________________
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३१]
श्रुतं संबन्धुदमनं भवदागमनं तदा । सवज्रपातपीयूषवृष्टितुल्यं बभूव नौ ॥२७०॥ आवयोरुक्तयोः पुष्पवत्याऽथ रभसावशात् । पताकाऽस्मदभाग्यैककीर्त्तिवन्नर्त्तिता सिता ||२७१ ॥ तदा च त्वामनायान्तं पश्यन्त्योर्भुवनक्रमात् । नैवाभूदावयोर्लग्नदावयोरिव निर्वृतिः ॥२७२॥ प्राप्तोऽधुनाऽसि दृग्मार्गं खिन्नयोनौं निषण्णयोः । व्यवसायो वृथा भाग्यं कालेनाऽपि फलेग्रहिः ॥ २७३ ॥ आवां त्वया त्वमावाभ्यां वृतः पुष्पवतीगिरा । स्वामिन्नद्य प्रसीदाऽस्तु स्वयंवृतिमहोत्सवः ॥ २७४॥ सोऽथ निर्व्यूढगान्धर्वविवाहो विलसन् बभौ । सरागयोस्तयोर्मध्ये सन्ध्ययोरिव वासरः ॥ २७५ ॥ स्थित्वा निशामसौ प्रोचे यावन्मे राज्यसङ्गतिः । यातं पुष्पवतीं तावत् ते तिरोभवतां ततः ॥२७६॥ गत्वाऽऽश्रममथाऽपश्यन् कान्तां स प्रवरं नरम् । कञ्चित् पप्रच्छ काऽपीह दृष्टा शिष्टा वधूरिति ॥ २७७॥ रुदती नाथ ! नाथेति तत् पितृव्याऽऽलये मया । ज्ञात्वा नीता ह्य एह्येहि त्वां विनाऽद्याऽपि रौति सा ॥ २७८ ॥ इत्युक्त्वा तेन हृष्टेन ब्रह्मदत्तस्तदौकसि । नीतः प्रीतश्च विदधे तद्विवाहं धनावहः ॥ २७९॥ नित्यं स्वादयता स्वादु दयिताप्रेमजं सुखम् । तेनाऽन्येद्युर्वरधनोर्मृतकार्यमकार्यत ॥ २८०॥ विप्रभोज्यक्षणे विप्रमूर्त्यागत्याऽऽह मन्त्रिभूः । साक्षाद् वरधनुर्भुङ्क्ते भोजनं मम दत्त चेत् ॥२८१॥ श्रुत्वा श्रुतिसुधां वाचं तां मुदोत्थाय राजसूः । मुहुर्विरहभीत्यामुमालिलिङ्गैकतां नयन् ॥२८२॥ अथोपविश्य पृथ्वीशपुत्रे पृच्छति तत्कथाम् । स जगाद तदा नाथ ! प्रसुप्ते त्वयि सुप्रभौ ||२८३|| हृदि दुर्वचनेनेव बाणेनाऽऽहत्य पातितः । दुर्जनेनेव चौरेण मानादिव रथादहम् ॥२८४॥ न रक्तगन्धोन्मत्ताश्वप्रत्वरं रथमाप सः । उपायोऽप्यनुपायः स्यान्महात्मनि दुरात्मनाम् ॥२८५॥ लीने मयि लतौघेषु भग्नाशोऽयं विनिश्वसन् । चित्रकाय इव स्फारफालानाप्तमृगो ययौ ॥ २८६ ॥ उत्पथेनाऽटवीं मुक्त्वा ग्रामेशात्प्राप्य वः कथाम् । इहाऽऽगत्य महापुण्यैः प्राप्तोऽस्यर्थ इवाऽर्थिना ॥२८७॥ ब्रह्मदत्तोऽभ्यधत्ताऽथ वदाऽस्माभिः कियच्चिरम् । स्थेयं रिपुभयोद्ग्रीवैः क्लीबैरिव सखे ! क्षितौ ॥२८८॥ इहान्तरे हहारावक्रीडादलितविश्वहृत् । शब्दोऽभूदिति पौराणां विकटप्रकटाक्षरः ॥ २८९॥ निषादिनां नाममिव स्तम्भं भङ्क्त्वा मदोद्धतः । त्रासयंस्त्रिजगत्त्राणप्राकारानिव दोर्भृतः ॥२९०॥ गतिक्रुधेव जग्राह व्यालोऽयं बालिकां हे हा । कोऽप्यमुं मोचयति भो हा निर्वीरा धरापि हा ॥२९१॥ स वीर इति शुश्राव पश्चात्पीठात्पुरोत्थितः । पश्चादभूद् गजं गन्तुमनास्तं प्रथमं गतः ॥ २९२॥ रे नाम कर्ममातङ्ग ! स्त्रीग्रहेण न लज्जसे । इत्याक्षिप्तः कुमारेण तां त्यक्त्वा तमधावत ॥ २९३॥ हतो हत इति व्यग्रे जने भूपाङ्गजो गजम् । दन्तदत्तांहिरारोहयाद्रि हरिर्यथा ॥२९४॥
१२३
१. स्वबन्धुदमनं - B, H, स्वबन्धुगमनं - K, L, D। २. त्वामथा K । ३. भुवनभ्रमात् C, A र्भुवनं भ्रमात् D L । ४. दच्छ-C, AI ५. ययावहं - P | ६. प्रचरं H | प्राचरन् - P। ७. मानमिव - C, A, B । ८. गतिक्रुद्धेव - A, P । ९. जवात् B । १०. त्फालयाद्रि-B, A । टि. 1. नाम: (पुं)- प्रसिद्धिः ।
5
10
15
20
25