________________
5
10
15
20
१२०
[ कर्णिकासमन्विता उपदेशमाला । गाथा - ३१] गतः कापालिकीभूय काम्पील्याऽन्त्यजपाटके । इतस्ततो भ्रमन् पृष्टो मातङ्गैरेवमभ्यधाम् ॥१९७॥ मातङ्गीं साधयिष्यामि विद्यामिति मंतोऽथ तैः । जनन्यारक्षकं कञ्चिन्मित्रं चकार तत्र च ॥१९८॥ त्वत्पुत्रमित्रं कौण्डिन्यो नमतीत्यथ तन्मुखात् । विज्ञाप्याऽम्बां सगुटिकं बीजपूरकमार्ष्णेयम् ॥ १९९॥ अम्बां तद्भुक्तिनिः संज्ञां मृतेति पुररक्षकः । राज्ञे व्यज्ञपयद्राज्ञा दग्धुं दिष्टाः स्वपूरुषाः ॥ २००॥ ते मयोक्ता मुहूर्त्तेऽस्मिन् दग्धेयं वो नृपस्य च । अनर्थाय भवत्येवं श्रुत्वाऽगुः स्वस्ववेश्मनि ॥ २०२॥
२
अस्याः शबेन साध्यैका विद्येत्याहूय रक्षकम् । दूरं श्मशानमगमं सायमादाय मातरम् ॥ २०२॥ मण्डलाद्यथ निर्माय मया मायामयात्मना । प्रेषितः पुरदेवीनां बलिदानाय रक्षकः ॥२०३॥ उत्थाप्याम्बां स्वमावेद्य निर्वाप्य रुदतीं रयात् । कच्छग्रामे पितृसुहृद्देवशर्मगृहेऽनयम् ॥२०४॥ चकोरक इव स्वामिंस्त्वामिन्दुमनु च भ्रमन् । पुण्यैरपश्यं पश्यन्ति तदेकाग्रहृदो न किम् ॥२०५॥ साधु साध्वितिगीर्वृत्तं कुमारोऽप्याख्यदात्मनः । यावत्ताविति सन्तोषात् कथां रसयतो मिथः ॥ २०६॥ तावत्तौ कश्चिदेत्योचे युष्मच्चित्रपवित्रितम् । पटूकृत्य पटं दीर्घभटा ग्रामे वदन्त्यदः ॥२०७॥ ईदृशी ददृशे क्वाऽपि पुंद्वयीति श्रुतं मया । दृष्टौ चेह युवां कार्यमुचितं रुचितं च यत् ॥२०८॥ यातेऽथ तस्मिन् भीतेन मनसाऽपि पलायिना । 'सुतक्रमाब्जौ कौशाम्बीं तौ गतौ गहनाध्वना ॥ २०९॥ वने सागरदत्तस्य बुद्धिलस्य च तत्र तौ । अपश्यतां लक्षपणं चरणायुधयो रणम् ॥२१०॥
युद्धोत्कटौ कुर्कुटौ तौ पदापदि नखानखि । चञ्चचञ्चवि चञ्चन्तौ चित्रं कस्य न चक्रतुः ॥२११॥ जात्योऽप्यजातिना जिग्ये तदा शक्तोऽप्यशक्तिना । पक्षी सागरदत्तस्य युद्धे बुद्धिलपक्षिणा ॥२१२॥ त्वत्पक्षी पक्षिणानेन मृगेणेव मृगेश्वरः । जिग्ये सागर ! किं वीक्ष्ये तदिमं यदि मन्यसे ॥ २१३॥ इत्युक्तवान् वरधनुः सागरानुमतस्ततः । अयः शूच्यङ्कितपदं तं पैदास्त्रमुदैक्षत ॥ २१४॥
इदं संलक्ष्य लक्षार्द्धं च्छन्नं मेनेऽस्य बुद्धिलः । अमात्यभूः कुमाराय तच्च सर्वं न्यवेदयत् ॥२१५॥ रयादयमय:सूचीर्यमसूक्ष्मरहस्यवत् । कुमारः कौतुकी कृष्ट्वा तौ योद्धुममुचत् पुनः ॥२१६॥ जिगाय लीलयैवाऽयमरिं सागरकुर्कुटः । मायाघाते जघन्यानां कुतस्त्याः स्युर्जयश्रियः || २१७|| हर्षादथ रथस्याङ्कमारोप्य नृपमन्त्रिजौ । स्वागारं सागरो निन्ये जयदः कस्य न प्रियः ॥२१८॥ इच्छान्नपानभोगादियोगादिह महासुखम् । तस्थतुः स्थिर श्रीके तद्गृहे स्वगृहे यथा ॥ २१९ ॥ बुद्धिलानुचरे किञ्चित् गते ख्यात्वैकदाऽवदत् । कुमारं मन्त्रि भूस्तन्मे लक्षार्द्धं बुद्धिलो ददौ ॥ २२०॥
१. मयोदिते-C । २. अस्यां - C | ३. निवार्य - C । ४. रवश्यं - C । ५. याति - C | ६. यिनौ तत्क्र... A । ७. स्तुत... A
KH, B, C, LI
टि. 1. सु धातुः प्रेरणे, भीतेन पलायिनाऽपि मनसा सुतौ प्रेरितौ क्रमाब्जौ ययोः तौ इत्यर्थः । 2. चरणायुधः - कुर्कुटः तयोः । 3. 'चञ्च्' धातुः गत्यर्थः । 4. पदास्त्र - कुर्कुटः तम् ।