________________
[ कणिकासमन्विता उपदेशमाला । गाथा - ३१]
अनया रममाणोऽयमप्रमाणोल्लसन्मदः । विपत्पातैरपि स्वस्मिन्नमन्यत स धन्यताम् ॥ १७३॥ अज्ञातकुलशीलाय त्वं लीलायतनं श्रियः । किं मे राज्ञा नियुक्तेति तदुक्तेयमुदैरयत् ॥१७४॥ अदातुकामः क्ष्मापेषु वैरवैरस्यतः पिता । मामेकदाऽवदद्वत्से ! स्वेच्छया वीक्ष्यतां वरः ॥१७५॥ तदाद्यहमिहोद्याने पान्थलोकमलोकयम् । दृग् न क्वाऽपि विशश्राम चित्राराम इवाऽलिनी ॥१७६॥ तच्चिरात्कैश्चन घनैस्तपोभिः प्राक्तनैर्मया । दुष्प्रापस्त्वमिह प्राप्तो मर्त्यजन्मेव संसृतौ ॥ १७७॥ किं ते कुलादिप्रश्नेन वृतोऽतिगुणवानिति । द्रुनाम नाऽलिनी पृच्छेद् गच्छेद् वृक्षं ससौरभम् ॥१७८॥ आटीद्वाटीमनाहूतोऽप्येष राज्ञा सहैकदा । वाजी धावत्यनुन्नोऽपि धावमानेषु वाजिषु ॥ १७९ ॥ लुण्ट्यमानेऽरिकुट्टाकैर्लुण्टाकैः सुभटैः पुरे । सरोऽसौ प्राप पयसे प्रियमेलकतीर्थवत् ॥१८०॥ मराल इव निर्गत्य तत्तडागत आगतः । ततोऽपतत् कुमारस्य धनुसूनुः पदाब्जयोः ||१८१ ॥ दवार्त्त इव मेघाम्बु कल्पद्रुमिव दुस्थितः । मृतः सञ्जीवनमिवाप्यैनं स मुमुदेतराम् ॥१८२॥ उत्थापितः सबाष्पेणाऽऽलिङ्गितो रोमहर्षिणा । दृष्टास्यः फुल्लनेत्रेण स्मितेनाऽभाषि तेन सः ॥ १८३॥ सखे ! सखेदं मां कुर्वन्नुर्व्यां निपतितस्तदा । पश्चादपश्चिमगुण ! स्थितोऽसि कथमुच्यताम् ॥१८४॥ अथाऽभ्यधात् वरधनुर्ननु वारि सरोवरात् । पद्मिनीपत्रपुटके न्यस्य त्वामहमापतन् ॥१८५॥ दृष्टोऽस्मि दीर्घपुरुषैः रुँषैभिस्ताडितोऽभितः । ब्रह्मभूः क्वेति पृष्टस्त्वां व्याघ्राऽऽघ्रातं न्यवेदयम् ॥१८६॥ युग्मम् । स्थानं तद् दर्शयेत्येभिस्ताड्यमानोऽग्रतः कृतः । त्वद्दृष्टिमार्गमागत्य त्वां संज्ञाप्याऽपतं क्षितौ ॥ १८७॥ परिव्राड्दत्तगुलिकामुखक्षेपप्रभावतः । निःसंज्ञोऽहं मृत इति प्रस्मितैरुज्झितोऽस्मि तैः ॥ १८८ ॥ तेषु पापिषु यातेषु करेष्विव विवस्वतः । आकृषं गुलिकां वक्त्राद् भृङ्गं कुमुदवन्मुदा ॥१८९॥ मरुपान्थस्तरुमिव प्रेक्षितुं त्वामथ भ्रमन् । ग्राममेकमयामेकमिह प्रव्राजमानमम् ॥ १९०॥ स मामूचे वरधनो ! वैसुभागः सुहृद् धनो: । अस्म्यहं वद विश्रब्धः कुमारः कुशली किमु ॥१९१॥ अथो कथितवत्येष कथां मयि यथातथा । जगौ दुःखाग्निधूमैर्मां निश्वासैः श्यामतां नयन् ॥१९२॥ निर्दग्धे दृष्टदग्धैककरङ्के सद्मनि प्रगे । दीर्घः सुरङ्गामद्राक्षीत् तदग्रेऽश्वपदानि च ॥१९३॥ मन्त्रिबुद्ध्या गतौ तावित्यक्रुध्यद्धनुमन्वसौ । आदिशच्चादिशं सैन्यान् बद्ध्वा नेतुं युवां जवात् ॥१९४॥ पलायत ततो मन्त्री सवित्री तु तव द्विषा । चण्डालपाटकेऽक्षेपि दुर्गतिद्वारपाके ॥ १९५॥ तां मालपतितस्येवोत्पिट्टनप्रहतिं कथाम् । शृण्वतोऽजनि मे दुःखोपरिदुःखं सुदुस्सहम् ॥१९६॥
११९
१. उदीरयत्-C, उदेरयन् - KH | २ मा - C | ३. पश्चिमगुणः
६. आदिशत्सादिनां-C । ७. तामाल... - C । ८. ० तस्यैवोत्पिट्टनप्रहति० - A, L, B, K, DI
टि. 1. उद्+ईर् धातुः अवदत् इत्यर्थः । 2. वैरमेव विरसस्यभावः वैरस्यं इति वैस्वैरस्यम्, तस्मात् । 3. रुषा एभिः इति विग्रहः । 4. सवित्री-माता ।
। ४. तापिषु L वादिषु K | ५. महाभाग ! B, C
5
10
15
20