________________
१३१
5
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३३]
सेयं मृगावती नाम शतानीकनृपप्रिया । सुरासुरस्त्रीरूपाणामन्त्यावयवरूपिणी ॥४२॥ युग्मम् ॥ ग्राह्या शक्त्याप्यसौ याचे पूर्वं साम्नेत्यथो नृपः । कौशाम्बीपतये दूतं वज्रजङ्घाख्यमन्वशात् ॥४३॥ स गत्वोचे शतानीकं हन्त ! त्वामादिशत्यदः । अनादेशकृतां चण्डश्चण्डप्रद्योतभूपतिः ॥४४॥ त्रपुणीव मणी नैव त्वय्याभाति मृगावती । साऽस्मभ्यं प्रेष्यतां नांह्रौ मौलिमौलौ हि युज्यते ॥४५॥ जीवितव्यं च राज्यं च रक्ष प्रेष्य मृगावतीम् । सर्वनाशोंऽशनाशेन रक्षणीयो विचक्षणैः ॥४६॥ ततः प्रततकोपश्रीः शतानीकनृपोऽभ्यधात् । मगिराऽदिश्यतां दूत ! गृहचण्ड: स भूपतिः ॥४७॥ त्रपुणीव मणी नैव त्वय्याभाति मृगावती । इहाऽस्तु तदियं नाह्रौ मौलिमौलौ हि युज्यते ॥४८॥ राज्यं च जीवितव्यं च रक्ष प्रेष्याऽवरोधनम् । सर्वनाशोंऽशनाशेन रक्षणीयो विचक्षणैः ॥४९॥ इत्येष प्रेषयद्भूतं स गत्वेदं न्यवेदयत् । चक्रे प्रयाणं प्रद्योतश्चतुर्दशनृपावृतः ॥५०॥ । सूरनिस्तेजनायोग्यैर्भूभृत्कम्पनहेतुभिः । कौशाम्ब्यै सोऽचलद्धूलिधूम्रदिग्भिः प्रयाणकैः ॥५१॥ श्रुत्वैनं चण्डमायान्तं शतानीकोऽतिसारतः । ससार शरणार्थीवाऽतिचण्डयममन्दिरम् ॥५२॥ प्रिये पञ्चत्वमापन्ने देवी दध्यौ मृगावती । सूनुर्मेऽल्पबलो बालो बलीयान् पुनरेत्यरिः ॥५३॥ छलेनाप्यक्षतं रक्ष्यमस्माच्छीलं कुलं च तत् । इति ध्यात्वाऽन्वशाढूतमियं प्रद्योतभूपतेः ॥५४॥ गत्वा प्रद्योतमायान्तं स जगौ त्वां मृगावती । वदतीदं शतानीके मृते त्वं शरणं मम ॥५५॥ किन्तूदयननामायं मत्पुत्रोऽल्पबलः शिशुः । पितृशोकैरिवाऽमित्रैर्मन्मुक्तोऽभिभविष्यति ॥५६॥ तगिरा प्रमदप्रोतहृत् प्रद्योतस्ततो जगौ । तस्य रोमापि को नाम नामयेन्मयि पातरि ॥५७॥ अब्रूत दूत इत्येतदेव देव्याप्युदीर्यते । किं भयं जगदुद्द्योते प्रद्योते सति गोप्तरि ॥५८॥ द्विड्महीपाः समीपे तु नेतुदूर तव स्थितिः । यदेतन्मरुकूपेऽम्भो गृहमूनि प्रदीपनम् ॥५९॥ अवन्तीतः समानीतैर्मत्पुर्यामिष्टिकोत्करैः । ततो दिवो वप्राऽऽकारं प्राकारं कारय द्रुतम् ॥६०॥ ततस्तं पूरय रयात्तृणधान्येन्धनैर्घनैः । पुत्रं कुशलिनं तत्र मुक्त्वा कुर्वे हितं तव ॥६१॥ श्रेणीकृत्य ततः सेनाश्चतुर्दशमहीभुजाम् । हस्ताऽनुहस्तिकाऽऽनीतैरवन्त्या इष्टिकोत्करैः ॥६२॥ व्योमद्रुमालवालाभं स प्राकारमकारयत् । अपूरयच्च काष्ठान्नतृणैः प्रद्योतभूपतिः ॥६३॥ तत्कृतेऽप्यथ वप्राङ्गे रुद्धद्वारा मृगावती । योगिनी कर्मण इव द्विषोऽभूत्तस्य दुर्गहा ॥६४॥ बहिर्विहितरोधं क: प्रद्योतं वेत्तु कोपिनम् । अवैत् तत्पुरवास्तव्यो नोदयास्तमयावपि ॥६५॥
20
१. इत्येवदेव - C । २. दिवोपमकारं - C। ३. कारयतद्रुतं - P; कारयाद्भुतं - B, A, I ४. कुवि - P | ५. दृष्टिको - P।
टि. 1. गृहे [एव] चण्ड: गृहचण्डः । 2. तत्पुरवास्तव्यो(ऽतिसुरक्षिततया) उदयास्तमयौ अपि न अवैत, बहिर्विहितरोधं कोपिनं प्रद्योतं (पुनः) क: वेत्तु इति अन्वयः कार्यः ।