________________
१३०
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३३] स जगाद त्वया तात ! स्वयं मारिवारि तत् । एतावतैव प्रीतोऽस्मि किं याचेऽतः परं प्रियम् ॥१७॥ इत्यस्य स्वार्थशैथिल्यात् प्रमोदं परमं वहन् । यक्षो जगाद भोः किञ्चिद् याच याचेति सादरः ॥१८॥ ऊचेऽथ चित्रकृन्नाथ ! चेत्प्रीतोऽसि तदस्तु मे । चित्रं रूपस्य दृष्टैकदेशस्यापि यथास्थितम् ॥१९॥ एवमस्त्विति यक्षेणाभिहितो महितो जनैः । स कौशाम्बीं शतानीकनृपश्रीकलितां ययौ ॥२०॥ निजराज्येऽन्यराज्येभ्यो हीनं चित्रसदस्तदा । विज्ञाय नृपतिस्तत्राऽऽदिशच्चित्राय चित्रकान् ॥२१॥ प्रासादस्य प्रदेशेषु विभज्याऽऽत्तेषु चित्रकैः । स्थानमन्तः पुरासन्नमवाप स तु चित्रकः ॥२२॥ दिव्याकृतिद्युतेर्देव्या मृगावत्याः क्रमाङ्गुलिम् । दैवादालोकयज्जालान्तरेण तरलां त्विषा ||२३|| अनिरूपितमित्यस्या रूपमङ्गुलदर्शनात् । निखिलं लिखतस्तस्याऽपतदूरौ मषीलवः ॥२४॥ स तं ममार्जाऽऽशु मषीबिन्दुस्तत्राऽपतत्पुनः । पुनर्ममार्ज पुनरप्यपतद् व्यमृशच्च सः ॥२५॥ निर्भाग्यस्य विपत्ताप इवोन्मृष्टोऽपि यन्मुहुः । मषीबिन्दुः पतत्यस्यास्तन्मन्येऽस्तीह लाञ्छनम् ॥२६॥ तच्चित्रितमथो देव्या रूपमालोक्य भूपतिः । मुदमाप च तद्विन्दुदर्शनाच्च क्रुधं कुधीः ॥२७॥ दध्यौ च पाप्मनाऽनेन विप्लुतैव मृगावती । इह स्थायी मषग्रन्थिरस्या ज्ञातोऽन्यथा कथम् ॥२८॥ अथाऽत्र चित्रके हन्तुमारब्धे मन्तुघोषणात् । एत्य चित्रकृतः सर्वेऽप्युर्वीनाथं व्यजिज्ञपन् ॥२९॥ स्वामिन् ! यक्षप्रसादेन दक्षश्चित्रकलाविधौ । दृष्टैकदेशमप्येष लिखेद्रूपं यथास्थितम् ॥३०॥ 15 कुब्जिकाया मुखमथेो राजा हृद्यमदीदृशत् । स च तस्या यथावस्थं रूपं चित्रकरोऽलिखत् ॥३१॥ तथापि छिन्नसन्दंशो राज्ञाऽकारि स चित्रकः । यक्षमाराध्य लेभेऽथ तां सिद्धि वामपाणिना ||३२|| अथाऽमर्षरसोत्कर्षाच्चिन्तयामास चित्रकः । धिग् राज्ञाऽहं मुधारागान्निरागास्तेन खण्डितः ॥३३॥ अशक्तः शक्तिसम्पन्नमपि तं धीधनोऽधुना । मूलादुन्मूलयिष्यामि कियानिन्द्रोऽपि धीमताम् ||३४|| इति ध्यात्वा मृगावत्या रूपं न्यस्य पटेऽमुना । चण्डप्रद्योतभूपस्याऽदर्शि कर्शितविद्विषः ॥३५॥ 20 हैग्मृगीजालमालोक्य तद् भूपालः शिरोऽधुनात् । साम्यं रम्भादिभिः कुर्वन् स्वान्तं स्वं दारयन्निव ॥३६॥
न रूपं सम्भवत्येतदुर्व्यां निर्व्याजसुन्दरम् । स्वर्गपातालबालानामालोकनगतिः क्व ते ॥३७॥
तत् किं चित्रक ! भात्येषा चित्रकर्मकलैव ते । किं वा स्त्री क्वचनाऽस्तीदृग् वचनागोचराकृतिः ? ॥३८॥ स्त्रीरत्नं रत्नगर्भायामिदं यद्यस्ति तद्वद । गृह्णाम्यहं न हंसी हि हंसादन्यत्र राजते ॥ ३९ ॥
5
10
25
एवं वचसि भूपेन कलिते फलितं निजम् । जानन्मनोरथं नृत्यच्चित्तश्चित्रकृदूचिवान् ॥४०॥
या लीलागतिलालित्यवाग्विलासादिवर्जिते । चित्रे न्यस्ता मया देवी चकास्ति चकितैणदृग् ॥४१॥
टि. 1. दृग् एव मृगी तस्या बन्धने जालं इव जालं इति हग्मृगीजालम् । 2. तद् - पटे आलिखितं रूपम् । 3. स्वर्गञ्च पातालञ्च स्वर्गपातालौ तयोर्बालानां आलोकनविषये गतिः बुद्धिः क्व ते तव इत्यर्थः ।