते । इत्यन्याश्चक्रवत्तत्राऽक्षिपन् कोपेन दर्पणान् ॥८७॥ तत्पातेन मृतः सोऽपि पश्चात्तापेन तास्ततः । चितावदौकः प्रज्वाल्य मृत्युदाहौ सहाऽऽसदन् ॥८८॥
विपद्य पश्चातापेनाऽकामनिर्जरया च ताः । एकेन पञ्चशत्यूना भुवि मर्त्यतयाऽभवन् ॥८९॥ 25 ते दुर्गे क्वचिदेकत्र तस्करत्वेन सङ्गताः । जीवन्ति स्माऽधुनाऽस्तोकलोकलुण्टनलम्पटाः ॥९०॥
१. युद्धाश्रु...KH, युद्धास्त्र A, C, B, H I २. तुल्ये - P | ३. टाक्षरं - A, B, C | ४. बन्द - P, A, C, L, H, B, KH |
टि. 1. असं - अश्रु, शोणितं वा । 2. यदि आयाति इह । 3. रक्षां अतिईर्ष्णया इति विग्रहः । 4. गुप्तौ - कारागृहे । 5. क्षणिका-विद्युत् ।