________________
[ कणिकासमन्विता उपदेशमाला । गाथा - ३१]
१२५
अपि वृद्धैः पितेवाऽयं देवतेवाऽपि नास्तिकैः । आलोक्यमानः साऽऽनन्दैर्ब्रह्मसूः प्राविशत् पुरम् ॥३२०॥ जितषट्खण्डभूर्द्वादशाब्दीपूर्णाभिषेचनः । चतुःषष्टिसहस्रस्त्रीप्रियोऽयं मुमुदेतराम् ॥३२१॥ दास्यैकया कदाप्यस्य कौतुकाय करेऽप्पितः । स्वर्मालिनीगुम्फितवन्नेत्रेन्दुः पुष्पगेन्दुकः ॥३२२॥ क्वाप्यहं दृष्टपूर्वीदं रूपमित्येष चिन्तयन् । स्मृतपञ्चभवो दध्यौ सौधर्मे दृष्टवानिति ॥ ३२३॥ मिलिष्यति स पूर्वपञ्चजन्मसहोदरः । कथमेवं सुधीर्ध्यात्वा श्लोकार्द्धमिति सोऽपठत् ॥ ३२४॥ आस्व दासौ मृगौ हंसौ मातङ्गावमरौ तथा । ऊचे चेमां समस्यां यः पूरयेत् सोऽर्द्धराज्यभाक् ॥ ३२५ ॥ समस्यामथ सर्वोपि जिह्वादोलास्वदोलयत् । न तु पूरयितुं तृष्णामिव कोऽपि शशाक ताम् ॥ ३२६॥ जातिस्मृतेर्व्रतीभूतश्चित्रजीवो महेभ्यसूः । तदागात् तत्पुरोद्यानमेकः पुरिमतालतः ॥ ३२७॥ आरघट्टिकमेकं तत्समस्यापदपाठिनम् । स मुनिः पाठयामास श्लोकपादद्वयीमिमाम् ॥३२८॥ एषा नौ षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः । इत्युक्तश्च स भूपाग्रेऽपठद् गत्वाऽरघट्टिकः ॥३२९॥ कविः क इति तत्पृष्टः स जगौ तं वने मुनिम् । राजा तदुक्तस्तत्रागाद् दत्त्वाऽस्मै पारितोषिकम् ॥३३०॥ तं नत्वा बाष्पपूर्णाक्षो निषसादाऽन्तिके नृपः । दत्त्वा चाऽस्मै तपोराशिराशिषं देशनां व्यधात् ॥३३१॥ राजन्नसारतः सारं संसाराद्धर्ममार्हतम् । धीरा गृह्णन्ति रत्नौघमिव क्षारपयोनिधेः ||३३२॥ लब्ध्वापि मानवं जन्म तरण्डं भवतोयधौ । तन्मुधैव त्यजन्तो धिग् मूढा मज्जन्ति तृष्णया ॥३३३॥ धर्माधर्मफलं स्पष्टं स्मृतपूर्वभवो भवान् । जानानो जगतीजाने ! भजतामुचितं व्रतम् ॥३३४॥ ऊचेऽथ चक्री यत्प्राप्यं तपोभिः क्षोभितामरैः । तत्प्राप्तं राज्यमुत्सृज्य कस्तपः कुरुते कुधीः ॥ ३३५॥ तवापि तपसा किं भोस्तपोदुर्लभमस्ति मे । राज्यं विभज्य तद् भोज्यं पञ्चजन्मसहोदर ! ॥ ३३६ ॥ मुनिराह जितोत्साहधनदो धनदोहदः । ममापि पूर्णस्तूर्णं तु स त्यक्तो भवभीरुणा ||३३७|| मोक्षमार्गोचितेनाऽङ्गेनाङ्गीकृत्याऽङ्गनादिकम् । मूढ ! भद्रेभमूल्येन गृह्णासि मलशूकरम् ॥३३८॥ अबोध्यमथ बुद्ध्वैनमसाध्यमिव रोगिणम् । मुक्त्वाऽगात्तपसे साधुर्न क्षणोऽपीदृशां मुधा ॥ ३३९॥ घातिकर्मव्ययोन्मीलत्केवलो बोधयन् धराम् । भवोपग्राहिकर्मालिक्षयादयमगाच्छिवम् ॥३४०॥ अजिह्मं ब्रह्मदत्तोपि सैष वैषयिकं सुखम् । रसयन् गमयामास दृप्तः सप्तशरच्छतीम् ॥३४१॥ पुरा परिचितो विप्रः कदाचिद् चक्रवर्त्तिनम् । जगौ यच्छ त्वमाहारं यमाहरसि तन्मम ॥३४२॥ तदन्नं दुर्जरं जीर्यमाणं तून्मादकृद् बहुः । इत्युक्ते चक्रिणा विप्रः कदर्योऽसीत्युवाच तम् ॥३४३॥ राज्ञाऽथ सकुटुम्बोपि स्वभोजनमभोजि सः । शतशाखं स्मरोन्मेषमेष नक्तमवाप च ॥३४४॥ मातृ-पुत्र- पितृ-भ्रातृ-स्नुषाजाम्यादिभेदभित् । पशुवत्पशुधर्मोऽथ मिथोऽभूत् तत्कुटुम्बके ॥ ३४५॥
१. कन्दुकः इत्यर्थः ।
टि. 1. भवाम्बुधौ । 2. सुलभं इत्यर्थः । 3. शरद् (स्त्री) वर्ष: ।
5
10
15
20
25