________________
११८
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३१] काऽसीति तेन पृष्टेयमाचष्टेदं ससाध्वसा । मत्कथाऽस्ति पृथुइँहि त्वं कः पङ्कजलोचन ! ॥१४७।। तेन पञ्चालभूपालब्रह्मजोऽहमितीरिते । दृगञ्जलिभ्यां हर्षात्रैर्दत्त्वेवाघु जगाद सा ॥१४८॥ प्रियं प्रियं ममैवाद्य दृष्टः प्रियतमोऽसि यत् । विप्रियप्रसरोऽप्यद्य जानामि प्रलयं गतः ॥१४९॥ अहं सा हंससञ्चार ! कन्या पुष्पवतीति सा । या पित्रा पुष्पचूलेन दत्ता त्वन्मातुलेन ते ॥१५०॥ हर्षोन्मुखी मृगीवाऽहं विवाहदिवसोन्मुखी । व्याधेनेव हृता विद्याधरेणोद्यानखेलिनी ॥१५१॥ नाट्योन्मत्ताभिधोऽयं मां नयहीन इहाऽऽनयत् । दृशं त्वसहमानो मे विद्यां साधयितुं गतः ॥१५२॥ वंशालिमध्य ऊहिधूमपस्य च सेत्स्यति । विद्याऽद्य तस्य तच्छक्त्या किल मां परिणेष्यति ॥१५३॥ कुमारायाऽथ तन्माथकथां दिष्टवते मुदा । स्वं गान्धर्वविवाहेन सा ददौ पारितोषिकम् ॥१५४॥ त्रियामां यामवन्निन्ये रममाणस्तयाऽथ सः । शुश्राव च वचः किञ्चित् स्त्रीणामिव दिवि प्रगे ॥१५५॥ प्रियखण्डा विशाखा च प्राप्ते तस्य द्विषोऽनुजे । इहाऽद्य तद्विवाहार्थमात्तोपकरणे मुधा ॥१५६॥ तिष्ठ क्षणमितो गत्वा स्तुत्वा यावद् भवद् गुणान् । निश्चिनोम्येतयोश्चेतस्त्वयि रागि विरागि वा ॥१५७॥ पताकां प्रेरयिष्यामि रागे रक्तां त्वमापतेः । विरागे विशदां क्वाऽपि तदा त्वं सत्वरं व्रजेः ॥१५८॥ भवन्तमभयं वेद्मि किन्तु तद्वन्धुकोटिभिः । सहाऽयमसहायस्य न युक्तस्तव विग्रहः ॥१५९॥
एवं तदनुरोधेन स तत्रैवैकतः स्थितः । सिताभमसिताक्षी तु ध्वजाञ्चलमचीचलत् ॥१६०॥ 15 स प्रास्थित ततो दीर्घा ललचे च महाटवीम् । ददर्श च सर: सायं निधिप्रायं सुधारुचेः ॥१६१।।
स सस्नौ तत्र गजवद्विललास मरालवत् । महोक्षवत् पपौ वारि वारिदैवतवद्वभौ ॥१६२॥ तन्नीरान्निःसृतस्तीरवन उत्तरपश्चिमे । कामिनीमिव पुष्पेषोः काञ्चित् पुष्पाणि चिन्वतीम् ॥१६३॥ मञ्जरी रूपवृक्षस्य लक्ष्मी लावण्यवारिधेः । भासं सौभाग्यरत्नस्य पश्यति स्म स कन्यकाम् ॥१६४॥ युग्मम् ॥
वदन्ती दासिकां साऽपि सलीलं ददती पदम् । कटाक्षैस्तन्मनः श्यन्ती पश्यन्ती चान्यतो ययौ ॥१६५॥ 20 तया गृहीतचित्तोऽपि वलमानगप्यथ । शून्यशून्यैः पदैः सोऽपि धैर्येणैवान्यतोऽचलत् ॥१६६।।
मालादुकूलताम्बूलैस्तमेत्यानर्च दासिका । देव्या हृदासिकासत्यंकारोऽयमिति चाऽवदत् ॥१६७॥ आदिष्टा चास्मि यदयं सुन्दरो मन्त्रिमन्दिरे । नीत्वाऽऽतिथ्येन तथ्येन श्रमापथ्येन पूज्यताम् ॥१६८॥ नीतः सोऽथ तयाऽगारं नागदत्तस्य मन्त्रिणः । अभ्युत्तस्थौ च तं मन्त्री नृणां वक्त्याकृतिर्गुणान् ॥१६९॥ श्रीकान्तश्रीभवद्धाम्नि धन्योऽयं राजकन्यया । वासाय प्रहितोऽस्तीति द्रुतं सन्दिश्य दास्यगात् ॥१७०॥ प्रवीणः प्रीणयामास तमुपासनया निशि । प्रातमन्त्री धरित्रीशभवनाय निनाय च ॥१७१॥ अनर्घ्यमपि तं क्षोणिपतिर_दिनार्चयत् । पर्यणाययत प्रीतो गुणक्रीतोऽमुनैव ताम् ॥१७२॥
25
टि. 1. श्रमापथ्य:-श्रमस्याऽहितकारी, प्रस्तावात् उपायः, तेन । 2. श्रीकान्तः विष्णुः तस्य इव श्री: शोभा यस्य ।