SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 5 त्वत्कार्येण गतोऽयं स्यात्त्वद्भक्तः प्रातरेष्यति । प्रभोरेव हि धैर्येण जयन्ति प्रभुकार्यिणः ॥ २५० ॥ त्वरयाऽश्वान् रयात्स्वामिन् ! भूरियं भूरिविग्रहा । तैत्प्रवृत्तिप्रयत्नस्तु स्थानाप्त्या क्रियते चरैः ॥२५१॥ प्रेर्याऽश्वान् मगधक्षोणिसीमग्रामं गतोऽथ सः । ग्रामेशेन गृहं निन्ये पूज्या केन क्व नाकृतिः ? ॥ २५२॥ युध्यमानः समं चौरैः सुहृन्मे क्वाऽप्यगादिति । उक्ते दुःखात् कुमारेण ग्रामेशोऽप्यतिदुःखितः ॥२५३॥ स नभः स्वानिव नभो विगाह्य गहनं जवात् । एत्याचष्ट स नो दृष्टः सासृग् दृष्टः शरस्त्वयम् ॥२५४॥ 10 15 १२२ [ कर्णिकासमन्विता उपदेशमाला । गाथा - ३१] गतः स्यात् पयसि क्वाऽपीत्याजुहाव तमुच्चकैः । रथाग्रे वीक्ष्य रक्तं तु स रुरोदोच्चकैस्तराम् ॥२४६॥ भ्रष्टः पितृश्रियो नव्यां नाद्यापि प्रापितः श्रियम् । तदत्र 'प्रान्त रे मित्र ! मां मुक्त्वैकं क्व हा गतः ॥२४७॥ किं द्यां युद्ध्वाऽधुना गच्छन्मां नापृच्छस्तटस्थवत् । यत्त्वाऽस्थापयिष्यं वाऽगमिष्यं वा समं त्वया ॥२४८॥ तमित्यमन्दक्रन्दन्तं वल्लभाऽऽचष्ट वल्लभ ! । नाऽमङ्गलवचो वाच्यमिष्टे नष्टे मतिभ्रमात् ॥२४९॥ 20 अथ मित्रशुचा जाग्रच्चक्री तत्र स्थितो निशि । प्राहरत् प्रहरे चौरांस्तृतीये पतितानयम् ॥२५५॥ रथी प्रातर्विसृज्याऽथ ग्रामण्यं ग्रामसीमनि । ययौ राजगृहं स द्राग् दविष्ठं पवनस्य किम् ? ॥ २५६॥ मुक्त्वा रत्नवतीं चित्तमिवाऽसौ तापसाश्रमे । तत्पुरं प्राविशत्कन्येऽपश्यद्वातायनस्थिते ॥२५७॥ इमे तमूचतुः प्रेमभाजनं यत्तदा जनम् । मुक्त्वाऽगच्छ: कलाकेच्छ ! तत्ते चित्ते स्वयं बभौ ॥२५८॥ स जगौ कं जनं प्रेमरञ्जनं खञ्जनेक्षणे ! । कदाऽस्मि मुक्तवान् ब्रूत कोऽहं वा के युवां च वा ॥२५९॥ अथाऽऽगच्छ प्रसीदेति तदगारं स तद्गिरा । प्रविष्टः स्नानपानादिहृष्टश्चाभ्यामभाष्यत ॥ २६०॥ स्वामिन्नस्ति नभोहस्तिविक्को वैताढ्यपर्वतः । पुरं तत्रास्ति रत्नाढ्यमन्दिरं शिवमन्दिरम् ॥२६१॥ राजा च तत्र ज्वलनशिखो विद्युच्छिखाप्रियः । हृद्य श्रीर्विद्यते विद्याधरसिन्धुरयूथपः ॥२६२॥ तस्य विद्युच्छिखागर्भभुवौ प्राणप्रिये सुते । आवां खण्डा - विशाखाख्ये नाट्योन्मत्तखगानुजे ॥२६३॥ क्षतपातकजातेन तातेन सममेकदा । गत्वाऽष्टापदमानन्दादवन्दावहि तज्जिनान् ॥ २६४॥ तत्रैव च सहाऽऽवाभ्यां रक्ताऽशोकतले पिता । ववन्दे सुकृतस्येव चरणौ चारणौ मुनी ॥ २६५ ॥ आकर्ण्य कर्णपीयूषदेशीयां देशनां ततः । ततोऽपृच्छत्पतिर्भावी कोऽनयोः कन्ययोरिति ॥२६६॥ एतद्भ्रातृनिहन्ता य उपयन्ता स एतयोः । ताभ्यां मुनिभ्यामित्युक्ते तातश्चाऽऽवां च दुःखिताः ॥ २६७॥ भोगयोगस्पृहां मुक्त्वा तद्वैराग्येण तद्दिनात् । आवां भ्रातुस्तनुं त्रातुकामे एवाभितः स्थिते ॥२६८॥ अथाऽसौ पुष्पचापस्य चापलेन चकार यत् । यथाऽस्य कर्मभिर्जातं तज्जानाति स्वयं भवान् ॥२६९॥ १. प्रात रे K | २. किं त्वां P। ३. युद्धाऽध्वना... D, B, A, C, L । ४. स्थानास्या L, B । ५. सच्छ-C I ६. शुभं - C, A, B, A । ७. 'वैताढ्य'...-P। . 1. प्रान्त ! अवशिष्ट, मित्रस्य विशेषणम् । 2. स्थानस्य आप्त्या मित्रस्य प्रवृत्तेः प्रयत्नः चरैः क्रियते इति भावार्थः । 3. ० विक्कः - पोतः । 4. क्षतं हिंसा, क्षतस्य पातकः, क्षतपातकः तेषां जातं समूहः यस्य स क्षतपातकजातः, तेन ।
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy