________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३३]
१२९
केलं प्रचुरत्वादजीर्णं, तदेव मलस्तेन भरितः पूरितो भरो भारो यैस्ते, स्वकर्मकलमलभरितभराः अथवा स्वकर्मैव कलमलो देशीशब्दत्वात् कचवरः यद्वा स्वकर्मण्येव कलमले पङ्कविशेषे भरितभराः संसक्तात्मानः सन्तस्तत एव हेतोः पतन्ति, अधो नरक इति ॥३२॥ दुर्विपाकत्वमुक्त्वा इहैव कर्मणो दुर्वचत्वमाहवोत्तूण व जीवाणं सुदुक्कराइं ति पावचरियाई ।
भवं जा सा सा सा, पच्चाएसो वि इणमो ते ॥३३॥
वक्तुमपि जीवानां सुदुष्कराण्यतिदुःशक्यानीति पापचरितानि एवं दुष्टचेष्टितानि, उत्तरार्द्धेन दृष्टान्तं सूचयति । भगवन् ! या सा एवं स्वरूपा, सा किं सा सैव नान्येति प्रश्ने कृते भगवानाह ते तव प्रत्यादेशो उत्तरमपि इदमेव या सा, सा सैव इतिरूपमित्यक्षरार्थः ||३३|| भावार्थः कथानकादवसेयः तच्चेदम्['या सा सा सा' कथानकम् ॥]
साकेतपत्तने यक्षः ख्यातो नाम्ना सुरप्रियः । विचित्रं चित्र्यते यात्रादिने प्रत्यब्दमप्ययम् ॥१॥ चित्रितश्चित्रकं हन्ति पूर्लोकं हन्त्यचित्रितः । असाविति परित्रस्तं समस्तं चित्रकृत्कुलम् ॥२॥ पुरचारिप्रजामारिभीरुणा भूभुजा ततः । धृत्वाऽऽनायि भटैर्दीनचक्षुश्चित्रकरोत्करः ॥३॥ मुक्तास्ते लग्नकैर्बद्ध्वा घटचाऽपूरि भूरिभिः । तन्नामचित्रितैः पत्रैश्चित्रगुप्तनिधानवत् ॥४॥ प्रत्यब्दं कापि कन्यैकं कुम्भात्कर्षति पत्रकम् । तत्र यन्नाम निर्याति यैक्षचित्रं करोति सः ॥५॥ इति व्यतिकरे जाते तत्र चित्रकदारकः । आययौ कोपि कौशाम्ब्याश्चित्रकौशलसिद्धये ॥६॥ स चित्रकरवृद्धाया मातृश्रद्धावशंवदः । कस्याश्चिद्धाम्नि तस्थौ तत्पुत्रमैत्रीनियन्त्रितः ॥७॥ पुत्रपत्रे तदाऽऽयाते कृतान्ताह्वानलेखवत् । वृद्धा घ्नन्ती कराघातैरुरो दीर्घं रुरोद सा ॥८॥ चित्रयिष्याम्यहं यक्षं यक्षाराधनदक्षधी: । मह्यं न ह्यन्तको मातस्तत्र घातक्षमो भवेत् ॥९॥ इति प्रबोध्य वृद्धां तां ज्ञात्वा यात्रादिनं च तत् । कृत्वा षष्ठं तपो भूत्वा पवित्रश्चित्रकृद्युवा ॥१०॥ चारुचन्दनकस्तूरीकर्पूराद्यधिवासितैः । नवैर्नवपुटन्यस्तैर्वर्णकैर्नवकूर्चकैः ॥११॥ वेष्टयित्वाऽष्टधा पट्या मुखं सौरभभासुरः । निर्भयश्चित्रयामास यक्षस्याच मनश्च सः ॥ १२ ॥ विशेषकम् ॥ ततः कृताऽऽनतिर्दक्षः स यक्षमिदमब्रवीत् । न चित्र्यसे यथोचितं सुरप्रिय ! सुरैरपि ॥१३॥ तद्विश्वोद्धारसंहारशक्त ! भक्तैकवत्सल ! । अयुक्तं यत्कृतं यक्ष ! मयाऽद्य क्षमयामि तत् ॥१४॥ ततः सुरप्रिये प्रीते वरदायिनि सोऽवदत् । विधातव्यः प्रजाघातस्तात ! नातः परं त्वया ॥१५॥ सिद्धमेतत्स्वयं वत्स ! धीमहत्यहते त्वयि । स्वस्मै वरं वृणीष्वेति तं प्रोवाच सुरप्रियः ॥ १६॥
१. कुलं - KH | २. वित्रित० - L । ३. यक्षश्चित्रं - P, KH |
टि. 1. लग्नकः - साक्षी । 2. चित्रगुप्तः - यमराजस्य प्रधानपुरुषः, येन मनुष्याणां गुणदोषाणां सूचिपत्रं लिख्यते ।
5
10
15
20
25