________________
[कर्णिकासमन्विता उपदेशमाला । गाथा-३१]
१२१ पश्येदमित्यसौ हारं तारामयमिवार्पयत् । ब्रह्मदत्ताभिधालक्ष्मलेखं सौभाग्यभासुरम् ॥२२१॥ अथैत्य तापसी मूर्तं काचिल्लेखस्य वाचिकम् । दत्त्वाऽऽशिषं तयोः किञ्चित् ख्यात्वा वरधनोर्ययौ ॥२२२॥ तस्याः कथामथाऽऽचख्यौ राजपुत्राय मन्त्रिसूः । इयमेत्यास्य लेखस्य प्रतिलेखमयाचत ॥२२३॥ को ब्रह्मदत्तो यन्नामलेखोस्तीति मयोदिते । तयोचेऽस्मिन् पुरे श्रेष्ठी धनप्रवर इत्यभूत् ॥२२४॥ अष्टबन्धुकनिष्ठाऽस्ति तस्य रत्नवती सुता । विधिळधित यां खिन्नो रतिरूपनिरूपणे ॥२२५॥ 5 उद्यौवना वनावन्यां यक्षमाराधयच्च सा । अत्युत्तरवरप्राप्त्यै किमन्यत् कामिनीप्रियम् ॥२२६॥ प्रीतो यक्षश्चिरादेष तामभाषत सुध्रुवम् । षट्खण्डमेदिनीभर्ता भर्ता तव भविष्यति ॥२२७॥ श्रीवत्सिनं वनोत्सङ्गेऽत्रैव दैववशागतम् । तं स्वसोदरयोस्ताम्रचूडक्रीडासु वेत्स्यसि ॥२२८॥ दृष्ट्वा तदा तदेनं ते ब्रह्मदत्तं सुहृत्तमम् । न सा बाला हि बालाहिघ्रातेव लभते रतिम् ॥२२९॥ संलिख्य लेखमेषा मे षाड्गुण्यप्रेरितार्पयत् । कृतिन् ! किङ्करहस्तेन रहस्तेन करे तव ॥२३०॥ 10 तया तत्प्रतिलेखार्थं प्रहिताऽस्मि तवान्तिके । इत्युदीर्य स्थिता प्रैषि प्रतिलेखं समर्प्य सा ॥२३१॥ इत्याकर्ण्य कुमारोऽपि प्रज्वलद्विरहज्वरः । शिशिराणि शरीरेणाशिशिराणि चकार सः ॥२३२॥ तदन्वेषिणि कौशाम्बीपतौ दीर्घोपरोधतः । सागरो भूगहे न्यस्य तौ दधार निधानवत् ॥२३३॥ इमौ जिगमिषू नक्तं सागरो दुःखसागरः । रथमारोप्य नीत्वाल्पमध्वानं ववले ततः ॥२३४॥ अस्त्रालिमालितरथारूढावथ च तौ पथि । आरामे कामिनी धामधौतध्वान्तामलोकताम् ॥२३५॥ लग्ना किमतिवेलेति सादरं तौ जगाद सा । ताभ्यामभाषि वामभु ! कौ नौ जानासि कथ्यताम् ॥२३६॥ तयोक्तमद्य यक्षेणाऽऽचचक्षे मम यन्निशि । उद्याने ब्रह्मदत्तेन सङ्गस्तव भविष्यति ॥२३७॥ ज्ञातोऽसि त्वं स पुंरत्न ! विद्धि रत्नवती च माम् । चिरात्त्वद्विरहोत्तप्तामेह्याऽलिङ्ग सुधामय ! ॥२३८॥ तत्तथा प्रतिपद्याऽथ रथमास्थाय भूपभूः । क्व तुरङ्गाः कुरङ्गाक्षि ! प्रेर्याः पप्रच्छ तामिति ॥२३९॥ धनावहः पितृव्यो मे पुरेऽस्ति मगधेशितुः । तत्र गन्तव्यमव्यग्रां प्रतिपत्तिं स दास्यति ॥२४०॥ 20 एवमुक्ते तया मन्त्रिपुत्रेण त्वरया हयाः । विमुक्ताः सारथीभूय भूयसीमटवीमगुः ॥२४१॥ चौरः सुकण्टकस्तत्र कण्टकश्च चमूपती । रथं रुरुधतुर्मूर्त्ताविवानयमहाध्वजौ ॥२४२॥ तयोर्वीराः शरासारैर्वर्षन्तो वारिदा इव । ययुः क्वचित्कुमारात्तचापज्यामरुतैव ते ॥२४३॥ स्यन्दने सञ्चरत्येव परिश्रान्तो नृपात्मजः । सुष्वापाऽयं प्रियायुक्त आत्मेवाऽऽयुषि धीसखः ॥२४४॥ प्रातः श्रमाऽऽज्ञारेखावन्नद्यां तस्थुः स्वयं हयाः । प्रतिबुद्धः कुमारस्तु न रथे मित्रमैक्षत ॥२४५।। 25
15
१. मूर्तिः - C । २. वामस्तु- P। ३. वामयमहध्वजौ-P, C, K वामयमहाध्वजौ-B |
टि. 1. ब्रह्मदत्तं तन्मित्रं च । 2. वामधूः-स्त्री, तत्संबोधने वामभु ! । 3. धी: बुद्धिः साङ्ख्याभिमता, सखी यस्य पुरुषस्य स - धीसखः, आत्मनः विशेषणम् ।